| YouTube Channel

सूर्य्यतनयः (sUryyatanayaH)

 
शब्दकल्पद्रुमः
Sanskrit
सूर्य्यतनयः,
पुं,
(सूर्य्यस्य तनयः ।) शनैश्चरग्रहः ।यमः (सावर्णिमनुः रेवन्तः ।) यथा, --“तस्य पत्नीत्रयन्तद्वत् संज्ञा राज्ञी प्रभा तथा ।रेवतस्य सुता राज्ञी रेवन्तं सुषुवे सुतम् ।प्रभा प्रभातं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ।यमश्च यमुना चैव यमलौ तु बभूवतुः
जनयामास तस्यान्तु पुत्त्रञ्च मनुरूपिणम् ।सवर्णत्वाच्च सावर्णिर्मनोर्वैवस्वतस्य
ततः शनिञ्च तपतीं विष्टिञ्चैव क्रमेण तु ।छायायां जनयामास संज्ञे यमिति भास्करः
९इति मात्स्ये ११ अध्यायः
(वानरराजः सुग्रीवः कर्णश्च
)