| YouTube Channel

सूर्य्यावर्त्तः (sUryyAvarttaH)

 
शब्दकल्पद्रुमः
Sanskrit
सूर्य्यावर्त्तः,
पुं,
(सूर्य्य इव आवर्त्तते इति +वृत् + अच् ।) क्षुपविशेषः हुडहुडिया इतिभाषा अस्य गुणः सूर्य्यावर्त्तो विबन्धघ्नः ।इति राजवल्लभः
शाकविशेषः सुलचियाइति भाषा तत्पर्य्यायः ।“पार्व्वतेयश्च करभो वशिरः कपिपिप्पली ।जामातासौ क्वचित् प्रोक्तः सूर्य्यावर्त्तः सितो-ऽपरः
”इति रत्नमाला
“वराहकाली कथितः सूर्य्यावर्त्तस्तु शाब्दिकैः
”इति हारावली