| YouTube Channel

सूर्क्ष (sUrkSa)

 
Apte
English
सूर्क्ष [sūrkṣa] र्क्ष्य [rkṣya] णम् [ṇam], (र्क्ष्य) णम् Disrespect.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सूर्क्ष्
मूलधातुः:
सूर्क्ष
धात्वर्थः:
आदरे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
सूर्क्षति
शब्दकल्पद्रुमः
Sanskrit
सूर्क्ष, नारदे इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) रेफयुक्तः षष्ठस्वरी दन्त्यादिः ।सूर्क्षति दुष्टं लोकः सुसूर्क्ष इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
सू(षू)र्क्ष(र्क्ष्य)) अनादरे
भ्वा०
पर०
सक०
सेट् सूर्क्ष(र्क्ष्य)तिअसूर्क्षी(र्क्ष्यी)त् षोपदेश एव न्याय्यः
सूर्क्ष
पु०
सूर्क्ष--कर्मणि घञ् माषे (कलाइ) शब्दर०
धातुवृत्तिः
Sanskrit
सूर्क्षँ सूर्क्ष (अर्थः) आदरे
अनादर इति क्कचित्पठ्यते तदसत् सोमेन यक्ष्यमाणो नभूनसूर्क्षन्नक्षत्रमिति दर्शनात् सोमेन यक्ष्यमाणो वसन्ते व्राह्मणोऽग्रीनादधीत उत्तरयोः फग्लुन्योरग्निमादधीतेत्यादिना चोदितनक्षत्राणि नाद्रियेत इति तत्रार्थः तथा अवहेडनमसूर्क्षणमिति दृश्यते सूर्क्ष्यणमादरः ततोन्यदसूर्क्षणमनादरः (सूर्क्षति सूर्क्षितेत्यादि) 655
कृदन्तरूपमाला
Sanskrit
1 {@“सूर्क्ष आदरे”@} 2 धातुकाव्य-सि।
कौमुदी-काशकृत्स्नीयेषु पठितः।
‘ईर्ष्यायामादरे चार्थे क्रमात् सूर्क्ष्यति सूर्क्षति।।’ 3 इति देवः।
धातुवृत्तौ “--षूर्क्ष--’ इति पठित्वा ‘आदरानादरे’ इति क्वचित् पठ्यते।
तदसत्
‘सोमेन यक्ष्यमाणो नर्त्तून् सूर्क्षन् नक्षत्रम्’ इति दर्शनात्।
सोमेन यक्ष्यमाणो ‘वसन्ते ब्राह्मणोऽग्नीनादधीत।
उत्तरयोः फल्गुन्योरग्निमादधीत’ इत्यादि4ऋतुनक्षत्राणि नाद्रियेत इति सूत्रार्थः।
तथा-- ‘अवहेडनमसूर्क्षणम्’ 5 इति दृश्यते।
सूर्क्षणम् = आदरः ततोऽन्यदसूर्क्षणम् अनादरः” इति उक्तमत्र अनुसन्धेयम्।
क्षीरतरङ्गिण्याम् ‘सूर्क्ष्य अनादरे’ षान्तोऽयमिति चन्द्रः’ इति दृश्यते।
सायणेन ‘अनादरे’ इति पाठो दूषितः।
सर्वाण्यपि 6 रूपाणि भौवादिकचूषतिवत् 7 बोध्यानि।
ण्यति 8 सूर्क्ष्यम्।
प्रासङ्गिक्यः
01
=>
(१९११)
02
=>
(१-भ्वादिः-६६६। सक। सेट्। पर।)
03
=>
(श्लो। १७०)
04
=>
[उदित]
05
=>
(अमरः नाट्यवर्गे)
06
=>
[पृष्ठम्१३७६+ ३३]
07
=>
(५५२)
08
=>
[[आ। ‘सूर्क्ष्य त्वदीक्षा चिरकाङ्क्षता नः…।’ धा। का। १-८५।]]