| YouTube Channel

सृज (sRja)

 
Wilson
English
सृज r. 4th cl. (सृज्यते) r. 6th cl. (सृजति)
1 To leave, to quit.
2 To be left or abandoned.
2 To create, to make.
With उत् or वि prefixed, To abandon, to quit, to reject.
With सम्, To unite, to be in alliance or contact with.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सृज्
मूलधातुः:
सृज
धात्वर्थः:
विसर्गे
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
सृज्यते
धातुः:
सृज्
मूलधातुः:
सृज
धात्वर्थः:
विसर्गे
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
सृजति
धातुप्रदीपः
Sanskrit
सृजँ सृज विसर्गे
- सृज्यते (16) ससृजे स्रष्टा असृष्ट 73
सृजँ सृज विसर्गे
- सृजति ससर्ज्ज ससृजतुः स्रष्टा स्रक्ष्यति अस्राक्षीत् सिसृक्षति सरीसृज्यते सृज्यते श्रद्धया मालां धार्मिकः (24) असर्जि मालां श्रद्धया धार्मिकः सर्गः सृष्टिः स्रक् स्रजौ स्रग्वी 140
शब्दकल्पद्रुमः
Sanskrit
सृज, विसर्गे इति कविकल्पद्रुमः
(तुद०पर०-सक०-अनिट् ।) औ, अस्राक्षीत् श, सृजति इति दुर्गादासः
सृज, विसर्गे इति कविकल्पद्रुमः
(दिवा०-आत्म०-सक०-अनिट् ।) ङ, सृज्यते ।औ, स्रष्टा सरीसृज्यते विसर्गस्त्यागः ।त्यागो व्युद्भ्यां पर एव अन्यत्र करोतीत्यर्थः ।यथा उपासनामेत्य पितुः स्म सृज्यते इतिनैषधम्
संपूर्व्वोऽयमकर्म्मकः यथा संसृ-ज्यते सरसिजैररुणांशुभिन्नैः निशापरिणाम-वायुरिति रघुः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
सृज विसर्गे त्यागे दिवा० आत्म० अनिट्
सक०
सृज्यतेअसृष्ट पर्युस्यसान्न षोपदेशः
सृज विसर्गे तु०
पर०
सक०
अनिट् सृजति अस्राक्षीत् ससर्जिषसस्रष्ठ स्रष्टा स्रक्ष्यति पर्युदासन्न षोपदेशः
क्षीरतरङ्गिणी
Sanskrit
सृजँ सृज विसर्गे
- सृज्यते सृजियुधिधूञां (3187 वा0) कर्मवद् भावः श्यंश्च-सृज्यते माला स्वयमेव सृजिदृशोर्झल्यमकिति (6158)-स्रष्टा पाणौ सृजेर्ण्यत् (31124 वा0) पाणिसर्ग्या रज्जुः समवपूर्वाच्च (21124 वा)-समवसर्ग्या ऋत्विग्दधृग् (3259) इति स्रक् सृजेरसुम् (उ0 115) इति रज्जुः तुदादौ (6119) सृजति 66
सृजँ सृज विसर्गे
- सृजति स्रष्टा, व्रश्चभ्रस्ज (8236) इति षः सृजियुजिधूञां कर्मवद्भावः श्यंश्च (तु0 3187 वा0)-सृज्यति रज्जुः स्वयमेव विभाषा सृजिदृशोः (7265) थलीट्-ससर्जिथ, सस्रष्ठ सृजिदृशोर्झल्यमकिति (6158) इत्यमि कृते वदव्रज (723) इति वृद्धिः-अस्राक्षीत् उणादौ (द्र0 उ0 115) रज्जुः 133
धातुवृत्तिः
Sanskrit
सृजँ सृज (अर्थः) विसर्गे
अयमकर्मकः प्रयुज्यते "वृन्तश्लथं हरति पुष्मनोकहानां, संसृज्यते सरसिजैररुणांशुभिन्नैः' इति कर्मणि प्रयोगे तु प्रकमभङ्गस्स्यात् "स्वाभाविकं परगुणेनविभातवायुस्सौरभ्यमीप्सुरिव ते मुखमारुतस्य' इति सङ्गच्छते पाणिभ्यां सृज्यते पाणिसर्ग्येत्यादयस्तु सृजतेः कर्मणि सृज्यते मालामिति कर्तरि ( सृज्यते ससृजे, ससृजिसे, ) क्रादिनियमान्नित्यमिट् "विभाषा सृजिदृशोः'' इति विकल्पेऽस्य भवति, थलोऽभावात् ( स्रष्टा स्रक्ष्यते सृज्यताम् असृज्यत सृज्येत, सृक्षीष्ट, ) लिङौ ( असृष्ट, असृक्षाताम् सिसृक्षते, ) झलादौ व्रश्चादिना षत्वे "षढोः कस्सि'' इति कत्वम् अकिति झलादौ "सृजिदृशोः'' इत्यादिना अमागमः "हलन्ताच्च'' इति "लिङ्सिचावात्मने पदेषु'' इति सनो लिङ्सिचोश्च कित्त्वात् नामागमो नापि गुणः ( सरीसृज्यते सरीसर्ष्टि सजयति असीसृजत् अससर्जत्, ) "उरृद्वा' 70
सृजँ सृज (अर्थः) विसर्गे
( सृजति ससर्ज ससृजतुः ससर्जिथ सस्रष्ठ ससृजिव ) "विभाषा सृजिदृशोः'' इति थलीड्विकल्पः इडभावे झलाद्यकित्परत्वात् "सृजिदृशेर्झल्यमकिति'' इत्यमागमे यणादेशः "व्रश्च'' आदिना षत्वं, ष्टुत्वं, (स्रष्टा स्रक्ष्यति सृजतु असृजत् सृजेत् ) आशिषि ( सृज्यात् अस्राक्षीत् अस्राष्टाम्) अमागमे यणि "वदव्रज'' इति वृद्धिः झलि सिज्लोपः ( सिसृक्षति ) "हलन्ताच्च'' इति सनः कित्त्वान्नामागमो नापि गुणः ( सरीसृज्यते ) रीगागमः ( सगीसृजीति सरीसर्ष्टि सरीसृष्ट ) इत्यादि ( सर्जयति असीसृजत् अससर्जत् ) उरृद्वा ( सृज्यते मालाम्, असर्जि मालां, ) श्रद्धया निष्पादयति, श्रद्धया निष्पादितवानित्यर्थः "सृजियुज्योः श्यंस्तु'' [ सृजियुज्योः सकर्मकयोः कर्ता बहुलं कर्मवद् भवतीति वक्तव्यम् ] सृजेः श्रद्धोपपन्ने कर्तरीति भाष्यकारवचनात्सकर्मकस्यापि कर्मवद्भावः श्यना यगेव बाध्यते, तु चिणिति कैयटे तदयं कर्मवद्भावश्चिणात्मनेपदार्थो भवति ( सृज्यम् ) "ऋदुपधात्''इति क्यप् पाणिभ्यां सृज्यते इति ( पाणिसर्ग्या ) रज्जुः [ पाणौ सृजेर्ण्यद्वक्तव्यः]"समवपूर्वाच्च'' इति ण्यति "चजोः कुघिण्ण्यतोः'' इति कुत्वम् सृजति तामिति ( सस्रक् ) "ऋत्विक्'' इत्यादिना कर्मणि क्विन्, अमागमः, कत्वञ्च (संसर्गी) "सम्पृचा'' इत्यादिना घिनुण ( रज्जुः ) "सृजेरसुम् च'' इत्युप्रत्ययः सलोपोऽसुमागमश्च तत्र सकारस्य जत्वे श्चुत्वं, ( स्रग्वी ) "अस्मायामेधास्रज'' इति मत्वर्थे विनिः ( स्रजिष्ठः स्रजीयान् स्रजयति ) "विन्मतोर्लुक्'' णाविष्ठवदिति चेष्टेमेयःसु णौ विनो लुक्, सृज्यते इति गतं श्यनि 130
कृदन्तरूपमाला
Sanskrit
1 {@“सृज विसर्गे”@} 2 ‘-- सर्गे सृज्यते सृजतीति च।’ 3 इति देवः।
सर्वाण्यपि रूपाणि भौवादिकमृजूधातुवत् 4 ज्ञेयानि।
5 स्रष्टा, 6 7 पाणिसर्ग्या रज्जुः, 8 समवसर्या, 9 स्रक्, 10 स्रज्वा इमानि रूपाणि इति विशेषः।
सनि 11 सिसृक्षकः-क्षिका इति रूपम्।
यङि 12 सरीसृजकः-जिका इति रूपम्।
प्रासङ्गिक्यः
01
=>
(१९१५)
02
=>
(४-दिवादिः-११७८। सक। अनि। आत्म।)
03
=>
(श्लो। ६२)
04
=>
(१३०२)
05
=>
[[१४। ‘सृजिदृशोः--’ (६-१-५८) इति अमागमो भवति। लघूपधगुणापवादोऽयमागमः। ‘व्रश्चभ्रस्जसृज--’ (८-२-३६) इत्यादिना जकारस्य षकारः
\n\n तृचस्तकारस्य ष्टुत्वेन टकारः।]]
06
=>
[पृष्ठम्१३७९+ २८]
07
=>
[[१। ‘पाणौ सृजेर्ण्यत्--’ (वा। ३-१-११०) इति ण्यत्प्रत्ययः, ऋदुपधलक्षणस्य क्यपोऽपवादः। ‘चजोः--’ (७-३-५२) इति कुत्वम्। पाणिभ्यां सृज्यते इति पाणिसर्ग्या रज्जुः।]]
08
=>
[[२। ‘समवपूर्वाच्च’ (वा। ३-१-११०) इति सम्, अव इत्युपसर्गयोरप्युपपदयोः सृजेः ण्यत् भवति।]]
09
=>
[[३। ‘ऋत्विक्दधृक्स्रक्--’ (३-२-५९) इति धातोः कर्मणि क्विन्प्रत्ययः अमागमश्च निपात्यते। तेन रूपमेवम्। सृजन्ति तामिति स्रक् माला।]]
10
=>
[[४। ‘सृजेरम् च’ (द। उ। ६-६७) इति क्वनिप्प्रत्ययः, अमागमश्च। सृजति सृज्यते वा स्रज्वा = तन्तुसृक्। प्रत्ययस्य कित्त्वात् अमागमेऽप्राप्ते विधानार्थम् सूत्रे ‘अम् च’ इत्युक्तम्।]]
11
=>
[[५। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्बात् अमागमो न, नापि गुणः। ‘व्रश्चभ्रस्ज- सृज--’ (८-२-३६) इति जकारस्य षत्वे, ‘षढोः कः सि’ (८-२-४१) इति तस्य ककारे, ‘इण्कोः--आदेशप्रत्यययोः’ (८-३-५७
\n\n ५९) इति सनः सकारस्य षकारे रूपमेवम्।]]
12
=>
[[६। यङन्ते सर्वत्र ‘रीग् ऋदुपधस्य च’ (७-४-९०) इति रीगागमः।]]
1 {@“सृज विसर्गे”@} 2 ‘… सर्गे सृज्यते सृजतीति च।’ 3 इति देवः।
मुण्डकोपनिषदि 4 सृजते इति प्रयोगात् आत्मनेपदमपि इति ज्ञेयम्।
सर्जकः-र्जिका, सर्जकः-र्जिका, 5 सिसृक्षकः-क्षिका, सरीसृजकः-जिका
इत्यादीनि रूपाणि सर्वाण्यपि आदादिकशुद्ध्यर्थकमृजू 6 धातुवत् ऊह्यानि।
7 सृज्यम्, 8 संसर्गी 9 , 10 पाणिसर्ग्या रज्जुः, अवसर्गः-विसर्गः, उपसर्गः, 11 स्रष्टा, सृष्टिः 12, 13 स्रक्, 14 रज्जुः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१९१६)
02
=>
(६-तुदादिः-१४१४। सक। अनि। पर।)
03
=>
(श्लो। ६२)
04
=>
(१-१-७)
05
=>
[[७। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वान्नामागमः, नापि गुणः।]]
06
=>
(१३०२)
07
=>
[[८। ‘ऋदुपधात्--’ (३-१-११०) इति क्यपि रूपमेवम्।]]
08
=>
[[९। ‘संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज--’ (३-२-१४२) इति तच्छीलादिषु कर्तुषु घिनुण्प्रत्यये ‘चजोः--’ (७-३-५२) इति कुत्वे रूपमेवम्।]]
09
=>
[[आ। ‘संसर्गी परिदाहीव शीतोऽप्याभाति शीकरः।’ भ। का। ७-८।]]
10
=>
[[१०। पाणिभ्यां सृज्यते इति पाणिसर्ग्या रज्जुः। ‘पाणौ सृजेः--’ (वा। ३-१-११०) इति ण्यति, ‘चजोः--’ (७-३-५२) इति कुत्वे रूपमेवम्।]]
11
=>
[पृष्ठम्१३८०+ २९]
12
=>
[[आ। ‘इयं दानवराज्यस्य पूः सृष्टिर्विश्वकर्मणः।।’ भ। का। ७-६७।]]
13
=>
[[१। सृजति तामिति ‘ऋत्विक् दधृक्स्रक्--’ (३-२-५९) इति क्विन्प्रत्ययः अमागमश्च निपात्यते।]]
14
=>
[[२। ‘सृजेरसुं च’ (द। उ-१-१००) इति धातोरुप्रत्ययः, असुं इति प्रकृतेः आगमः, आदिलोपश्च।]]