| YouTube Channel

सूत्रधारः (sUtradhAraH)

 
Wordnet
Sanskrit
Synonyms:
सूत्रधारः, प्रस्तुतकर्ता
noun
यः प्रस्तौति।
"सूत्रधारः एव अपगतः तर्हि कार्यक्रमः कथम् आरप्स्यते।"
Synonyms:
सूत्रधारः
noun
नाटकीयकथासूत्रसूचकः।
"रङ्गमञ्चं प्रविश्य सूत्रधारेण नाटकम् आरब्धम्।"
Synonyms:
तक्षकः, तक्षा, सूत्रधारः, त्वष्टा, काष्ठतक्षकः, तष्टा, स्थपतिः
noun
यः काष्ठात् नैकानि वस्तूनि निर्माति।
"कुशलेन तक्षकेण एतद् द्वारं निर्मितम्।"
शब्दकल्पद्रुमः
Sanskrit
सूत्रधारः,
पुं,
(सूत्रं धरति धारयति वा धृ +णिच् वा + अण् ।) शचीपतिः इन्द्रः नान्द्य-न्तरसञ्चारी तु रङ्गभूमिं परिक्रम्य नाट-कीयकथासूत्रसूचकः (यथा, साहित्यदर्पणे ।६ २८३ ।“पूर्व्वरङ्गं विधायैव सूत्रधारो निवर्त्तते ।प्रविश्य स्थापकस्तद्वत् काव्यमास्थापयेत्ततः
”)शिल्पिप्रभेदः छुतार इति भाषा इतिमेदिनी
शूद्रागर्भे विश्वकर्म्मण औरसेनजातः इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः