| YouTube Channel

सूर्य्यलोकः (sUryyalokaH)

 
शब्दकल्पद्रुमः
Sanskrit
सूर्य्यलोकः,
पुं,
(सूर्य्यस्य लोकः ।) सौरभुवनम् ।यथा, --“विनौषधैर्विना वैद्यैर्विना पथ्यपरिग्रहैः ।कालेन निधनं प्राप्य सूर्य्य लोके महीयते
”इति काशीखण्डे सूर्य्यार्घ्य दानफलम्
अपि ।“सौरं लोकमथावाप्य क्षणेन विमानगः ।यथा कदम्बकुसुमं किञ्जल्कैः सर्व्वतोवृतम्
देदीप्यमानं हि तथा समन्ताद्भानुभानुभिः ।दूराद्रविं विज्ञाय धृततामरसद्वयम्
नवभिर्य्योजनानाञ्च सहस्रैः सम्मितेन ।विचित्रेणैकचक्रे सप्तसप्तियुतेन
अनूरुणाधिष्ठितेन सर्व्वतो धृतरश्मिना ।अप्सरोमुनिगन्धर्व्वसर्पग्रामणिनैरृतैः
स्यन्दनेनातिजविना प्रणनाम कृताञ्जलिः ।तस्य प्रणामं देवोऽपि भ्रूभङ्गेनानुमन्य ।अतिदूरं नभोवर्त्म प्रतिचक्राम क्षणात्
प्रक्रान्ते द्युमणौ दूरं शिवशर्म्मातिशर्म्मवान् ।प्रोवाच भगवद्भृत्यौ कथं लभ्यं रवेः पदम्
”इति स्कन्दपुराणे काशीखण्डे सूर्य्यलोकवर्णनंनाम अध्यायः