| YouTube Channel

सूर्य्यग्रहणं (sUryyagrahaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
सूर्य्यग्रहणं,
क्ली,
(सूर्य्यस्य ग्रहणम् ।) सूर्य्योप-रागः तत्कारणं यथा, वह्निपुराणे गणभेद-नामाध्याये ।“सूर्य्येन्दोरुपरागस्तु गोलकच्छायाया भवेत् ।अन्योन्ययोस्तयोरेव व्यापयोरेव कारणात्
ग्रासमोक्षौ तु जायेते तत्रातः पूर्व्वपश्चिमौ ।तत्र पुण्यफलाद्भागः कृतो राहोस्तु विष्णुना
”अन्यत् ग्रहणशब्दे द्रष्टव्यम्