| YouTube Channel

सूर्य्यकान्तः (sUryyakAntaH)

 
शब्दकल्पद्रुमः
Sanskrit
सूर्य्यकान्तः,
पुं,
(सूर्य्यः कान्तो यस्य सूर्य्यस्यकान्तः प्रियो वा ।) स्फटिकः इति हला-युधः
मणिविशेषः (यथा, रघुवंशे ११ ।२१ ।“ज्योतिरिन्धननिपाति भास्करात्सूर्य्यकान्त इव ताडकान्तकः
”)तत्पर्य्यायः सूर्य्यमणिः सूर्य्याश्मा दहनो-पमः इति हेमचन्द्रः
तपनमणिः तापनः ६रविकान्तः दीप्तोपलः अग्निगर्भः ज्वल-नाश्मा १० अर्कोपलः ११ अस्य गुणाः ।उष्णत्वम् निर्म्मलत्वम् रसायनत्वम् वात-श्लेष्महरत्वम् मेध्यत्वम् पूजनाद्रवितुष्टिदत्वञ्चइति राजनिर्घण्टः
पुष्पवृक्षविशेषः तत्-पर्य्यायः सूर्य्यमणिः पुष्परक्तः पचत्पुटः ।इति शब्दचन्द्रिका