| YouTube Channel

सूर्य्यपुत्त्रः (sUryyaputtraH)

 
शब्दकल्पद्रुमः
Sanskrit
सूर्य्यपुत्त्रः,
पुं,
सूर्य्यस्य पुत्त्रः ।) वरुणः शनिः ।इति केचित्
(यथा, महाभारते १३ ।“मघास्वङ्गारको वक्रः श्रवणे बृहस्पतिः ।भाग्यं नक्षत्रमाक्रम्य सूर्य्यपुत्त्रेण पीड्यते
”)यमः यथा, --“धर्म्मराज नमस्तुभ्यं नमस्ते यमुनाग्रज ।पाहि मां किङ्करैः सार्द्धं सूर्य्यपुत्त्र नमोऽस्तु ते
”इति तिथ्यादितत्त्वम्
(अश्विनीकुमारौ यथा, महाभारते १३ ।१५७ १९ ।“पिबेतामश्विनौ सोमं भवद्भिः सहितावुभौ ।उभावेतावपि सुरौ सूर्य्यपुत्त्रौ सुरेश्वर !
”)अन्यत् सूर्य्यतनयशब्दे द्रष्टव्यम्