| YouTube Channel

सूर्य्या (sUryyA)

 
शब्दकल्पद्रुमः
Sanskrit
सूर्य्या,
स्त्री,
(सूर्य्यस्य भार्य्या टाप् ।) सूर्य्यभार्य्यासंज्ञा इति शब्दरत्नावली
इन्द्रवारुणी ।इति राजनिर्घण्टः नवोढा इति शब्दरत्ना-वली
यथा, श्रीभागवते १० २९ ।“तस्यां हि कर्हिचिच्छौरिर्व्वसुदेवः कृतोद्वहः ।देवक्या सूर्य्यया सार्द्धं प्रयाणे रथमारुहत्
”(वाक् इति निघण्टुः ११ “सर्त्ते-र्गत्यर्थात् सुवतेर्व्वा प्रेरणार्थात् राजसूय-सूर्य्येत्यादिना निपातनात् क्यपि सर्त्तेरूत्वंसुवतेर्व्वा रुडागमः सरति गच्छति स्तोतॄन्प्रति, कर्णशष्कुलिं वा सुवति प्रे रयति चोदना-रूपा पुरुषादीनिदं कुर्व्विति यद्वा, सुपूर्व्वा-दीरतेः कृत्यल्युटो बहुलम् इति कर्म्मणि क्यपिनिपातनाद्रूपसिद्धिः सुष्ठु ईर्य्यते उच्चार्य्यते इतिसूर्य्या यद्वा, षु प्रेरणेसुसूधीगृधिभ्यः क्रनितिक्रन्-प्रत्ययः प्रेर्य्यते उच्चारणकाले प्राणेन सूराछन्दसि स्वाथ इति यत्प्रत्ययः सूर्य्या यद्वा, सूरयो मेधाविनः तानर्हति छन्दसि च, इति यत्प्रत्ययः यद्वा, सूरिषु साधुः तत्र साधुः इतियत् ।” इति तट्टीकायां देवराजयज्वा
)
वाचस्पत्यम्
Sanskrit
सूर्य्या स्त्री सूर्य्यस्य भार्य्या टाप् अमानुष्यां संज्ञानाम्म्यंसूर्य्यभार्य्यायाम् मानुष्यां कुत्न्यान्तु ङीपि सीर्प्त्येव