| YouTube Channel

सूर्यार्घ्य (sUryArghya)

 
Monier Williams Cologne
English
सूर्यार्घ्य
n.
a respectful offering presented to the sun,
Cat.
L R Vaidya
English
sUrya-arGya {% n. %} the presentation of an offering to the sun.
शब्दकल्पद्रुमः
Sanskrit
सूर्य्यार्घ्यं,
क्ली,
(सूर्य्याय देयमर्घ्यम् ।) सूर्य्यसम्प्र-दानकार्घ्यम् शक्तिपूजायां अच्छिद्रावधार-णार्थं सूर्य्यार्घ्यदानम् यथा, --“ततो भास्करबीजेन सहितेनामुना पुनः ।मन्त्रेण भास्करायार्घ्यमच्छिद्रार्थं निवेदयेत्
नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे ।जगत्सवित्रे शुचये सवित्रे कर्म्मदायिने
ततः कृताञ्जलिर्भूत्वा पठित्वा मन्त्रमीरितम् ।एकाग्रमनसा वाग्भिरच्छिद्रमवधारयेत्
यज्ञच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम ।सर्व्वं तदच्छिद्रमस्तु भास्करस्य प्रसादतः
”इति कालिकापुराणे ५६ अध्यायः
*
रोगादिशान्त्यर्थं सूर्य्य स्य हंसादिसप्ततिनामभिःसप्ततिधार्घ्यप्रदानप्रमाणं यथा, --“हंसो भानुः सहस्रांशुस्तपनस्तापनो रविः ।विकर्त्तनो विवस्वांश्च विश्वकर्म्मा विभावसुः
विश्वरूपो विश्वकर्त्ता मार्त्त ण्डो मिहिरोऽंशु-मान् ।आदित्यश्चोष्णगुः सूर्य्योऽर्य्यमा व्रध्रो दिवा-करः
द्वादशात्मा सप्तहयो भास्करोऽहस्करः खगः ।सूरः प्रभाकरः श्रीमान् लोकचक्षुर्ग्रहेश्वरः
त्रिलोकेशो लोकसाक्षी तमोऽरिः शाश्वतःशुचिः ।गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः
द्युमणिर्हरिदश्वोऽर्को भानुमान् भयनाशनः ।छन्दोऽश्वो वेदवेद्यश्च भास्वान् पूषा वृषाकपिः
एकच रिथो मित्रो मन्देहारिस्तमिस्रहा ।दैत्यह पापहर्त्ता धर्म्माधर्म्मप्रकाशकः
हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः ।दिक्पतिः पद्मिनीनाथः कुशेशयकरो हरिः
धर्म्मरश्मिर्दु र्निरीक्षश्चण्डांशुः कश्यपात्मजः ।एभिः सप्ततिसंख्याकैः पुण्यैः सूर्य्यस्य नामभिः
प्रणवादिचतुर्थ्यन्तैर्न्न मस्कारसमन्वितैः ।प्रत्येकमुच्चरन्नाम दृष्ट्वा दृष्ट्रा दिवाकरम्
विगृह्य पाणियुग्मेन ताम्रपात्रं सुनिर्म्मलम् ।जानुभ्यामवनीं गत्वा परिपूर्य्यं जलेन
करवीरादिकुसुमै रक्तचन्द्रनमिश्रितैः ।दूर्व्वाङ्कुरैरक्षतैश्च निःक्षिप्तैः पात्रमध्यतः
दद्यादर्घ्यमनर्घ्याय सवित्रे ध्यानपूर्व्वकम् ।उपमौलिसमानीय तत्पात्रं नान्यदृङ्मनाः
प्रतिमन्त्रं नमस्कुर्य्यादुदयास्तमये रविम् ।अनया नाम सप्तत्या महामन्त्ररहस्यया
एवं कुर्व्वन्नरो जातु दरिद्रो दुःखभाक् ।व्याधिभिर्म्मुच्यते धोरैरपि जन्मान्तरार्ज्जितैः
विनौषधैर्व्विना वैद्यैर्व्विना पथ्यपरिग्रहैः ।कालेन निधनं प्राप्य सूर्य्य लोके महीयते
”इति स्कन्दपुराणै काशीखण्डे अध्यायः