| YouTube Channel

सूर्य्योदयः (sUryyodayaH)

 
शब्दकल्पद्रुमः
Sanskrit
सूर्य्योदयः,
पुं,
(सूर्य्यस्य उदयः ।) सूर्य्यस्य प्रकाशः ।यथा, विष्णुधर्म्मोत्तरे ।“सावने तथा मासि त्रिंशत्सूर्य्योदयाः स्मृताःआदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः
”इति मलमासतत्त्वम्
तत्र शयननिषेधो यथा, --“सूर्य्योदये चास्तमिते शायिनंविमुञ्चति श्रीरपि चक्रपाणिनम्
”इति लक्ष्मीचरितम्
*
तत्काले स्नानादेः कत्त व्यता यथा, --“सूर्य्योदयं विना नैव स्नानदानादिकाः क्रियाःइति प्रायश्चित्ततत्त्वम्