| YouTube Channel

सूर्यहृदय (sUryahRdaya)

 
शब्दसागरः
English
सूर्य्यहृदय
n.
(-यं) Name of a hymn to the sun.
Monier Williams Cologne
English
सूर्य—हृदय
n.
N.
of a hymn.
Apte Hindi
Hindi
सूर्यहृदयम्
नपुं*
सूर्यहृदयम् -
सूर्य का एक स्तोत्र
L R Vaidya
English
sUrya-hfdaya {% n. %} name of a hymn to the sun.
Aufrecht Catalogus Catalogorum
English
सूर्यहृदय stotra. Oudh XVII, 86. Poona 594.
शब्दकल्पद्रुमः
Sanskrit
सूर्य्यहृदयं,
क्ली,
(सूर्य्यस्य हृदयमिव ।) सूर्य्यस्यस्तवविशेषः यथा, --“अथोपतिष्ठे दादित्यमुदयन्तं समाहितः ।मन्त्रैस्तु विविधैः सौरैरृग्यजुःसामसम्भवैः
उपस्थाय महायोगं देवदेवं दिवाकरम् ।कुर्व्वीत प्रणति भूमौ मूर्ध्ना नित्यञ्च मन्त्रतः
ओँ खं खसोल्काय शान्ताय कारणत्रयहेतवे ।निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे
क्वचित् पुस्तके खखोल्कायेति पाठः ।नमस्ते घृणिने तुभ्यं सूर्य्याय ब्रह्मरूपिणे ।त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम्
भूर्भुवः स्वस्त्वमोङ्कारः सर्व्वे रुद्राः सनातनाः ।पुरुषः सम्महोऽतस्त्वां प्रणमामि कपर्द्दिनम्
त्वमेव विश्वं बहुधा जातं वै जायते ।नमो रुद्राय सूर्य्याय त्वामहं शरणं गतः
प्रचेतसे नमस्तुभ्यमुमायाः पतये नमः ।नमो नमस्ते रुद्राय त्वामहं शरणं गतः
हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः ।अम्बिकापतये तुभ्यमुमायाः पतये नमः
नमस्ते नीलकण्ठाय नमस्तुभ्यं पिनाकिने ।विलोहिताय भर्गाय सहस्राक्षाय ते नमः
नमो हंसाय ते नित्यं आदित्याय नमोऽस्तु ते ।प्रपद्ये त्वां विरूपाक्ष महतं परमेश्वरम्
हिरण्मये गृहे गुप्तमात्मानं सर्व्वदेहिनाम् ।नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परामृतम्
विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ।नमः सूर्य्याय रुद्राय भास्वते परमेष्ठिने
उग्राय सर्व्वभक्षाय त्वां प्रपद्ये सदैव हि
एतद्बै सूर्य्यहृदयं जप्त्वा स्तवमनुत्तमम् ।प्रातःकालेऽथ मध्याह्ने नमस्कुर्य्याद्दिवाकरम्
इदं पुत्त्राय शिष्याय धार्म्मिकाय द्विजातये ।प्रदेयं सूर्य्य हृदयं ब्रह्मणा तु प्रदर्शितम्
सर्व्वपापप्रशमनं वेदसारं समुद्धृतम् ।ब्राह्मणानां हितं पुण्यं ऋषिसङ्घैर्निषेवितम्
यस्तु नित्यं पठेद्धीमान् प्रेक्षन्नादित्यमण्डलम् ।महापातकयुक्तोऽपि पूयते नात्र संशयः
क्षयापस्मारकुष्ठाद्यै र्व्याधिभिः पीडितोऽपि सन्जप्त्वा शतगुणं स्तोत्रं श्लाघ्यो भवति द्रुतम्
भूतग्रहपिशाचातिबीजव्यसनकर्षिभिः ।स्तुवन् ध्यात्वा हरिं विप्रो मुच्यते महतो भयात्
इति कूर्म्मपुराणे उपविभागे १७ अध्यायः
गारुडे ५० अध्याये चैतद्द्रष्टव्यम्
(भविष्यो-त्तरोक्तसूर्य्यहृदयन्तु बहुभिः समाद्रियते पठ्यतेच अतस्तत् सप्रक्रियमुच्यते अथ आदित्यहृदय-प्रारम्भः आचम्य देशकालौ संकीर्त्य ममा-रोग्यावाप्तये श्रीसवितासूर्य्यनारायणप्रीत्यर्थंद्वादशनमस्काराख्यं कर्म्म करिष्ये अथ ध्यानम्“ध्येयः सदा सवितृमण्डलमध्यवर्त्तीनारायणः सरसिजासनसन्निविष्टः ।केयूरवान् मकरकुण्डलवान् किरीटीहारी हिरण्मयवपुर्धृ तशङ्खचक्रः
एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः
”मित्राय नमः रवये नमः सूर्याय नमः ।भानवे नमः खगाय नमः पूष्णे नमः ।हिरण्यगर्भाय नमः मरीचये नमः आदि-त्याय नमः सवित्रे नमः अर्काय नमः ।भास्कराय नमः ।“नमः सवित्रे जगदेकचक्षुषेजगत्प्रसूतिस्थितिनाशहेतवे ।त्रयीमयाय त्रिगुणात्मधारिणेविरिञ्चिनारायणशङ्करात्मने
नमोऽस्तु सूर्य्याय सहस्ररश्मयेसहस्रशाखान्वितसम्भवात्मने ।सहस्रयोगोद्भवभावभागिनेसहस्रसङ्ख्यायुगधारिणे नमः
आदित्यस्य नमस्कारं ये कुर्व्वन्ति दिने दिने ।जन्मान्तरसहस्रेषु दारिद्र्यं नोपर्जायते
इति नमस्काराः
शतानिक उवाच ।“कथमादित्यमुद्यन्तमुपतिष्ठे द्द्विजोत्तमः ।एतन्मे ब्रूहि विप्रे न्द्र प्रपद्ये शरणं तव
सुमन्तुरुवाच ।इदमेव पुरा पृष्टः शंखचक्रगदाधरः ।प्रणम्य शिरसा देवमर्ज्जुनेन महात्मना
कुरुक्षेत्रे महाराज निवृत्ते भारते रणे ।कृष्णनाथं समासाद्य प्रार्थयित्वाब्रवीदिदम्
अर्ज्जुन उवाच ।ज्ञानञ्च धर्म्मशास्त्राणां गुह्माद्गुह्यतरं तथा ।मया कृष्ण परिज्ञातं वाङ्मयं सचरावरम्
सूर्य्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव ।भक्त्या पृच्छामि देवेश कथयस्व प्रसादतः
सूर्य्यभक्तिं करिष्यामि कथं सूर्य्यं प्रपूजयेत्
तदहं श्रोतुमिच्छामि त्वत्प्रसादेन यादव
श्रीभगवानुवाच ।रुद्रादिदैवतैः सर्वैः पृष्टेन कथितं मया ।वक्ष्येऽहं सूर्य्यविन्यासं शृणु पाण्डव यत्नतः
अस्माकं यत्त्वया पृष्टमेकचित्तो भवार्ज्जुन ।तदहं सम्प्रवक्ष्यामि आदिमध्यावसानकम्
अर्ज्जुन उवाच ।नारायण सुरश्रेष्ठ पृच्छामि त्वां महायशाः ।कथमादित्यमुद्यन्तमुपतिष्ठेत् सनातनम्
श्रीभगवानुवाच ।साधु पार्थ महाबाहो बुद्धिमानसि पाण्डव ।यन्मां पृच्छस्युपस्थानं तत् पवित्रं विभावसोः
सर्व्वमङ्गलमाङ्गल्यं सर्व्वपापप्रणाशनम् ।सर्व्वरोगप्रशमनमायुर्व्वर्द्धनमुत्तमम्
अमित्रदमनं पार्थ संग्रामे जयवर्द्धनम् ।वर्द्धनं धनपुत्त्राणामादित्यहृदयं शृणु
यच्छ्रुत्वा सर्व्वपापेभ्यो मुच्यते नात्र संशयः ।त्रिषु लोकेषु विख्यातं निःश्रेयसकरं परम्
देवदेवं नमस्कृत्य प्रातरुत्थाय चार्ज्जुन ।विघ्नान्यनेकरूपाणि नश्यन्ति स्मरणादपि
तस्मात् सर्व्वप्रयत्ने सूर्य्य मावाहयेत् सदा ।आदित्यहृदयं नित्यं जाप्यं तच्छृणु पाण्डव
यज्जपान्मुच्यते जन्तुर्दारिद्र्यादाशु दुस्तरात् ।लभते महासिद्धिं कुष्ठव्याधिविनाशिनीम्
अस्मिन् मन्त्रे ऋषिच्छन्दोदेवताशक्तिरेव ।सर्व्वमेव महावाहो कथयामि तवाग्रतः
मया ते गोपितं न्यासं सर्व्वशास्त्रप्रबोधितम् ।अथ ते कथयिष्यामि उत्तमं मन्त्रमेव
”ओँअस्य आदित्यहृदयस्तोत्रमन्त्रस्य श्रीकृष्णऋषिः श्रीसूर्य्यात्मा त्रिभुवनेश्वरो देवता ।अनुष्टुप् छन्दः हरितहयरथं दिवाकरंघृणिरिति बीजम् ओँ नमो भगवते जित-वैश्वानरजातवेदसे इति शक्तिः ओँ नमोभगवते आदित्याय नम इति कीलकम्
ओँ अग्निगर्भदेवता इति मन्त्रः
ओँ नमोभगवते तुभ्यमादित्याय नमो नमः श्रीसूर्य्य-नारायणप्रीत्यर्थ जपे विनियोगः अथ न्यासः ।ओँ ह्रां अङ्गुष्ठाभ्यां नमः ओँ ह्रीं तर्ज्जनीभ्यांनमः ओँ ह्रूं मध्यमाभ्यां नमः ओँ ह्रैंअना-मिकाभ्यां नमः ओँ ह्रौं कनिष्ठिकाभ्यां नमः ।ओँ ह्रः करतलकरपृष्ठाभ्यां नमः ओँ ह्रांहृदयाय नमः ओँ ह्रीं शिरसे स्वाहा ओँह्रूंशिखायै वषट् ओँ ह्रैं कवचाय हुम् ओँह्रौंनेत्रत्रयाय वौषट् ओँ ह्रः अस्त्राय फट् ।ओँ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति दिग्बन्धः
अथ ध्यानम् ।“भास्वद्रत्नाढ्यमौलिं स्फुरदधररुचा रञ्जितंचारुकेशंभास्वन्तं दिव्यतेजः करकमलयुतं स्वर्णवर्ण-प्रभाभिः ।विश्वाकाशावकाशग्रहपतिशिखरे भातियश्चोदयाद्रौसर्व्वानन्दप्रदाता हरिहरनमितः पातु मांविश्वचक्षुः
पूर्व्वमष्टदलं पद्मं प्रणवादिप्रतिष्ठितम् ।मायाबीजं दलाष्टाग्रे यन्त्रमुद्धारयेदिति
आदित्यं भास्करं भानुं रविं सूर्य्यं दिवाकरम् ।मार्त्तण्डं तपनं चेति दलेष्वष्टसु योजयेत्
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्व्विमला तथा ।अमोघा विद्युता चेति मध्ये श्रीः सर्व्वतोमुस्ती
सर्व्वज्ञः सर्व्वगश्चैव सर्व्वकारणदेवता ।सर्व्वेशं सर्व्वहृदयं नमामि सर्व्वसाक्षिणम्
सर्व्वात्मा सर्व्वकर्त्ता सृष्टिजीवनपालकः ।हितः स्वर्गापवर्गश्च भास्करेश नमोऽस्तु ते
”इति प्रार्थना
“नमो नमस्तेऽस्तु सदा विभावसोसर्व्वात्मने सप्तहयाय भानवे ।अनन्तशक्तिर्मणिभूषणेनददस्व भुक्तिं मम मुक्तिमव्ययाम्
अर्कन्तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् ।विन्यसेन्नेत्रयोः सूर्य्यं कर्णयोश्च दिवाकरम्
नासिकायां न्यसेद्भानुं मुखे वै भास्करं न्यसेत् ।पर्ज्जन्यमोष्ठयोश्चैव तीक्ष्णं जिह्वान्तरं न्यसेत्
सुवर्णरेतसं कण्ठे स्कन्धयोस्तिग्मतेजसम् ।बाह्वोस्तु पूषणश्चै मित्रं वै पृष्ठतो न्यसेत्
वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे ।हस्तावुष्णकरः पातु हृदयं पातु भानुमान्
उदरे तु यमं विन्द्यादादित्यं नाभिमण्डले ।कठ्यां तु विन्यसेद्ध्वंसं रुद्रमूर्व्वोस्तु विन्यसेत्
जान्वोस्तु गोपतिं न्यस्य सवितारन्तु जङ्घयोः ।पादयोश्च विवस्वन्तं गुल्फयोश्च दिवाकरम्
बाह्यतस्तु तमोध्वंसं भगमभ्यन्तरे न्यसेत् ।सर्व्वाङ्गेषु सहस्रांशु दिग्विदिक्षु भगं न्यसेत्
”इति दिग्बन्धः
“एष आदित्यविन्यासो देवानामपि दुर्लभः ।द्वमं भक्त्या न्यसेत् पार्थ याति परमां गतिम्कामक्रोधकृतात् पापात् मुच्यते नात्र संशयः ।सर्पादपि भयं नैव संग्रामेषु पथिष्वपि
रिपुसंघट्टकालेषु तथा चोरसमागमे ।त्रिसन्ध्यं जपतो न्यासं महापातकनाशनम्
विस्फोटकसमुत्पन्नं तीव्रज्वरसमुद्भवम् ।शिरोरोगं नेत्ररोगं सर्व्वव्याधिविनाशनम्
कुष्ठव्याधिस्तथा दद्रुरोगाश्च विविधाश्च ये ।जपमानस्य नश्यन्ति शृणु भक्त्या तदर्जुन
आदित्यो गन्त्रसंयुक्त आदित्यो भुवनेश्वरः
आदित्यान्नापरो देवो ह्यादित्यः परमेश्वरः
आदित्यमर्च्चयेद् ब्रह्मा शिव आदित्यमर्च्चयेत् ।यदादित्यमयं तेजो मम तेजस्तदर्जुन
आदित्यं मन्त्रसंयुक्तमादित्यं भुवनेश्वरम् ।आदित्यं ये प्रपश्यन्ति मां पश्यन्ति संशयः
त्रिसन्ध्यमर्च्चयेत् सूर्य्यं स्मरेद्भक्त्या तु यो नरःन पश्यति दारिद्र्यं जन्मजन्मनि चार्जुन
एतत्ते कथितं पार्थ आदित्यहृदयं मया
शृण्वन्मुक्त्वा पापेभ्यः सूर्य्यलोके महीयते ।ओँनमो भगवते तुभ्यमादित्याय नमो नमः ।आदित्यः सविता सूर्य्यः खगः पुषा गभस्तिमान्सुवर्णः स्फटिको भानुः स्फुरितो विश्वतापनः ।रविर्व्विश्वो महातेजाः सुवर्णः सुप्रबोधकः
हिरण्यगर्भस्त्रिशिरास्तपनो भास्करो रविः ।मार्त्त ण्डो गोपतिः श्रीमान् कृतज्ञश्च प्रतापवान्तमिस्रहा भगो हंसो नासत्यश्च तमोनुदः ।शुद्धो विरोचनः केशो सहस्रांशुर्महाप्रभुः
विवस्वान् पूषणो मृत्युर्मिहिरो जामदग्न्यजित्धर्म्मरश्मिः पतङ्गश्च शरण्योऽमित्रहा तपः
दुर्व्विज्ञेयगतिः शूरस्तेजो राशिर्म्महायशाः ।शम्भुश्चित्राङ्गदः सौम्यो हव्यकव्यप्रदायकः
अंशुमानुत्तमो देव ऋग्यजुः साम एव ।हरिदश्वस्तमोदारः सप्तसप्तिर्मरीचिमान्
अग्निगर्भोऽदितेः पुत्त्रः शम्भुस्तिमिरनाशनः ।पूषा विश्वम्भरो मित्रः सुवर्णः सुप्रतापवान्
आतपी मण्डली भास्वान् तपनः सर्व्वतापनः ।कृतविश्वो महातेजाः सर्व्वरत्नमयोद्भवः
अक्षरश्च क्षरश्चैव प्रभाकरविभाकरौ ।चन्द्रश्चन्द्राङ्गदः सौम्यो हव्यकव्य प्रदायकः
अङ्गारकोऽङ्गदोऽगस्तो रक्ताङ्गश्चाङ्गवर्द्धनः ।बुद्वो बुद्धासनो बुद्धिर्बुद्धात्मा बुद्धिवर्द्धनः
बूहद्भानुर्बृहद्भासो बृहद्भामा बृहस्पतिः ।शुक्लस्त्वं शुक्लरेतास्त्वं शुक्लाङ्गः शुक्लभूषणः
शनिमान् शनिरूपस्त्वं शनैर्गच्छसि सर्व्वदा ।अनादिरादिरादित्यस्ते जोराशिर्म्महातपाः
अनादिरादिरूपस्त्वमादित्यो दिक्पतिर्य्यमः ।भानुमान् भानुरूपस्त्वं स्वर्भानुर्भानुदीप्तिमान्
धूमकेतुर्म्महाकेतुः सर्व्वकेतुरनुत्तमः ।तिमिरावरणः शम्भुः स्रष्टा मार्त्तण्ड एव
नमः पूर्व्वाय गिरये पश्चिमाय नमो नमः ।नमोत्तराय गिरये दक्षिणाय नमो नमः
नमो नमः सहस्रांशो ह्यादित्याय नमो नमः ।नमः पद्मप्रबोधाय नमस्ते द्वादशात्मने
नमो विश्वप्रबोधाय नमो भ्राजिष्णुजिष्णवे ।ज्योतिषे नमस्तुभ्यं ज्ञानार्काय नमो नमः
प्रदीप्ताय प्रगल्भाय युगान्ताय नमो नमः ।नमस्ते होतृपतये पृथिवीपतये नमः
नमोङ्कार वषट्कार सर्व्वयज्ञ नमोऽस्तु ते ।ऋगवेदादि यजुर्वेद सामवेद नमोऽस्तु ते
नमो हाटकवर्णाय भास्कराय नमो नमः ।जयाय जयभद्राय हरिदश्वाय ते नमः
दिव्याय दिव्यरूपाय ग्रहाणां पतये नमः ।नमस्ते शुचये नित्यं नमः कुरु कुलात्मने
नमस्त्रैलोक्यनाथाय भूतानां पतये नमः ।नमः कैवल्यनाथाय नमस्ते दिव्यचक्षुषे
त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वंविष्णुस्त्व प्रजापतिःत्वमेव रुद्रो रुद्रात्मा वायुरग्निस्त्वमेव
योजनानां सहस्रे द्वे द्वे शते द्वे योजने ।एकेन निमिषार्द्धेन क्रममाण नमोऽस्तु ते
नवयोजनलक्षाणि सहस्रद्विशतानि ।यावद्घटौप्रमाणेन क्रममाण नमोऽस्तु ते
अग्रतश्च नमस्तुभ्यं पृष्ठतश्च सदा नमः ।पार्श्वतश्च नमस्तुभ्यं नमस्ते चास्तु सर्व्वदा
नमः सुरारिहन्त्रे सोमसूर्य्याग्निचक्षुषे ।नमो दिव्याय व्योमाय सर्व्वतन्त्रमयाय
नमो वेदान्तवेद्याय सर्व्वकर्म्मादिसाक्षिणे ।नमो हरितवर्णाय सुवर्णाय नमो नमः
अरुणो माघमासे तु सूर्य्यो वै फाल्गुने तथा ।चैत्रमासे तु वेदाङ्गो भानुर्वैशाखतापनः
ज्यैष्ठमासे तपेदिन्द्र आषाढे तपते रविः
गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा
इषे सुवर्णरेताश्च कार्त्तिके दिवाकरः
मार्गशीर्षे तपेन्मित्रः पौषे विष्णुः सनातनः
पुरुषस्त्वधिके मासे मासाधिक्ये तु कल्पयेत् ।इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्त्तिताः
उग्ररूपा महात्मानस्तपन्ते विष्णुरूपिणः ।धर्म्मार्थकाममोक्षाणां प्रस्फुटा हेतवो नृप
सर्व्वपापहरश्चैवमादित्यं संप्रपूजयेत् ।रुकधा दशधा चैव शतधा सहस्रधा
तपन्ते विश्वरूपेण सृजन्ति संहरन्ति ।एष विष्णुः शिवश्चैव ब्रह्मा चैव प्रजापतिः
महेन्द्रश्चैव कालश्च यमो वरुण एव ।नक्षत्रग्रहताराणामधिपो विश्वतापनः
वायुरग्निर्धनाध्यक्षो भूतकर्त्ता स्वयं प्रभुः ।एष देवो हि देवानां सर्व्वमाप्यायते जगत्
एष कर्त्ता हि भूतानां संहर्त्ता रक्षकस्तथा ।एष लोकानुलोकश्च सप्तद्वीपाश्च सागराः
एष पातालम्नप्तस्थो दैत्यदानवराक्षसाः ।एष धाता विधाता बीजं क्षेवं प्रजापतिः
एष एव प्रजा नित्यं संवर्द्धयति रश्मिभिः ।एष यज्ञः स्वधा स्वाहा ह्रीः श्रीश्च पुरुषोत्तमःएष भूतात्मको देवः सूक्ष्मो व्यक्तः सनातनः ।ईश्वरः सर्व्वभूतानां परमेष्ठी प्रजापतिः
कालात्मा सर्व्वभूतात्मा वेदात्मा विश्वतोमुखःजन्ममृत्युजराव्याधिसंसारभयनाशनः
दारिद्र्यव्यसनध्वंसी श्रीमान् देवो दिवाकरः ।विकत्तनो विवस्वांश्च मार्त्तण्डो भास्करो रविःलोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ।लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ।गभस्तिहस्तो ब्रह्मण्यः सर्व्वदेवनमम्कृतः
आयुरारोग्यमैश्वर्यं नरा नार्य्यश्च मन्दिरे ।यस्य प्रसादात् सन्तुष्टिरादित्यहृदयं जपेत्
इत्येतैर्नामभिः पार्थ आदित्यं स्तौति नित्यशः ।प्रातरुत्थाय कौन्तेय तस्य रोगभयं हि
पातकान्मुच्यते पार्थ व्याधिभ्यश्च संशयः ।एकसन्ध्यं द्विसन्ध्यं वा सर्व्वपापैः प्रमुच्यते
त्रिसन्ध्यं जपमानस्तु पश्येच्च परमं पदम्
यदहः कुरुते पापं तदहः प्रतिमुच्यते
यद्रात्र्याः कुरुते पापं तद्रात्र्याः प्रतिमुच्यते ।दद्रुस्फोटककुष्ठानि मण्डलानि विषूचिका
सर्व्वव्याधिमहारोगभूतवाधास्तथैव
डाकिनी शाकिनी चैव महारोगभयं कुतः
ये चान्ये दुष्टरोगाश्च ज्वरातीसारकादयः ।जपमानस्य नश्यन्ति जीवेच्च शरदां शतम्
संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत् ।आशीर्षां पश्यति छायामहोरात्रं धनञ्जय
यस्त्विदं पठते भक्त्या भानुवारे महात्मनः ।प्रातःस्नाने कृते पार्थ एकाग्रकृतमानसः
सुवर्णचक्षुर्भवति चान्धस्तु प्रजायते ।पुत्त्रवान् धनसम्पन्नो जायते चारुजः सुखी
सर्व्वसिद्धिमवाप्नोति सर्व्वत्र विजयी भवेत् ।आदित्यहृदयं पुण्यं सूर्य्यनामविभूषितम्
श्रुत्वा निखिलं पार्थ सर्व्वपापैः प्रमुच्यते ।अतःपरतरं नास्ति सिद्धिकामस्य पाण्डव
एतज्जपस्व कौन्तेय येन श्रेयो ह्यवाप्स्यसि ।आदित्यहृदयं नित्यं यः पठेत् सुसमाहितः
भ्रूणहा मुच्यते पापात् कृतघ्नं ब्रह्मघातकः ।गाघ्नः सुरापो दुर्भोगी दुष्प्रतिग्रहकारकः
पातकानि सर्व्वाणि दहत्यव संशयः ।य इदं शृणुयान्नित्यं जपेद्वापि समाहितः
सर्व्वपापविशुद्धात्मा सूर्य्यलोके महीयते ।अपुत्त्रा लभते पुत्त्रान् निर्धनो धनमाप्नुयात्
कुरोगी मुच्यते रोगाद्भक्त्या यः पठते सदा ।यस्त्वादित्यदिने पार्थ नाभिमात्रजले स्थितः
उदयाचलमारूढं भाम्करं प्रणतः स्थितः ।जपते मानवा भक्त्या शृणुयाद्वापि भक्तितः
याति परमं स्थानं यत्र देवो दिवाकरः ।अमित्रदमनं पार्थं यदा कर्त्तुं समारभेत्
तदा प्रतिकृतिं कृत्वा शत्रोश्च रणपांशुभिः ।आक्रम्य वामपादेन आदित्यहृदयं जपेत्
एतन्मन्त्रं समाहूय सर्व्वसिद्धिकरं परम्
”ओँ ह्रों हिमालीढं स्वाहा ओँ ह्रों निलीढंस्वाहा ओँ ह्रीं मालीढं स्वाहा इति मन्त्रः ।“त्रिभिश्च रोगी भवति ज्वरी भवति पञ्चभिः ।जपैस्तु सप्तभिः पार्थ राक्षसीं तनुमाविशेत्
राक्षसेनाभिभूतस्य विकारान् शृणु पाण्डव ।गीयते नृत्यते नग्न आस्फोटयति धावति
शिवारुतञ्च कुरुते हसते क्रन्दते पुनः ।एवं संपीड्यते पार्थ यद्यपि स्यान्महेश्वरः
किं पुनर्मानुषः कश्चिच्छौचाचारविवर्जितः ।पीडितस्य संदेहो ज्वरो भवति दारुणः
यदा चानुग्रहं तस्य कत्तुमिच्छेच्छुभङ्करम् ।तदा सलिलमादाय जपेन्पन्त्रमिमम्बु धः
नमो भगवते तुभ्यमादित्याय नमो नमः ।जयाय जयभद्राय हरिदश्वाय ते नमः
स्नापयेत्तेन मन्त्रेण शुभं भवति नान्यथा
अन्यथा भवेद्दोषो नश्यते नात्र संशयः
अतस्ते निखिलः प्रोक्तः पूजाञ्चैव निबोध मे ।उपलिप्ते शुचौ देशे नियता वाग्यतः शुचिः
वृत्तं वा चतुरस्रं वा लिप्तभूमौ लिखेच्छुचिः ।त्रिधा तत्र लिखेत् पद्ममष्टपत्रं सकर्णिक्रम्
अष्टपत्रं लिखेत् पद्मं लिप्तगोमयमण्डले ।पूर्व्वपत्रे लिखेत् सूर्य्यमाग्नेय्यान्तु रविं न्यसेत्याम्यायाञ्च विवस्वन्तं नैरृ त्यान्तु भगं न्यसेत् ।प्रतीच्यां वरुणं विन्द्याद्वायव्यां मित्रमेव
आदित्यमुत्तरे पत्रे ईशान्यां विष्णुमेव ।मध्ये तु भास्करं विन्द्यात् क्रमेणैव समर्च्चयेत्
अतः परतरं नास्ति सिद्धिकामस्य पाण्डव ।महातेजःसमुद्यन्तं प्रणमेत् सकृताञ्जलिः
सकेसराणि पद्मानि करवीराणि चार्ज्जुन ।तिलतण्डुलसंयुक्तं कुशगन्धोदकेन
रक्तचन्दनमिश्राणि कृत्वा वै ताम्रभाजने ।धृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं स्पृशेत्
मन्त्रपूतं गुडाकेशं चार्घ्यं दद्याद्गभस्तये ।सायुधं सरथञ्चव सूर्य्यमावाहयाम्यहम्
”स्वागतो भव सुप्रतिष्ठो भव सन्निधो भव ।सन्निहितो भव सम्मुखो भव इति पञ्चमुद्राःस्फुटयित्वाह्वयेत् सूर्य्यं भुक्तिं मुक्तिं लभेन्नरः
ओँ श्रीं विद्यां किलिकिलि कटकेष्टसर्व्ढार्थसा-धनाय स्वाहा ओँ श्रीं ह्रां ह्रीं ह्रः हंसः सूर्य्यायनमः स्वाहा ओँ श्रीं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रःसूर्य्यमूर्त्तये स्वाहा ओँ श्रीं ह्रीं खं खः लोकायसर्व्वमूत्तये स्वाहा ओँ ह्रूं मात्तण्डाय स्वाहा ।“नमोऽस्तु सूर्य्याय सहस्रभानवेनमोऽस्तु वैश्वानर जातवेदसे ।त्वमव चाघ्यं प्रतिगृह्ण देवदेवाधिदेवाय नमो नमस्ते
नमो भगंवते तुभ्यं नमस्त जातवेदसे ।दत्तमर्ध्यं मया भानो त्वं गृहाण नमोऽस्तु तेएहि सूर्य्य सहस्रांशो तेजोराशे जगत्पते ।अनकम्पय मां देव गृहाणार्ध्यं नमोऽस्तु ते
नमो भगवते तुभ्यं नमस्ते जातवेदसे
ममेदमर्घ्यं गृह्ण त्वं देवदेव नमोऽस्तु ते
सर्व्वदेवाय देवाय आधिव्याधिविनाशिने ।इदं गृहाण मे देव सर्व्वव्याधिर्विनश्यतु
नमः सूर्य्याय शान्ताय सर्व्वरोगविनाशिने ।ममेप्सितं फलं दत्त्वा प्रसीद परमेश्वर
”ओँ नमो भगवते सूर्य्याय स्वाहा ओँ शिवायस्वाहा ओँ सर्व्वात्मने सूर्य्याय नमः खाहा ।ओँ अक्षय्यतेजसे नमः स्वाहा ।“सर्व्वसंकष्टदारिद्रं शत्रुं नाशय नाशय ।सर्व्वलोकेषु विश्वात्मा सर्व्वात्मा सर्व्वदर्शकः
नमो भगवते सूर्य्य कुष्ठरोगान् विखण्डय ।आयुरारोग्यमैश्वर्य्यं देहि देव नमोऽस्तु ते
नमो भगवते तुभ्यमादित्याय नमो नमः
”ओँ अक्षय्यतेजसे नमः ओँ सूर्य्याय नमः ।ओँ विश्वमूर्त्तये नमः ।“आदित्यञ्च शिवं विन्द्याच्छिवमादित्यरूपिणम्उभयोरन्तरं नास्ति आदित्यस्य शिवस्य
एतदिच्छाम्यहं श्रोतुं पुरुषो वै दिवाकरः ।उदये ब्रह्मणो रूपं मध्याह्ने तु महेश्वरः
अस्तमाने स्वयं विष्णुस्त्रिमूर्त्तिश्च दिवाकरः ।नमो भगवते तुभ्यं विष्णवे प्रभविष्णवे
ममेदमर्घ्यं प्रतिगृह्ण देवदेवाधिदेवाय नमो नमस्ते
”श्रीसूर्य्याय साङ्गाय मपरिवाराय श्रीसूर्य्य-नारायणायेदमर्घ्यम् ।“हिमघ्नाय तमोघ्नाय रक्षोघ्नाय ते नमः ।कृतघ्नघ्नाय सत्याय तस्मै सत्यात्मने नमः
जयो जयश्च विजयो जितप्राणो जितश्रमः ।मनोजवो जितक्रोधो वाजिनः सप्त कीर्त्तिताः
हरितहयरथं दिवाकरंकनकमयाम्बुजरेणुपिञ्जरम् ।प्रतिदिनमुदयं नवं नवंशरणमुपेमि हिरण्यरेतसम्
तं व्यालाः प्रवाधन्ते व्याधिभ्यो भयं भवेत्न नागेभ्यो भयञ्चैव भूतभयं क्वचित्
अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्तथैव ।दुर्गतिं तरते घोरां प्रजाञ्च लभते पशून्
सिद्धिकामो लभेत् सिद्धिं कन्याकामस्तुकन्यकाम् ।एतत्पठेत्स कौन्तेय भक्तियुक्तेन चेतसा
अश्वमेधसहस्रस्य वाजपेयशतस्य ।कन्याकोटिसहस्रस्य दत्तस्य फलमाप्नुयात्
इदमादित्यहृदयं योऽधीते सततं नरः ।सर्व्वपापविशुद्धात्मा सूर्य्यलोके महीयते
नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिःप्रत्यक्षो भगवान् विष्णुर्येन विश्वं प्रतिष्ठितम्
नवतिर्योजनं लक्षं सहस्राणि शतानि ।यावद्घटीप्रमाणेन तावच्चरति भास्करः
गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम् ।तत् फलं लभते विद्वान् शान्तात्मा स्तौति योरविम्
योऽधीते सूर्य्यहृदयं सकलं सफलं भवेत् ।अष्टानां ब्राह्यणानाञ्च लेखयित्वा समर्पयेत्
ब्रह्मलोकऋषीणाञ्च जायते मानुषोऽपि वा ।जातिस्मरत्वमाप्नोति शुद्धात्मा नात्र संशयः
अजाय लोकत्रयपावनायभूतात्मने गोपतये वृषाय ।सूर्य्याय सर्व्वप्रलयान्तकायनमो महाकारुणिकोत्तमाय
विवस्वते ज्ञानभृतान्तरात्मनेजगत्प्रदीपाय जगद्बितैषिणे ।स्वयम्भुवे दीप्तसहस्रचक्षुषेसुरोत्तमायामिततेजसे नमः
सुरैरनेकैः परिसेवितायहिरण्यगर्भाय हिरण्मयाय ।महात्मने मोक्षपदाय नित्यंनमोऽस्तु ते वासरकारणाय
आदित्यश्चार्चितो देव आदित्यः परमं पदम् ।आदित्यो मातृको भूत्वा आदित्यो वाङ्मयं जगत्आदित्यं पश्यते भक्त्या मां पश्यति ध्रुवं नरः ।नादित्यं पश्यते भक्त्या पश्यति मां नरः
त्रिगुणञ्च त्रितत्त्वञ्च त्रयो वेदास्त्रयोऽग्नयः ।त्रयाणाञ्च त्रिमूर्त्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते
नमः सवित्रे जगदेकचक्षुषेजगत्प्रसूतिस्थितिनाशहेतवे ।त्रयीमयाय त्रिगुणात्मधारिणेविरिञ्चिनारायणशङ्करात्मने
यस्योदये नेह जगत्प्रबुद्ध्यतेप्रवर्त्तते चाखिलकर्म्मसिद्धये ।ब्रह्मेन्द्रनारायणरुद्रवन्दितःस नः सदा यच्छतु मङ्गलं रविः
नमोऽस्तु सूर्य्याय सहस्ररश्मयेसहस्रशाखान्वितसम्भवात्मने ।सहस्रयोगोद्भवभावभागिनेसहस्रसंख्यायुगधारिणे नमः
यन्मण्डलं दीप्तिकरं विशालंरत्नप्रभं तीव्रमनादिरूपम् ।दारिद्र्यदुःखक्षयकारणञ्चपुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनमुक्तिकोविदम् ।तं देवदेवं प्रणमामि सूर्य्यंपुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं ज्ञानघनं त्वगम्यंत्रै लोक्यपूज्यं त्रिगुणात्सरूपम् ।समस्ततेजोमयदिव्यरूपंपुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं गूढमतिप्रबोधंधर्म्मस्य वृद्धिं कुरुते जनानाम् ।तत् सर्व्वपापक्षयकारणञ्चपुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं व्याधिविनाशदक्षंऋग्यजुःसामसु सम्प्रगीतम् ।प्रकाशितं येन भूर्भुवः स्वःपुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धसङ्घाः ।यद्योगिनो योगजुषाञ्च सङ्घाःपुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं सर्व्वजनेषु पूजितंज्योतिश्च कुर्य्यादिह मर्त्यलोके ।यत्कालकालादिमनादिरूपंपुनातु मां तत्सवितुर्वरेण्यम्
यम्मण्डलं विष्णुचतुर्मुखाख्यंयदक्षरं पापहरं जनानाम् ।यत्कालकल्पक्षयकारणञ्चपुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं विश्वसृजं प्रसिद्ध-मुत्पत्तिरक्षाप्रलयप्रगल्भम् ।यस्मिन् जगत् संहरतेऽखिलञ्चपुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं सर्व्वगतस्य विष्णो-रात्मा परं धाम विशुद्धतत्त्वम् ।सूक्ष्मान्तरैर्योगपथानुगम्यंपुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं ब्रह्मविदो वदन्तिगायन्ति यच्चारणसिद्धसङ्घाः ।यन्मण्डलं वेदविदः स्मरन्तिपुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं वेदविदोपगीतंयद्योगिनां योगपथानुगम्यम् ।तत् सर्व्ववेदं प्रणमामि सूर्य्यंपुनातु मां तत्सवितुर्वरेण्यम्
मङ्गलाष्टमिदं पुण्यं यः पठेत् सततं नरः ।सर्व्वपापविशुद्धात्मा सूर्य्यलोके महीयते
ध्येयः सदा सवितृमण्डलमध्यवर्तीनारायणः सरसिजासनसन्निविष्टः ।केयूरवान् मकरकुण्डलवान् किरिटीहारी हिरण्मयवपुर्धृ तशङ्खचक्रः
सशङ्खचक्रं रविमण्डले स्थितंकुशेशयाक्रान्तमनन्तमच्युतम्
भजामि बुद्ध्या तपनीयमूर्त्तिंसुरोत्तमं चित्रविभूषणोज्ज्वलम्
एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।कीर्त्तयन्ति सुरश्रेष्ठं देवं नारायणं विभुम् ।वेदवेदाङ्गशारीरं दिव्यदीप्तिकरं परम् ।रक्षोघ्नं रक्तवर्णञ्च सृष्टिसंहारकारकम्
एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः
आदित्यः प्रथमं नाम द्वितीयन्तु दिवाकरः ।तृतीयं भास्करः प्रोक्तं चतुर्थन्तु प्रभाकरः
पञ्चमन्तु सहस्रांशुः षष्ठञ्चैव त्रिलोचनः ।सप्तमं हरिदश्वश्च अष्टमञ्च विभावसुः
नवमं दिनकृत् प्रोक्तं दशमं द्बादशात्मकः ।एकादशं त्रयीमूर्त्ति र्द्वादशं सूर्य्य एव
द्वादशादित्यनामानि प्रातःकाले पठैन्नरः ।दुःस्वप्ननाशनञ्चैव सर्व्वदुःखञ्च नश्यति
दद्रुकुष्ठहरञ्चैव दारिद्र्यं हरते ध्रुवम् ।सर्व्वतीर्थप्रदञ्चैव सर्व्वकामप्रवर्द्धनम्
यः पठेत् प्रातरुत्थाय भक्त्या नित्यमिदं नरः ।सौख्यमायुस्तथारोग्यं लभते मोक्षमेव
अग्निमीले नमस्तुभ्यमिषेत्वोर्जेस्वरूपिणे ।अग्न आयाहि वीतस्त्वं नमस्ते ज्योतिषां पते ।शन्नोदेवी नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते ।पञ्चमायोपवेदाय नमस्तुभ्यं नमो नमः
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।सप्ताश्वरथसंयुक्तो द्विभुजः स्यात् सदा रविः
आदित्यस्य नमस्कारं ये कुर्व्वन्ति दिने दिने ।जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते
उदयगिरिमुपेतं भास्करं पद्महस्तंनिखिलभुवननेत्रं भक्तरत्नोपमेयम् ।तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनांसुरवरमभिवन्दे सुन्दरं विश्ववन्द्यम्
”इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्ज्जुनसंवादेआदित्यहृदयस्तीत्रं संपूर्णम्
*
)