| YouTube Channel

सूर्य्यवंशः (sUryyavaMzaH)

 
शब्दकल्पद्रुमः
Sanskrit
सूर्य्यवंशः,
पुं,
(सूर्य्यस्य वंशः ।) सूर्य्यस्य सन्तानः ।तद्विवरणं यथा परमेश्वरात् ब्रह्मा जातः ।तस्य पुत्त्रो मरीचिः तस्य कश्यपः तस्यसूर्य्यः तस्य वैवस्वतो मनुः सत्ययुगे मनु-रेव राजासीत् त्रेतायुगे तस्य पुत्त्रः इक्ष्वाकुःअयोध्यायां राजासीत् अस्मिन् युगे अति-दीर्घायुषो राजानो बहुकालं राज्यं कृतवन्तः ।त्रेताद्वापरयोः सन्धौ श्रीरामचन्द्रो दशरथसुत-रूपेण अवतीर्णः द्वापरयुगस्य प्रथमे तस्यपुत्त्रः कुशो जातः तद्वंशः सुमित्रान्तः कलेःसहस्रवर्षपर्य्यन्तं राज्यं कृतवन्तः एतत्पर्य्यन्तंसूर्य्यवंशविश्रान्तिः पुनः सत्ययुगे मरुः नष्टंसूर्य्यवशं भावयिष्यति यः योगसिद्धः सन्कलापग्रामे आस्ते इति श्रीभागवतमतम्
वंशवर्णनविस्तारस्तु मत्स्यपुराणे ११ अध्या-यादौ गरुडपुराणे १४३ अध्याये द्रष्टव्यः