| YouTube Channel

सूर्य्यः (sUryyaH)

 
शब्दकल्पद्रुमः
Sanskrit
सूर्य्यः,
पुं,
(सरति आकाशे सुवति कर्म्मणि लोकंप्रेरयति वा सृ गतौ सूप्रेरणेवा + “राजसूय-सूर्य्यमृषोद्येति ।” ११४ इति क्यप्प्रत्ययेनमाधुः ।) ग्रहविशेषः अर्कपर्णः इतिमेदिनी
बलिपुत्त्रः इति केचित्
(यथा, हरिवंशे ७४ ।“बलेः पुत्त्रशतञ्चासीत् बाणज्येष्ठं नराधिप ।धृतराष्ट्रश्च सूर्य्यश्च चन्द्रमाश्चेन्द्रतापनः
”)दानवविशेषः यथा, --“अभवन् दनुपुत्त्राश्च वंशे ख्याता महासुराः ।विप्रचित्तिप्रधानास्ते शतं तीव्रपराक्रमाः
स्वर्भानुर्वृषपर्व्वा कुहदश्च महासुरः ।धृतराष्ट्रश्च सूर्य्यश्च दनुमानिन्द्रतापनः
”इति वह्निपुराणे काश्यपीयवंशः
ग्रहविशेषस्य पर्य्यायो यथा सूरः अर्य्यमा ३आदित्यः द्वादशात्मा दिवाकरः भास्करः७ अहस्करः व्रध्रः प्रभाकरः १० विभा-करः ११ भास्वान् १२ विवस्वान् १३ सप्ताश्वः १४हरिदश्वः १५ उष्णरश्मिः १६ विवर्त्तनः १७अर्कः १८ मार्त्तण्डः १९ मिहिरः २० अरुणः २१पृषा २२ द्युमणिः २३ तरुणिः २४ मित्रः २५चित्रभानुः २६ विरोचनः २७ विभावसुः २८ग्रहपतिः २९ त्विषाम्पतिः ३० अहःपतिः ३१भानुः ३२ हंसः ३३ सहस्रांशुः ३४ तपनः ३५सविता ३६ रविः ३७ इत्यमरः २८ -- ३१
शृरः ३८ भगः ३९ वृध्नः ४० पद्मिनीवल्लभः ४१हरिः ४२ दिनमणिः ४३ चण्डांशुः ४४ सप्त-मप्तिः ४५ गभस्तिमान् ४६ अंशुमाली ४७काश्यपेयः ४८ खगः ४९ भानुमान् ५० लोक-लोचनः ५१ पद्मबन्धुः ५२ ज्योतिष्मान् ५३अव्यथः ५४ तापनः ५५ चित्ररथः ५६खमणिः ५७ दिवामणिः ५८ गभस्तिहस्तः ५९हेलिः ६० पतङ्गः ६१ अर्च्चिः ६२ दिनप्रणीः ६३षेदोद्यः ६४ कालकृतः ६५ ग्रहराजः ६६तमोनुदः ६७ रसाधारः ६८ प्रतिदिवा ६९ज्योतिःपीथः ७० इनः ७१ इति शब्दरत्ना-वली
कर्म्मसाक्षी ७२ जगच्चक्षुः ७३ त्रयी-तपः ७४ प्रद्योतनः ७५ खद्योतः ७६ लोक-बान्धवः ७७ पद्मिनीकान्तः ७८ अंशुहस्तः ७९पद्मपाणिः ८० हिरण्यरेताः ८१ पीतः ८२अद्रिः ८३ अगः ८४ हरिवाहनः ८५ अम्ब-रीषः ८६ धामनिधिः ८७ हिमारातिः ८८गोपतिः ८९ कुञ्जारः ९० प्लवगः ९१ सूनुः ९२तमोपहः ९३ गभस्तिः ९४ इति जटाधरः
*
अस्य वणः रक्तश्याममिश्रितः पूर्व्वदिक्-पुरुष-क्षत्त्रियजाति-सत्त्वगुण-कटुरससिंहराशीनामधिपतिः धान्यादिसुवर्णद्रव्यचतुष्पदगो-भूमिस्वामी चतुष्कोणाकृतिः मध्याह्वकालेप्रबलः वृद्धः रणचारी तिक्तरसप्रियश्च ।इति बृहज्जातकादयः
*
ग्रहयज्ञे तु ।वर्त्तुलाकारः मण्डलमध्यस्थः अस्य जन्मभूमिःकलिङ्गदेशः गोत्रः काश्यपः वर्णः रक्तः ।पूर्व्वमुखः जातिः ब्राह्मणः बलिर्गुडौदनम् ।धूपो गुग्गुलुः गन्धो रक्तचन्दनम समित्अर्कः अस्य ध्यानम् ।“क्षत्त्रियं कांश्यपं रक्तं कालिङ्गं द्वादशाङ्गुलम् ।पद्महस्तद्वयं पूर्व्वाननं सप्ताश्ववाहनम् ।शिवाधिदैवतं ध्यायेद्वह्निप्रत्यधिदैवतम्
”अस्य मन्त्रः ।“आकृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतंमर्त्यञ्च हिरण्ययेन सविता रथेन देवो यातिभुवनानि पश्यन्
दक्षिणा धेनुः इति ग्रह-यागसंस्कारतत्त्वे
*
तस्योत्पत्त्यादिर्यथा, --“अथान्तरीक्षादाभाष्य कश्यपं मुनिसत्तमम् ।सतोयमेघगम्भीरा वागुवाचाशरीरिणी
मारितञ्च यतः प्रोक्तमेतदण्डं त्वयादितिम् ।तस्मान्मुने सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यति
सूर्य्याधिकारञ्च विभुर्ज्जगत्येष करिष्यति ।हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन्
देवा निशस्येति वचो गगनात् समुपागतम् ।प्रहर्समतुलं याता दानवाश्च हतौजसः
ततो युद्धाय दैतेयानाजुहाव शतक्रतुः ।सह देवैर्मुदा युक्तो दानवाश्च तमभ्ययुः
तेषां युद्धसभूद्घोरं देवानामसुरैः सह ।शस्त्रास्त्रदीप्तिसंदीप्तसमस्तभुवनान्तरम्
तस्मिन् युद्धे भगवता मार्त्तण्डेन निरीक्षिताः ।तेजसा दह्यमानास्तु भस्मीभूता महासुराः
ततः प्रहर्षमतुलं प्रापुः सर्व्वे दिवौकसः ।तुष्टुवुस्तेजसो योनिं मार्त्तण्डमदितिं तथा
स्वाधिकारं ततः प्रापुयज्ञभागाश्च पूर्व्ववत् ।भगवानपि मार्त्तण्डः स्वाधिकारमथाकरोत्
कदम्बपुष्पवद्भास्वानधश्चोर्द्धञ्च रश्मिभिः ।वृत्तोऽग्निपिण्डमदृशो दध्र नातिस्फुटं वपुः
”इति मार्कण्डयपुराणे मार्त्तण्डोत्पत्तिः
*
मार्कण्डेय उवाच ।“अथ तस्मै ददौ कन्यां संज्ञां नाम विवस्वते ।प्रसाद्य प्रणतो भूत्वा विश्वकर्म्मा प्रजापतिः
विवस्वतस्तु संभूतौ मनू द्वौ चरितं तयोः ।पूर्व्वमेव तवाख्यातं मयैतदखिलं द्विज
त्रीण्यपत्यान्यसौ तस्यां जनयामास गोपतिः ।द्वौ पुत्त्रौ सुमहाभागौ कन्याञ्च यमुनां नदीम्
मनुव्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः ।तेषां यमो यमी चैव यमलौ संबभूवतुः
तत्तेजोऽभ्यधिकं चैव मार्त्तण्डस्य विवस्वतः ।असहन्ती तु तच्चेजः स्वां छायां वीक्ष्य साब्रवीत्संज्ञोवाच ।अहं यास्यासि भद्रं ते स्वकञ्च भवनं पितुः ।निर्विकारं त्वयाप्यत्र स्थेयं मच्छासनात् शुभे
इमौ बालकौ मह्यं कन्या वरवर्णिनी ।संभाव्या नैव चाख्येयमिमं भगवते त्वया
छायोवाच ।आकेशग्रहणाद्देवि आशापान्नैव कर्हिचित् ।आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम्इत्युक्ता छायया संज्ञा जगास पितृमन्दिरम् ।तत्रावसत् पितृगृहे कञ्चित् कालं शुभेक्षणा
भर्त्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः ।अगच्छद्वडवा भूत्वा कुरून् विप्रोत्तरांस्ततः
तत्र तेपे तपः साध्वी निराहारा महामुने ।पितुः समीपं यातायाः संज्ञाया वाक्यतत्परा
तद्रूपधारिणी च्छाया भास्करं समुपस्थिता ।तस्याञ्च भगवान् सूर्य्यः संज्ञेयमिति चिन्तयन्
तथैव जनयामास पुत्त्रौ द्वौ कन्यकां तथा ।पूर्व्वजस्य मनोस्तुल्यः सावर्णिस्तेन सोऽभवत्
यस्तयोः प्रथमं जातः पुत्त्रयोर्द्विजसत्तम ।द्वितीयो योऽभवच्चान्यः ग्रहोऽभूत् शनैश्चरः
कन्याभूत्तपती या तां वव्रे संवरणो नृपः ।संज्ञा तु पार्थिवी तेषामात्मजानां यथाकरोत्
स्नेहं पूर्व्वं जातानां तथा कृतवती सती ।मनुस्तत् क्षन्तवांस्तस्या यमश्चास्या चक्षमे
बहुशः पीड्यमानस्तु पितुः पत्न्या सुदुःखितः ।स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात्पदा संतर्जयामास च्छायां संज्ञासुतो यमः ।तं शशाप ततः क्रुद्धा संज्ञा सां पार्पिवी भृशम्
छायोवाच ।पदा तर्जयसे यन्मां पितृभार्य्यां गरीयसीम् ।तस्मात्तवैष चरणः पतिष्यति संशयः
यमस्तु तेन शापेन भृशं पीडितमानसः ।मनुना सह धर्म्मात्मा सर्व्वं पित्रे न्यवेदयत्
यम उवाच ।स्नेहेन तुल्यमस्मासु माता देव वर्त्तते ।विसृज्य ज्यायसोऽप्यस्मान् कनीयांसो बुभूषतितस्या मयोद्यतः पादो तु देहे निपातितः ।बाल्याद्वा यदि वा मोहात् तद्भवान् क्षन्तुमर्हसिशप्तोऽहं तात कोपेन जनन्या तनयो यतः ।ततो मन्ये जननी ममैषा तपतां वर
निर्गुणेष्वपि पुत्त्रेषु माता निर्गुणा भवेत् ।पादस्ते पततां पुत्त्र कथमेतत्तयोदितम्
तव प्रसादाच्चरणौ पतेत् भगवन् यथा ।मातृशापादयं मेऽद्य तथा चिन्तय गोपते
रविरुवाच ।असंशयमिदं पुत्त्र भविष्यत्यत्र कारणम् ।येन त्वामाविशत् क्रोधो धर्म्मज्ञं सत्यवादिनम्
सर्व्वेषामेव शापानां प्रतिघातो हि विद्यते ।न तु मात्राभिशप्तानां क्वचिच्छापनिवर्त्तनम्
शक्यमेतन्मिथ्या तु कर्त्तुं मातुर्व्वचस्तव ।किं चित्ते संविधास्यामि पुत्त्रस्नेहादनुग्रहम् ।कृमयो मांसमादाय प्रयास्यन्ति महीतलम् ।कृतं तस्या वचः सत्यं त्वञ्च त्राता भविष्यसि
मार्कण्डेय उवाच ।आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै ।तुल्येष्वप्यधिकस्नेह एकत्र क्रियते त्वया
नूनं चैषां जननी संज्ञा क्वापि त्वमागता ।विगुणेष्वप्यपत्येषु माता शापं दास्यति
सा तत् परिहरन्तीव नाचचक्षे विवस्वतः ।स चात्मानं समाधाय युक्तस्तत्त्वमवैक्षत
तं शप्तुमुद्यतं दृष्ट्वा छायासंज्ञा दिनाधिपम् ।भयेन कम्पिता ब्रह्मन् यथावृत्तं न्यवेदयत्
विवस्वांस्तु तदा क्रुद्धः श्रुत्वा श्वशुरमभ्यगात् ।स चापि तं यथान्यायमर्च्चयित्वा दिवाकरम् ।निर्दग्धुकामं रोषेण शान्तयामास सुव्रतः
विश्वकर्म्मा उवाच ।तवातितेजसा व्याप्तमिदं रूपं सुदुःसहम् ।असहन्ती ततः संज्ञा वने चरति वै तपः
द्रक्ष्यते तां भवानद्य स्वां भार्य्यां शुभचारिणीम्रूपार्थं भवतोऽरण्ये चरन्ती सुमहत्तपः
मतं मे ब्रह्मणो वाक्यात् यदि ते देव रोचते ।रूपं निवर्त्तयाम्यद्य तव कान्तं दिवस्पते
मार्कण्डेय उवाच ।यतो हि भास्वतो रूपं प्रागासीत् परि-मण्डलम् ।ततस्तथेति तं प्राह त्वष्टारं भगवान् रविः
विश्वकर्म्मा त्वनुज्ञातः शाकद्वीपे विवस्वतः ।भ्रमिमारोप्य तत्तेजः शातनायोपचक्रमे
देवाश्च ब्रह्यणा सार्द्धं भास्वन्तमभितुष्टुवः ।लिख्यमानं सहस्रांशुं प्रणेमुः सर्व्वदेवताः
ततः कोलाहले तस्मिन् सव्वदेवसमागमे ।तेजसः शातनं चक्रे विश्वकर्म्मा शनैः शनैः
”इति मार्कण्डेयपुराणे सूर्य्यतेजःशातनम्
*
“शातितं चास्य यत्तेजस्तेन चक्रं विनिर्मितम्विष्णोः शूलञ्च सर्व्वस्य शिविका धनदस्य
दण्डः प्रेतपतेः शक्तिर्देवसेनापतेस्तया ।अन्येषाञ्चैव देवानामायुधानि विश्वकृत् ।चकार तेजसा भानोर्भासुराण्यरिशान्तये
इति शातिततेजाः श्वशुरेणातिशोभनम् ।वपुर्दधार मार्त्तण्डः पुष्पचापमनोरमम्
ददर्श समाधिस्थां स्वां भार्य्यां बडवाकृतिम्अपापां सर्व्वभूतानां तपसा नियमेन
ततो जगाम भास्वान् वै संज्ञा यत्र व्यवस्थिता
सा दृष्ट्वा तमायान्तं परपुंसो विशङ्कया ।जगाम संमुखं तस्य पृष्ठरक्षणतत्परा
ततश्च नासिकायोगात् तयोस्तत्र समेतयोः ।नासत्यदस्रौ तनयावश्ववक्त्राद्विनिर्गतौ
रेतरसोऽन्ते रेवन्तः स्वङ्गी धन्वी तनुत्रधृक्अश्वारूढः समुत्पन्नो बाणतूणसमन्वितः
ततः स्वरूपमतुलं दर्शयामास भानुमान् ।तस्याथ सा समालोक्य स्वरूपं मुदमाददौ
स्वरूपधारिणीं चैनामानिनाय निजालयम् ।संज्ञां भार्य्यां प्रीतिमतीं भास्करो वारितस्करः
ततः पूर्व्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ।द्वितीयश्च यमः शापात् पापदर्शनतत्परः
कृमयो मांसमादाय पादतस्ते महीतलम् ।पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम्धर्म्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते ।ततो नियोगे तं याम्ये चकारतिमिरापहः
यमुनाञ्च नदीञ्चक्रे कलिन्दान्तरवाहिनीम् ।अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना
गुह्यकाधिपतित्वे रेवन्तो विनियोजितः
रेवन्तमप्याह ततो भगवान् लोकभावनः ।त्वमप्यशेषलोकस्य पूज्यो वत्स भविष्यसि
अरण्येऽग्नौ महादावे वैरिदस्युभयेषु ।त्वां स्मरिष्यन्ति ये मर्त्या मोक्षन्ते ते महापदः
क्षेमं वृद्धिं सुखं राज्यमारोग्यं कीर्त्तिमुन्नतिम् ।नराणां परितुष्टस्त्वं पूजितः संप्रदास्यसि
छायासंज्ञासुतश्चापि सावर्णः सुमहायशाः ।भाव्यः सोऽनागते काले मनुः सावर्णिकोऽष्टमः
मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः ।भ्राता शनैश्चरस्तस्य ग्रहोऽभूच्छासनाद्रवेः
यवीयसी या कन्या तस्य चासीद्द्विजोत्तम ।अभवत् सा सरिच्छ्रेष्ठा तपसी लोकपावनी
यस्तु ज्येष्ठो महाभाग सर्गो तस्येह साम्प्रतम् ।विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य
इदं जन्म देवानां शृणुयाद्वा पठेत्तथा ।विवस्वतस्तु जातानां रवेर्माहात्म्यमेव ।आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः
अहोरात्रकृतं पापमेतत् शमयति श्रुतम् ।माहात्म्यमादिदेवस्य मार्त्तण्डस्य महात्मनः
”इति मार्कण्डेयपुराणे मार्त्तण्डमात्म्यनामा-ध्यायः
अपि ।प्रजापाल उवाच ।“शरीरस्य कथं मूर्त्तिग्रहणं ज्योतिषो द्विज ।एतन्मे संशयं छिन्धि प्रणतस्य द्विजोत्तम
महातपा उवाच ।योऽसावात्मा ज्ञानशक्तिरेक एव सनातनः ।स द्वितीयं यदा चैच्छत् तदा तेजः समुत्थितम्
तत् सूर्य्य इति भास्वांस्तु अन्योन्येन महात्मनःलोलीभूतानि तेजांसि भासयन्ति जगत्त्रयम्
तस्मिम् सर्व्वे सुराः सिद्धा गणाः सर्व्वे मह-षिभिः ।स्वयं भूता इति विभो तस्मात् सूर्य्यस्तु सोऽभवत्लोलीभूतस्य तस्याशु तेजसोऽभूच्छरीरकम् ।पृथक्त्वेन रविः सोऽथ कीर्त्त्यते वेदवादिभिः
भासयन् सर्व्वलोकांस्तु यतोऽसावुत्थितो दिवि ।अतोऽसौ भास्करः प्रोक्तः प्राकर्षाच्च प्रभाकरः ।दिवा दिवस इत्युक्तस्तत्कारित्वाद्दिवाकरः ।सर्व्वस्य जगतस्त्वादिरादित्यस्तेन उच्यते
एतस्य द्वादशादित्याः संभूतास्तेजसा पृथक् ।प्रधान एक एवायं जगत्सु परिवर्त्तते
तं दृष्ट्वा जगतो व्याप्तिं कुर्व्वाणं परमेश्वरम् ।तस्यैवान्तःस्थिता देवा विनिष्क्रम्य स्तुतिं जगुः
”इति वाराहे आदित्योत्पत्तिनामाध्यायः
*
उत्तरायणदक्षिणायनयोरनुलोमप्रतिलोमं गन्त-व्यानि मण्डलानि प्रतिमासं सूर्य्यभ्रमणाधि-कारिगणाश्च यथा, --“अशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः ।आरोहणावरोहाभ्यां भानोरब्देन या गतिः
रथोऽधिष्ठितो देवैरादित्यैरृषिभिस्तथा ।गन्धर्व्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः
धाता कृतस्थला चैव पुलस्त्यो वासुकिस्तथा ।रथकृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैव सप्तमः
एते वसन्ति वै चैत्रे मधुमासे सदैव हि ।मैत्रेय स्यन्दने भानोः सप्त मासाधिकारिणः
अर्य्यमा पुलहश्चैव रथौजाः पुञ्जिकस्थला ।प्रहेतिः कच्छनीरश्च नारदश्च रथे रवेः ।माधवे निवसन्त्येते शुचिसंज्ञे निबोध मे
मित्रोऽत्रिस्तक्षको रक्षः पौरुषेयोऽथ मेनका
हाहा रथस्वनश्चैव मैत्रेयैते वसन्ति वै
वशिष्ठो वरुणो रम्भा सहजन्यो हुहूर्वधः ।रथचित्रस्तथा शुक्रे वसन्त्याषाढसंज्ञिते
इन्द्रो विश्वावसुः स्रोत एलापत्रस्तथाङ्गिराः
प्रम्लोचा नभस्येते सर्पश्चार्के वसन्ति हि
विवस्वानुग्रसेनश्च भृगुरायूरणस्तथा ।प्रम्लोचा शङ्खपालश्च व्याघ्रो भाद्रपदे तथा
पूषा सुरविर्व्वातो गौतमोऽथ धनञ्जयः ।सुषेणोन्यो घृताची वसन्त्याश्वयुजे रवौ
विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तथा ।विश्वाचीसेनजित्संज्ञौ कार्त्तिके चाधिकारिणःअंशुकश्यपतार्क्षास्तु महापद्मस्तथोर्व्वशी ।चित्रसेनस्तथा विद्युत् मार्गशीर्षाधिकारिणः
ऋतुर्भगस्तथोर्णायुस्फूर्जः कर्कोटकस्तथा ।अरिष्टनेमिश्चैवान्या पूर्व्वचित्तिर्व्वराप्सराः ।पौषमासे वसन्त्येते सप्त भास्करमण्डले
लोकप्रकाशनार्थाय विप्रवर्य्याधिकारिणः ।त्वष्टा जमदग्निश्च कम्बलोऽथ तिलोत्तमा
ब्रह्मापेतोऽथ ऋतजित् धृतराष्ट्रश्च सप्तमः ।माघमासे वसन्त्येते सप्त मैत्रेय भास्करे
श्रूयतां चापर सूर्य्ये फाल्गुने निवसन्ति ये ।विष्णुरश्वतरो रम्भा सूर्य्यवर्च्चाश्च सत्यजित्
विश्वामित्रस्तथा रक्षो यक्षापेतो महामुने ।मासेष्वेतेषु मैत्रेय वसन्त्येतेषु सप्तकाः
सवितुर्मण्डले ब्रह्मन् विष्णुशक्त्युपष्टंहिताः ।स्तुवन्ति मुनयः सूर्य्यं गन्धर्व्वैर्गीयते पुरः
नृन्तन्त्यप्सरसो यान्ति सूर्य्यस्यानु निशाचराः
वहन्ति पन्नगा यक्षः क्रियतेऽभीषु संग्रहः
बालखिल्यास्तथैवैनं परिवार्य्य समासते ।सोऽयं सप्तगणः सूर्य्यमण्डले मुनिसत्तम ।हिमोष्णवारिवृष्टीनां हेतुत्वं समुपागतः
”इति विष्णुपुराणे अंशे १० अध्यायः
*
सूत उवाच ।“एवमेष महादेवो देवदेवः पितामहः ।करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः
तस्य ये रश्मयो विप्राः सर्व्वलोकप्रदीपकाः ।तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः
सुसुम्नो हरिकेशश्च विश्वकर्म्मा तथैव ।विश्वव्यचाः पुनश्चान्यः सम्पद्वसुरतः परः ।अर्वाग्वसुरिति ख्यातः स्वराडन्यः प्रकीर्त्तितः
सुसुम्नः सूर्य्यरश्मिस्तु पुष्णाति शिशिरद्युतिम् ।तिर्य्यगूर्द्धप्रचारोऽसौ सुसुम्नः परिगीयते
हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः ।विश्वकर्म्मा तथा रश्मिर्बुधं पुष्णाति सर्व्वदा
विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदासम्पद्वसुरिति ख्यातः पुष्णाति लोहितम्
बृहस्पतिं प्रपुष्णाति रश्मिरर्व्वाग्वसुः प्रभोः ।शनैश्चरं प्रपुष्णाति सप्तमश्च स्वराट् तथा
एवं सूर्य्यप्रभावेण सर्व्वा नक्षत्रतारकाः ।वर्द्धन्ते वर्द्धिता नित्यं नित्यमप्याययन्ति
दिव्यानां पार्थिवानाञ्च नैशानाञ्चेव सर्व्वशः ।आदानान्नित्यमादित्यस्तेजसा तमसां प्रभुः ।आदात्ते तु नाडीनां सहस्रेण समन्ततः
नादेयांश्चैव सामुद्रान् कूपांश्चैव सहस्रशः ।स्थावरान् जङ्गमांश्चैव यच्च कुल्यादिकं पयः
तस्य रश्मिसहस्रन्तु शीतवर्षोष्णनिस्वरम् ।तासां चतुःशतं नाड्यो वर्षन्ते चित्रमूर्त्तयः
छन्दनाश्चैव याह्याश्च कोतना हकनास्तथा ।अमृता नाम ताः सर्व्वा रश्मयो वृष्टिसर्ज्जनाः
हिमोद्घहाश्च तामस्यो रश्मयस्त्रिशतं पुनः ।रश्म्यो मेष्यश्च पैष्यश्च ह्रादिन्यो हिमसर्ज्जनाः
चन्द्रास्ता नामतः सर्व्वाः पीताभाः स्युर्गभस्तयःशुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा
शुक्रास्ता नामतः सर्व्वास्त्रिविधा घर्म्मसर्ज्जनाःसमं विभर्त्ति ताभिः मनुष्यपितृदेवताः
मनुष्यानौषधेनेह स्वधया पितॄनपि ।अमृतेन सुरान् सर्व्वान् तिस्रस्त्रींस्तर्पयत्यसौ
वसन्ते ग्रैष्मिके चैव शतंः सन्तपति त्रिभिः ।शरद्यपि वर्षासु चतुर्भिः सम्प्रवर्षति ।हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः
वरुणो माघमासे तु सूर्य्यः पूषा तु फाल्गुने ।चैत्रे मासि भवेदीशो पाता वैशाखतापनः
ज्यैष्ठमूले भवेदिन्द्र आषाढे सविता रविः ।विवस्वान् श्रावणे मासि प्रोष्ठपद्यां भगः स्मृतः
पर्य्यन्योऽश्वयुजि त्वष्टा कार्त्तिके मासि भास्करःमागशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः
पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्म्मणि ।षड्भिः सहस्रैः पूषा तु देवोऽंशुसप्तभिस्तथा
धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ।विवस्वान् दशभिः पाति पात्यकादशभिर्भगः
सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् ।अर्य्यमा दशभिः पाति पर्य्यन्यो नवभिस्तपेत् ।षड्भी रश्मिसहस्रैस्तु मित्रस्तपतिंविश्वधृक्
वसन्ते कपिलः सूर्य्यो ग्रीष्मे काञ्चनसप्रभः ।श्वेतो वर्षासु वर्णेन पाण्डरः शरदि प्रभुः
हेमन्तेताम्रवर्णः स्यात् शिशिरे लोहितो रविःओषधीषु बलं धत्ते स्वधामपि पितृष्वथ
सूर्य्योऽमरत्वममृतत्रयं त्रिषु नियच्छति ।अन्ये चाष्टौ ग्रहा ज्ञेयाः सूर्य्ये चाधिष्ठिताद्विजाः
चन्द्रमाः सोमपुत्त्रश्च शुक्रश्चैव बृहस्पतिः ।भीमो भानुस्तथा राहुः केतुमानपि चाष्टमः
सर्व्वे ध्रुवे विरुद्धा यैर्ग्रहास्ते वातरश्मिभिः ।भ्राम्यमाणा यथायोगं भ्रमन्त्यनु दिवाकरम्
अलातचक्रवद्यान्ति वातचक्रेरिता द्विजाः ।यस्माद्वहति तान् वायुः प्रवहस्तेन वै स्मृतः *रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।वामदक्षिणतो युक्ता दश तेन निशाकरः
वीथ्याश्रयाणि चरति नक्षत्राणि रविर्यथा ।ह्रासवृद्धी विप्रेन्द्रा ध्रुवाधाराणि सर्व्वदा
सोमः शुक्लपक्षे तु भास्करे परतस्थिते ।आपूर्य्यन्ते परोऽस्यान्तः सततं दिवसक्रमात्
क्षीणेऽपि तं सुरैः सोममाप्याययति नित्यदा ।एकेन रश्मिना विप्राः सुसुम्नाख्येन भास्करः
एषा सूर्य्यस्य वीर्य्येण सोमस्याप्यायिता तनुः ।पौर्णमास्यां दृश्येत संपूर्णो दिवसक्रमात्
संपूर्णमर्द्ध मासेन तं सोमसमृतात्मकम् ।पिबन्ति देवता विप्रा यतस्तेऽमृतभोजनाः
ततः पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके ।अपराह्णे पितॄणां जघन्यां पर्य्युपासते
पिबन्ति हि फलं कालं शिष्टा तस्य कला तु या ।स्वधामृतमयीं पुण्यां तामिन्दोरमृतात्मिकाम्
निःसृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् ।मासतृप्तिमवाप्याग्रां पितरः सन्ति निर्वृताः
सोमस्य विनाशः स्यात् मुधा देवैस्तु पीयते ।एवं सूर्य्यनिमित्तोऽस्य क्षयो वृद्धिश्च सत्तमाः
”इति कौर्म्मे ४० अध्यायः
*
अस्य भार्य्यापत्यानि यथा ।सूत उवाच ।“अदितिः सुषुवे पुत्त्रमादित्यं कश्यपात् प्रभुम् ।तस्यादित्यस्य चैवासीद्भार्य्याणान्तु चतुष्टयम्
संज्ञा राज्ञी प्रभां च्छाया पुत्त्रांस्तासां निबोधतसंज्ञा त्वाष्ट्री तु सुषुवे सूर्य्यान्मनुमनूत्तमम् ।यमञ्च यमुनाञ्चैव राज्ञी रेवन्तमेव
प्रभा प्रभातमादित्याच्छाया सावर्णिमात्मजम्शनिञ्चैव तपतीञ्च विष्टिञ्चैव यथाक्रमम्
”इति कौर्म्मे २० अध्यायः
*
तस्य मण्डलपरिमाणं यथा, --सूत उवाच ।“सूर्य्याचन्द्रमसावेतौ भ्रमतो यावदेव तु ।सप्तानाञ्च समुद्राणां द्वीग्रानाम्भाति विस्तरः
विस्तारार्द्धं पृथिव्यास्तु भवेदन्यत्र वाह्यतः ।पर्य्यासपारिमाण्यात्त चन्द्रादित्यी प्रकाशतः
पर्य्यासपारिमाण्यैस्तु बुधैस्तुल्यं दिनं स्मृतम् ।अवतीमांस्त्रयो लोकान् यस्मात् सूर्य्यः परि-भ्रमात्
अचिरात्तु प्रकाशे तु अवनात् रविः स्मृतः
तयोर्भूयः प्रवक्ष्यामि प्रमाणं चन्द्रसूर्य्ययोः
महितत्वान्महीशब्दो यस्मिन्नर्थे निपात्यते ।अस्य भारतवर्षस्य विष्कम्भात्तुल्यविस्ततम्
मण्डलं भास्करस्याथ योजनैस्तन्निबोधत ।नवयोजनसाहस्रो विस्तारो मण्डलस्य तु
विस्तारात्त्रिगुणश्चापि परिणाहोऽत्र मण्डले ।विष्कम्भमण्डलाच्चैव भास्करात् द्विगुणः शशी
”तस्य गतिनिरूपणं यथा, --“मानसस्योत्तरे पृष्ठे लोकपालाश्चतुर्द्दिशम् ।स्थिता धर्म्मव्यवस्थार्थं लोकसंरक्षणाय
लोकपालोपरिष्टात्तु सर्व्वतो दक्षिणायने ।काष्ठागतस्य सूर्य्यस्य गतिन्तस्य निबोधत
दक्षिणोपक्रमः सूर्य्यः क्षिप्तेषुरिव सर्पति ।ज्योतिषां चक्रमादाय सततं परिगच्छति
मध्यतश्चामरावत्यां यदा भवति भास्करः ।वैवस्वते संयमने ऊर्द्धं तत्र प्रदृश्यते
सुखायामर्द्धरात्रन्तु विभावर्य्यस्तमेति ।वैवस्वते संयमने मध्याह्ने तु रविर्यदा
सुखायामथ वारुण्यामुत्तिष्ठन् तु दृश्यते ।विभावर्य्यामर्द्धरात्रं माहेन्द्र्यामस्तमेति ।सुखायामथ वारुण्यां मध्याह्ने चार्य्यमा यदा ।विभावर्य्यां सोमपुर्य्यां उत्तिष्ठति विभावसुः
रात्र्यर्द्धं चामरावत्यामस्तमेति यमस्य ।सोमपुर्य्यां विभावर्य्यां मध्याह्ने चार्य्यमा यदा
अमरावत्यां महेन्द्रस्य तद्गच्छति दिवाकरः ।अर्द्धरात्रं संयमने वारुण्यामस्तमेति
सुशीघ्रमेव पर्य्येति भास्करोऽलातचक्रवत् ।भ्रमन् वै भ्रममाणानि ऋक्षाणि चरते रविः
ऐवं चतुर्षु पार्श्वेषु दक्षिणान्तेषु सर्पति ।उदयास्तमये चासावुत्तिष्ठति पुनः पुनः
पूर्व्वाह्णे चापराह्णे तु द्वौ द्वौ देवालयौ तु सः ।तपत्येकञ्च मध्याह्ने ताभिरेव रश्मिभिः
उदितो वर्द्धमानाभिर्म्मध्याह्ने तपते विः ।अतः परं ह्रसन्तीभिर्गीभिरस्तन्नियच्छति
उदयास्तमयाभ्याञ्च स्मृते पूर्व्वापरे तु वै ।यावत् पुरस्तात्तपति तावत् पृष्ठेऽथ पार्श्वयोः
यैरर्को यत्र दृश्येत तेषां उदयः स्मृतः ।प्रणाशं गच्छते यत्र तेषामस्तः उच्यते
सर्व्वेषामुत्तरे मेरुर्लोकालोकश्च दक्षिणे ।विदूरभावादर्कस्य भूमेर्लेखागतस्य
ध्रियन्ते रश्मयो यस्मात्तेन रात्रौ दृश्यते ।ऊर्द्ध्वं शतसहस्रन्तु स्थितस्तत्र प्रदृश्यते
एवं पुष्करमध्येन यदा भवति भाष्करः ।त्रिं शद्भागन्तु मेदिन्या मुहूर्त्तेन गच्छति
योजनाद्यां मुहूर्त्तस्य इमां संख्यां निबोधत ।पूर्णे शतसहस्राणामेकत्रिं शत्तु ताः स्मृताः
पञ्चाशच्च सहस्राणि तथान्यान्यधिकानि ।मौहूर्त्तिकी गतिर्ह्येषा सूर्य्यस्य तु विधीयते
एतेन गतियोगेन यदा काष्ठान्तु दक्षिणाम् ।पर्य्यागच्छत् पतङ्गोऽसौ वामकोष्ठेऽन्तरेऽहनि
मध्येन पुष्करस्याथ भ्रमते दक्षिणायने ।मानसोत्तरमेरोस्तु अन्तरं त्रिगुणन्तु तत्
*
सर्पतो दक्षिणायान्तु काष्ठायान्तु निबोधत ।नवकोट्यैः प्रसंख्याता योजनैः परिमण्डलम्
तथा शतसहस्राणि चत्वारिंशच्च पञ्च ।अहोरात्रा पतङ्गस्य गतिरेषा विधीयते
दक्षिणाद्विनिवृत्तोऽसौ विषुवस्थो यदा रविः ।क्षीरोदस्य समुद्रस्य उत्तरातो दिशश्चरन् ।मण्डलं विषुवश्चापि योजनैस्तन्निबोधत
तिस्रः कोट्यस्तु संपूर्णं विषुवस्याथ मण्डलम् ।तथा शतसहस्राणां विंशत्येकाधिका पुनः
*
श्रावणे चोत्तरां काष्ठां चित्रभानुर्यदा भवेत् ।गोमेदकस्य द्वीपस्य उत्तरास्तु दिशश्चरन्
उत्तरायाः प्रमाणन्तु काष्ठाया मण्डलस्य तु ।दक्षिणोत्तरमध्यानि तानि विद्याद् यथाक्रमम्
स्थानं जरद्गवं मन्ये तथैरावतमुत्तमम् ।वैश्वानरं दक्षिणतो निर्द्दिष्टमिह तत्त्वतः
नागवीथ्युत्तरा वीथी अजवीथ्याश्च दक्षिणे ।उभे आषाढमूलन्तु अजवीथ्युदयास्त्रयः
अभिजित् पूर्व्वतः स्वाती नागवीथ्युत्तरास्त्रयः ।अश्विनी कृत्तिका याम्या नागवीथ्युत्तरा स्मृता
रोहिण्यार्द्रा मृगशिरो नागवीथीरिति स्मृता ।पुष्याश्लेषा पुनर्व्वस्वोर्वीथीरैरावती स्मृता
तिस्रस्तु वीथयो ह्येता उत्तरो मार्ग उच्यते ।पूर्व्वा उत्तरफल्गुन्योर्मघा चैवार्षभी भवेत्
पूर्व्वोत्तरे प्रोष्ठपदे गोवीथी रेवती स्मृता ।श्रवणा तु धनिष्ठा वारुणञ्च जरद्गवम् ।एताश्च वाथतस्तिस्रो मध्यमो गार्ग उच्यते
हस्ता चित्रा तथा स्वाती नागवीथीरितिस्मृता ।विशाखमित्रपैत्रश्च नागवीथीरिहोच्यते
मूलपूर्व्वोत्तराषाढा विथीर्व्वश्वानरी तथा ।स्मृ तास्तिस्रस्तु वीथ्यस्ता मार्गे वै दक्षिणे बुधैः
काष्ठयोरन्तरं त्वेता वक्ष्यन्ते योजनैः पुनः ।एतच्छतसहस्राणामेकत्त्रिंशत्तु वै स्मृतम्
शतानि त्रीणि चान्यानि त्रयस्त्रिंशच्च योजनैःकाष्ठयोरन्तरं ह्येवं योजनाग्रात् प्रकीर्त्तितम्
काष्ठयोर्लेखयोर्श्चैव अयने दक्षिणोत्तरे ।ते वक्ष्यामि प्रसंख्याय योजनैस्तु निबोधत
एकैकमन्तरन्तद्वै युक्तान्येतानि सप्ततिः ।सहस्रैरतिरिक्ता ततोऽन्या पञ्चविंशतिः
लेखयोः काष्ठयोश्चैव वाह्याभ्यन्तरयोश्चरन् ।अभ्यन्तरं पर्य्येति मण्डलान्युत्तरायणम्
वाह्यतो दक्षिणेनैव सततं सूर्य्यमण्डलम् ।चरत्यसौ प्रतीच्यान्तु त्र्यशीतिमण्डलं शतम्
तरणिर्द्दक्षिणे तावत् क्रमते मण्डलानि तु ।प्रमाणं मण्डलस्यापि योजनाग्रान्निबोधत
योजनानां सहस्राणि दश चाष्टौ ततः स्मृतः ।अधिकान्यष्टपञ्चाशत् योजनानि वै पुनः
विष्कम्भो मण्डलस्यैतत्तिर्य्यक् तु विधीयते ।अहस्तु चरते नाभिं सूर्य्यो वै मण्डलक्रमात्
कुलालचक्रपर्य्यन्तं यथा ररिः शशी तथा ।दक्षिणे चक्रवत् सूर्य्यस्तथा शीघ्रं निवर्त्तते
तस्मात् प्रकृष्टां भूमिन्तु कालेनाल्पेन गच्छति ।सूर्य्यो द्वादशभिः शीघ्रं मुहूर्त्तैर्द्दक्षिणायने
त्रयोदशार्द्धमृक्षाणां मध्ये चान्तरमण्डलम् ।मुहूर्त्तैस्तानि ऋक्षाणि नक्तमष्टादशैश्चरन्
कुलालचक्रमध्यस्थो यथामन्दं प्रसर्पति ।उदगयने तथा सूर्य्यः सर्पेत् मन्दविक्रमः
तस्मात् दीर्घेण कालेन भूमिं सोऽल्पां प्रसर्पतिसूर्य्योऽष्टादशभिर्बद्धो मुहूर्त्तैरुदगायने
त्रयोदशानां मध्ये तु ऋक्षाणां चरते रविः ।मुहूर्त्तैस्तानि ऋक्षाणि रात्रौ द्वादशभिश्चिरम्
ततो मन्दतरं ताभ्यां चक्रन्तु भ्रमतां पुनः ।मृत्पिण्ड इश मध्यस्थो भ्रमतेऽसौ ध्रुवस्तथा
मुहूर्त्तैस्तावत् त्रिंशद्भिरहोरात्रं घ्रुवं भ्रमन् ।उभयोः काष्ठयोर्म्मध्ये भ्रमते मण्डलानि तु
उत्तरे प्रक्रमेऽर्कस्य दिवा मन्दगतिः स्मृता ।तस्यैव तु पुनर्नक्तं शीघ्रा सूर्य्यस्य वै गतिः
दक्षिणे क्रमणे चापि दिवा शीघ्रं विधीयते ।गतिः सूर्य्यस्य वै नक्तं मन्दा चापि पुनः स्मृता
एवं गतिविशेषेण विभजेद्रात्र्यहानि तु ।अजवीथ्या दक्षिणं यल्लोकालोकस्य चोत्तरम्
लोकसन्तानको ह्येष वैश्वानरपथाद्वहिः ।व्युष्टा यावत् प्रभा सौरी पुष्करात् संप्रकाशते ।पार्श्वेभ्यो बाह्यतस्तावत् लोकालोकस्तु पर्व्वतः
योजनानां सहस्राणि दशोर्द्धं चोच्छ्रितो गिरिः ।प्रकाशश्चाप्रकाशश्च सर्व्वतः परिमण्डलः
नक्षत्रचन्द्रसूर्य्याश्च ग्रहास्तारागणैः सह ।अभ्यन्तरे प्रकाशन्ते लोकालोकस्य वै गिरेः
इति मात्स्ये १०१ अध्यायः
अस्य राहुग्रस्तादिकारणं यथा, --नन्द उवाच ।“राहुग्रस्तः कथं सूर्य्यश्चन्द्रो वापि जगत्प्रभो
नष्टश्चन्द्रः कथं भाद्रे चतुर्थ्याञ्च सितासिते ।वेदानां जनकस्त्वञ्च कं पृच्छामि त्वया विना
श्रीभगवान् उवाच ।शृणु नन्द प्रवक्ष्यामि कथामेतां पुरातनीम् ।यां श्रुत्वा निष्कलङ्कश्च तीर्थस्नायी भवेन्नरः
एकदा यमदग्निश्च महाकौतूहलान्वितः ।रेणुकासहितस्तुष्टो जगाम नर्म्मदातटम् ।निर्ज्जने नर्म्मदातीरे विजहार तया सह
चन्दनोक्षितसर्व्वाङ्गं वस्त्रमाल्यधरं मुनिम् ।महारासरसाढ्यं तमुवाच भास्करः स्वयम्
वेदकर्त्तुः प्रपौत्त्रस्त्वं ब्रह्मणश्च जगत्पतेः ।चतुर्व्वेदविधेयेषु सुनिष्णातः सदा शुचिः
वेदप्रणिहितो धर्म्मो ह्यधर्म्मस्तद्विर्य्ययः ।धर्म्मं त्यजति धर्म्मज्ञो अधर्म्मेण रतः कथम्
दिवामैथुनदोषञ्च वक्ति वेदो विशेषतः ।अहञ्च कर्म्मणां साक्षी तेन त्वां कथयामि ते
सूर्य्यस्य वचनं श्रुत्वा तत्याज मैथुणं द्विजः ।दृष्ट्वा पुगो विप्ररूपं सूर्य्यं तेजस्विनं सुरम् ।उवाच सूर्य्यं रक्तास्यः कोपलज्जासमन्वितः
रेणुका लज्जिता तत्र विधाय वाससी सती
यमदग्निरुवाच ।अद्य मे निर्ज्जनस्थाने रसभङ्गस्त्वया कृतः ।मम शापात् पापदृश्यो राहुग्रस्तो भविष्यति
द्रष्टुं त्वां मेघगणाः सर्व्वे दूरीभूता भवन्ति ते ।त्वामाच्छन्नं करिष्यन्ति वायुना प्रेरितास्तथा
स्वतेजसा भवान् गर्व्वी हततेजा भविष्यति ।मेघाच्छन्नः स्वल्पतेजा राहुग्रस्तो भवान् भव
ब्राह्मणस्य वचः श्रुत्वा भगवान् भास्करः स्वयम्त्रस्तः पुटाञ्जलिर्भूत्वा तुष्टाव मुनिपुङ्गवम्
सूर्य्य उवाच ।अहमेव त्वया शप्तो मया शप्तो भवान् भव ।अन्यथा मां वदन्त्येवं सूर्य्यं निस्तेजसं जनाः
पराभूतः क्षत्त्रियेण भविष्यसि द्विजेश्वरः ।मरणं क्षत्त्रियास्त्रेण भवतश्च भविष्यति
सूर्य्यस्य वचनं श्रुत्वा चुकोप ब्राष्णणः पुनः ।तं शशापातिरक्तास्यः शम्भुना जितोभवान्
उभयोः कलहं ज्ञात्वा कश्यपेन सह व्रज ।आजगाम स्वयं ब्रह्मा विधाता जगतामपि
आगत्य ब्रह्मा संत्रस्तं बोधयामास भास्करम् ।मुनिश्रेष्ठञ्च धर्म्मज्ञं धर्म्मज्ञानां गुरोर्गुरुः
ब्रह्मोवाच ।क्षमस्व भास्कर त्वञ्च साक्षान्नारायणो भवान् ।युष्माकं परिपालश्चाप्यवध्यो ब्राह्मणः सदा
अहं करोमि भवतो विप्रशापान्तमुल्वणम् ।शान्तो भव सुरश्रेष्ठ साक्षी त्वं सर्व्वकर्म्मणाम्
कुत्रचिद्दिवसे ब्रह्मन्नृतौ त्वं कुत्रचित् क्षणम् ।भविष्यसि घनाच्छन्नः सद्यो मुक्तो भविष्यसि
न्यूनातिरिक्ते वर्षे वा राहुग्रस्तो भविष्यसि ।तत्रादृश्यश्च केषाञ्चित् पुण्यदृश्यो हि कस्यचित्
अन्यथा सर्व्वकाले नापुण्यदृश्यो भवान् भुवि ।त्वां दृष्ट्वा नमस्कृत्य सर्व्वे निष्पापिणो जनाः
जन्मसप्ताष्टरिप्फाङ्कचतुर्थे दशमे विधौ ।जन्मर्क्षे निधने नॄणां अदृश्यस्त्वं भविष्यसि
अस्तकाले घनाच्छन्ने मध्याह्नस्थे जलेऽपि वाअर्द्धोदिते काले पापदृश्यो भविष्यसि
भार्य्यादुःखनिमित्तेन भार्य्यया हेतुभूतया ।श्वशुरेण श्यालकेन हततेजा भविष्यसि
अन्यथा तव तेजश्च संज्ञा सहितुमक्षमा ।मालिसुमालियुद्धे शम्भुना त्वं पराजितः
इत्येवमुक्त्वा सूर्य्यञ्च बोधयामास ब्राह्मणम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७९ १-५०
ब्रह्माण्डपुराणे ५९ अध्यायेऽप्येमेव
अथ सूर्य्यमन्त्राः ।“तारो घृणिर्भृगुः पश्चाद्वामकर्णविभूषितः ।वह्नासनो मरुत् शेषः सनेत्रोऽदिस्त्यपश्चिमः ।अष्टाक्षरो मनुः प्रोक्तो भानोरभिमतः परः
”ओँ घृणि सूर्य्य आदित्य अस्य पूजा प्रातःकृत्यादिप्राणायामान्तं विधाय पीठन्यासं कुर्य्यात्तत्र विशेषः हृदयस्य पूर्व्वादिदिक्षु मध्य ।प्रभूतं विमलं सारं समाराध्यं परमसुखं विन्यस्यआधारशक्त्यादि अं सूर्य्यमण्डलाय द्वादशकला-त्मने नमः इत्यन्तं विन्यसेत् तथा निबन्धे ।“पीठे कॢप्ते प्रथमं दिक्षु मध्ये संयजेत् ।प्रभूतं विमलं मारं समाराध्यमनन्तरम्
परमादि सुखं पीठं स्वविम्बान्तं प्रकल्पयेत्
”ततः केशरेषु मध्ये वां दीप्तायै नमः
एवं वीं सूक्ष्मायै वूं जयायै वें भद्रायै वैंविभूत्यै वों विमलायै वौं अमोघायै वं विद्यु-तायै वः सर्व्वतोमुख्यै तथा निबन्धे ।“दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला पुनःअमोघा विद्युता सर्व्वतोमुखी पीठशक्तयः
दीप्तदीपशिखाकारान् बीजन्यासान् विदुःक्रमात् ।अक्लीवह्रस्वत्रितयस्वरान् बिन्द्वग्निसंयुतान्
”तदुपरि ब्रह्मविष्णुशिवात्मकाय सौराय योग-पीठाय नमः यथा शारदायाम् ।“वदेत् पदं चतुर्थ्यन्तं ब्रह्मविष्णुशिवात्मकम् ।सौराय योगपीठाय नमःपदमनन्तरम्
पीठमन्त्रोऽयमाख्यातो दिनेशस्य जगत्पतेः
”तत ऋष्यादिन्यासः शिरसि देवभागऋषयेनमः मुखे गायत्त्रीच्छन्दसे नमः हृदिआदित्याय देवतायै नमः निबन्धे ।“देवभागो मुनिः प्रोक्तो गायत्त्रीच्छन्द ईरितम्आदित्यो देवता प्रोक्तो दृष्टादृष्टफलप्रदः
”ततः कराङ्गन्यासौ सत्याय तेजोज्वालामणेहुँ फट् स्वाहा अङ्गुष्ठाभ्यां नमः एवं ब्रह्मणे१० तर्ज्जनीभ्यां स्वाहा विष्णवे १० मध्यमाभ्यांवषट् रुद्राय १० अनामिकाभ्यां हूम् अग्नये१० कनिष्ठाभ्यां वौषट् सर्व्वाय १० करतल-पृष्ठाभ्यां फट् एवं हृदयादिषु तथा चशारदायाम् ।“सत्याय हृदयं प्राक्तं ब्रह्मण शिर इरितम् ।विष्णवे स्याच्छिखावर्म्म रुद्राय परिकीर्त्तितम्
अग्नये नेत्रमाख्यातं सर्व्वायास्त्रमुदीरितम् ।तेजोज्वालामणे हूँ फट् द्विठान्ताः परिकी-र्त्तिताः
”ततो मूर्त्तिन्यासः यथा शिरसि ओँ आदि-त्याय नमः मुखे एं रवये हृदये ऊं भानवे ।गुह्ये ईं भास्कराय चरणयोः अं सूर्य्याय ।तथा निबन्धे ।“आदित्यं विन्यसेन्मूर्द्ध्नि रविं मुखगतं न्यसेत् ।हृदये भानुनामानं भास्करं गुह्यदेशतः ।सूर्य्यं चरणयोर्न्यस्येद्वर्णैः सत्यादिपञ्चभिः
”ततो मन्त्रन्यासः शिरशि ओँ ओँ नमः मुखेओँ घृ नमः कण्ठे ओँ णि नमः हृदि ओँ सूनमः कुक्षौ ओँ र्य्य नमः नाभौ ओँ आनमः लिङ्गे ओँ दि नमः पादयोः ओँ त्यनमः तथा ।“मूर्द्धास्यकण्ठहृदयकुक्षिनाभिध्वजाङ्घ्रिषु ।मन्त्रवर्णान्न्यसेदष्टौ प्रत्येकं प्रणवादिकान्
*
ततो ध्यानम् ।“रक्ताब्जयुग्माभयदानहस्तंकेयूरहाराङ्गदकुण्डलाद्यम् ।माणिक्यमौलिं दीननाथमीडेबन्धूककान्तिं विलसत्त्रिनेत्रम्
”एवं ध्यात्वा मानसैः संपूज्य अर्घस्थापनं कृत्वागुरुपंक्तिं संपूज्य पीठपूजां कुर्य्यात् ततः स्वंखसोल्काय नमः इति मन्त्रेण मूर्त्तिं संकल्प्यपुनर्ध्यात्वा आवाहनादिपञ्चपुष्पाञ्जलिदान-पर्य्यन्तं विधायावरणपूजामारभेत् तथा चनिबन्धे ।“तारादि खं खंसोल्काय मनुना मूर्त्तिकल्पनासाक्षिणं सर्व्वलोकानां तस्यामावामाह्य पूजयेत्”केशरेष्वग्न्यादिकोणेषु मध्ये दिक्षु सत्यायतेजोज्वालामणे हूँ फट् स्वाहा हृदयाय नमः ।एवं ब्रह्मणे शिरसे स्वाहा विष्णवे शिखायैवषट् रुद्राय कवचाय हूम् अग्नये नेत्रत्रयायवौषट् सर्व्वाय अस्त्राय फट् दिक्पत्रेषुपूर्व्वादि ओँ आदित्याय नमः एवं एं रवयेऊँ भानवे ईं भास्कराय विदिक्पत्रेषुअग्न्यादि उं उषायै पं प्रज्ञायै पं प्रभायै संसन्ध्यायै तथा ।“अङ्गानि पूजयेदादौ दिक्पत्रेष्वर्कमूर्त्तयः ।आदित्याद्याश्चतस्रोऽर्च्च्याः शक्तयः कोण-पत्रगाः
स्वस्वनामादिवर्णाः स्युस्तासां बीजान्यनुक्रमात्उषा प्रज्ञा प्रभा सन्ध्या शक्तयः परिकीर्त्तिताः
”ततः पत्राग्रेषु ब्राह्माद्याः संपूज्य पुरतोऽरुण-मर्च्चयेत् तथा शारदायाम् ।“पत्राग्रसंस्था ब्राह्माद्याः पुरतोऽरुणमर्च्चयेत् ।”तद्वाह्ये चन्द्रादीन् पूजयेत् यथा चन्द्राय नमःएवं मङ्गलाय बुधाय बृहस्पतये शुक्राय शनैश्च-राय राहवे केतवे तथा शारदायाम् ।“चन्द्रादीन्पूजयेत्पश्चात्ग्रहानष्टौ ततो वहिः
”ततः इन्द्रादीन् वज्रादींश्च सम्पूज्य धूपादिविसर्ज्जनान्तंकर्म्म समापयेत् अस्य पुरश्चरण-मष्टलक्षजपः तथा ।“वसुलक्षं जपेन्मन्त्रं समिद्भिः क्षीरशाखिनाम् ।तत्सहस्रं प्रजुहुयात् क्षीराक्ताभिर्ज्जितेन्द्रियः
”वाचनिक एवाष्टसहस्रहोमः
*
मन्त्रान्तरं यथा“आकाशमग्निदीर्घेन्दुसंयुतं भुवनेश्वरी ।सर्गान्वितो भृगुर्भानोस्त्र्यक्षरोऽयं समीरितः
”ह्राँ ह्रीँ सः अस्य पूजाप्रयोगः प्रातः-कृत्यादिपूर्व्वमन्त्रोक्तपीठन्यासं विधाय पूर्व्वोक्तंऋष्यादिन्यासं कुर्य्यात् ततो मन्त्रन्यासः ।यथा आधारादिपादपर्य्यन्तं ह्राँ नमः कण्ठा-दाधारपर्य्यन्तं ह्रीँ नमः मूर्द्धादिकण्ठपर्य्यन्तंसः नमः शारदायाम् ।“आधारादिपदाग्रान्तं कण्ठादाधारकावधि ।मूर्द्धादिकण्ठपर्य्यन्तं क्रमाद्बीजत्रयं न्यसेत्
”ततः कराङ्गन्यासौ ह्राँ अङ्गुष्ठाभ्यां नमः ।ह्रीँ तर्ज्जनीभ्यां स्वाहा हूँ मध्यमाभ्यां वषट्ह्रैँ अनामिकाभ्यां हूँ ह्रीँ कनिष्ठाभ्यांवौषट् ह्रः करतलपृष्ठाभ्यां फट् एवं हृदया-दिषु तथा निबन्धे ।“षड्दीर्घभाजा मध्येन बीजेनाङ्गानि कल्पयेत्
”ततो ध्यानम् ।“रक्ताम्बुजासनमशेषगुणैकसिन्धुंभानुं समस्तजगतामधिपं भजामि ।पद्मद्वयाभयवरान् दधतं कराब्जै-र्माणिक्यमोलिमरुणाङ्गरुचिं त्रिनेत्रम्
”एवं ध्यात्वा मानसैः संपूज्य अर्घ्यस्थापनं कृत्वापूर्व्वोक्तक्रमेण पीठपूजां विधाय मूर्त्तिमन्त्रेणमूर्त्तिं सङ्कल्प्य पुनर्ध्यात्वावाहनादिपञ्चपुष्पा-ञ्जलिदानपर्य्यन्तं विधायावरणपूजामारमेत् ।अग्निनिरृतिवाय्वीशानेषु मध्ये दिक्षु ह्राँहृदयाय नमः इत्यादिना पूजयेत् पत्रेषु चन्द्रा-दीन् पूजयेत् तत इन्द्रादीन् वज्रादींश्च पूजयेत्ततो धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् ।अस्य पुरश्चरणं द्वादशलक्षजपः तथा ।“भानुलक्षं जपेन्मन्त्रमाज्येन दशांशतः ।तिलैर्व्वा मधुरासिक्तैर्जुहुयाद्विजितेन्द्रियः
”मन्त्रान्तरम् ।“आकाशमग्निपवनसत्यान्तार्घीशबिन्दुमत् ।मार्त्तण्डभैरवं नाम बीजमेतदुदाहृतम्
पुटितं विम्बबीजेन सर्व्वकामफलप्रदम्
”विम्बबीजमाह ।“टान्तं दहननेत्रे न्दुसहितं तदुदाहृतम्
”ठ्रिं ह्र्यौडं ठ्रिम् अस्य पूजाप्रयोगः प्रातः-कृत्यादि पूर्व्ववत् एतन्मन्त्रोक्तपीठन्यासान्तं कर्म्मविधाय ऋष्यादिन्यासं कुर्य्यात् ततो मूर्त्ति-न्यासः ठ्रंसूर्य्याय नमोऽङ्गुष्ठयोः ठ्रिं भास्क-राय नमस्तर्ज्जन्योः ठुं भानवे नमः मध्य-मयोः ठें रवये नमोऽनामिकयोः ठ्रोंदिवाकराय नमः कनिष्ठयोः ततः शिरसिवदने हृदये गुह्ये पाददेशेषु तास्तत्तद्वीजा-दिका न्यसेत् तथा निबन्धे ।“पञ्चह्रस्वाढ्यबीजेन पञ्चमूर्त्तिः प्रविन्यसेत् ।अङ्गुष्ठादिकनिष्ठान्तं अङ्गुलिषु क्रमादिमाः
सूर्य्यस्तु भास्करो भानुस्ततो रविदिवाकरौ ।शिरोवदनहृद्गुह्यपाददेशेषु ताः क्रमात्
”ततः कराङ्गन्यासौ ठ्रां अङ्गुष्ठाभ्यां नमः ठ्रोंतर्ज्जनीभ्यां स्वाहा ठ्रूं मध्यमाभ्यां वषट् ।ठ्रैं अनामिकाभ्यां हूम् ठ्रौँ कनिष्ठाभ्यांवौषट् एवं हृदयादिषु ठ्रां हृदयाय नमःइत्यादि तथा निबन्धे ।“दीर्घयुक्तेन बीजेन नेत्रान्ताङ्गानि विन्यसेत् ।”ततो मूलबीजेन व्यापकं कृत्वा ध्यायेत् तथाच ।“व्यापकं मूलबीजेन कुर्व्वीत तदनन्तरम् ।”ध्यानम् ।हेमाम्भोजप्रबालप्रतिमनिजरुचिं चारु-स्वट्टाङ्गपद्मौचक्रं शक्तिं सपाशं शृणिमतिरुचिरामक्ष-मालां कपालम् ।हस्ताम्भोजैर्दधानं त्रिनयनविलसद्वे दवक्त्वाभि-रामंमार्त्तण्डं वल्लभार्द्धं मणिमयमुकुटं हारदीप्तंभजामः
”एवं ध्यात्वा मानसैः सम्पूज्यार्घस्थापनं कुर्य्यात्ततः पूर्व्वोक्तक्रमेण पीठं संपूज्य पूर्व्वादिदिक्षुकर्णिकायाम् उं उषायै नमः एवं पं प्रभायैपं प्रज्ञायै सं सन्ध्यायै इति संपूज्य मूर्त्तिं मूलेनकल्पयेत् ततः पूर्व्वादिदिक्षु सूर्य्यं भास्करं भानुंरविञ्च पूजयेत् कोणेषु दिवाकरम् ततःपूर्व्वदक्षिणपश्चिमोदीच्येषु दिक्षु ठ्रां हृदयायनमः इत्यादिना पूज्ययेत् ईशाने ठ्रौं नेत्र-त्रयाय वौषट् शारदायाम् ।“सूर्य्यादीन् चतुरो दिक्षु विदिक्ष्वन्यं समर्च्चयेतअङ्गपूजा यथापूर्व्वा नेत्रमीशानदिग्गतम्
”ततः पूर्व्ववच्चन्द्रादिग्रहान् पूजयेत् ततोलोकपालान् पूजयेत् तथा निबन्धे ।“ग्रन्थानष्टौ तथा बाह्ये लोकपालांस्ततःपरम्
”ततो धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् ।अस्य पुरश्चरणजपो लक्षत्रयसंख्यः त्रिमधुरो-पेतैः कमलैर्द्दशांशहोमः तथा ।“लक्षत्रयं जपेन्मन्त्री बीजं विम्बपुटीकृतम् ।दशांशं कमलैः फुल्लैर्जुहुयान्मधुरोक्षितैः
इमं मन्त्रं जपन्मर्त्यः कान्तिं पुत्त्रान् धनं द्युतिम्वाक्सिद्धिममितां लक्ष्मीं सौभाग्यमपि साधयेत्इति तन्त्रसारः
*
अस्य प्रकारान्तरमन्त्रध्यानपूजादिकं गरुड-पुराणे ३९ अध्याये द्रष्टव्यम्
*
सूर्य्ये वर्ण-नीयानि यथा अरुणता रविमणिप्रकाशः २चक्रवाकप्रीतिः पद्मप्रकाशः पश्रिकप्रौतिः ५लोचनप्रीतिः तारार्त्तिः चन्द्राप्रकाशः ८दीपाप्रकाशः ओषध्यप्रकाशः १० पेच-कार्त्तिः ११ तमोऽभावः १२ चैरार्त्तिः १३ कुमु-दार्त्तिः १४ कुलटार्त्तिः १५ इति कविकल्प-लता