| YouTube Channel

सूर्य्यकालानलचक्रं (sUryyakAlAnalacakraM)

 
शब्दकल्पद्रुमः
Sanskrit
सूर्य्यकालानलचक्रं,
क्ली,
नरणा शुभाशुभज्ञानार्थंनक्षत्रघटितचक्रविशेषः यथा, --“ऊर्द्धगास्त्रित्रिशूल्यग्रास्तिस्रस्तिर्य्यग्व्यवस्थिताःद्वे द्वे नाड्यौ स्थिते कोणे शृङ्गयुग्मं तथैकया
मध्यत्रिशूलदण्डादौ भानुभाद्यं भमण्डलम् ।साभिजित्तत्र दातव्यं सव्यमार्गेण सर्व्वदा
नाम ऋक्षं स्थितं यत्र ज्ञेयं तत्र श्रुभाशुभम् ।अधोगतैस्त्रिनक्षत्रैरुद्वेगो वधबन्धनम्
रेखाष्टके जयो लाभ ऋक्षषट्के तथा पुनः ।शृङ्गयुग्मे रुजाभङ्गो मृत्युः शूलत्रये स्फुटम्
विवादे व्यसने युद्धे रोगार्त्ते गमने तथा ।सूर्य्यकालानलं चक्रं ज्ञातव्यन्तु प्रयत्नतः
”इति स्वरोदयः