| YouTube Channel

सूतिकाषष्ठी (sUtikASaSThI)

 
Spoken Sanskrit
English
सूतिकाषष्ठी sUtikASaSThI
f.
goddess worshipped on the sixth day after child-birth
Monier Williams Cologne
English
सूतिका—षष्ठी
f.
a goddess worshipped on the sixth day after child-birth,
MW.
Apte Hindi
Hindi
सूतिकाषष्ठी
स्त्री*
सूतिकाषष्ठी -
प्रसव के पश्चात छठे दिन पूजी जाने वाली देवी विशेष का नाम
L R Vaidya
English
sUtikA-zazWI {% f. %} a particular goddess worshipped on the sixth day after child-birth.
शब्दकल्पद्रुमः
Sanskrit
सूतिकाषष्ठी,
स्त्री,
(सूतिकायाः षष्ठी सूतिका-गृहपूज्या षष्ठीति मध्यपदलोपी कर्म्मधारयोवा ।) सूतिकागारे जातबालकस्य षष्ठदिनेपूज्यदेवीविशेषः अथ सूतिकाषष्ठी-पूजा ।विष्णुधर्म्मोत्तरे ।“सूतिकावासनिलया जन्मदा नाम देवताः ।तासां यागनिमित्तार्थं शुद्धिर्जन्मनि-कीर्त्तिता
षष्ठेऽह्नि रात्रियागन्तु जन्मदानाञ्च कारयेत् ।रक्षणीया सदा षष्ठी निशां तत्र विशेषतः
राम ! जागरणं कार्य्यं जन्मदानां तथा वलिः
”रामेति सम्बोधनम्
*
तत्राशौचान्तरदोषो-ऽपि नास्ति ।“अशौचे तु समुत्पन्ने पुत्त्रजन्म यदा भवेत् ।कर्त्तुस्तात्कालिकी शुद्धिः पूर्व्वाशौचाद्विशु-ध्यति
”इति प्रजापतिवचनात् पुत्त्रजन्मेति श्रवणात्पितुरेवाशौचाभावः तु मातुः कर्त्तुरितिपुंलिङ्गनिर्द्देशाच्च कारयेदिति अन्यगोत्रजाभि-प्रायेण
*
तत्रादौ विनयकादिसहितषोडश-मातृकापूजनम तथा कृत्यचिन्तामणौ ।“छागजागरणं कार्य्यं खङ्गो धार्य्यः समी-पतः ।आवाह्य पूजयेद्देवीं गणेशं मातरं गिरिम्
”देवीं षष्ठीम् गिरिं मन्थानदण्डम्
*
मातृ-नामान्याह बह्वृचगृह्यपरिशिष्टम् ।“गौरी पद्मा शची मेधा सावित्री विजया जयादेवसेना स्वधा स्वाहा मातरो सोकमारतः
शान्तिः पुष्टिर्धृतिस्तुष्टिरात्मदेवतया सह ।आदौ विनायकः पूज्यो अन्ते कुलदेवताः
”ताश्चाभिधाय भविष्ये ।“पूज्याश्चित्रेऽथवा कार्य्या वरदाभयपाणयः ।”मातरः इति सर्व्वासां विशेषणम् अतएव गौर्य्यैमात्रे नमः इत्यादिप्रयोगः एता मातरोलोकमातरो ज्ञेयाः अतएव तयोर्ब्बहुत्वेननिर्द्देशः
*
गणेशपूजायां प्रार्थनामन्त्रो यथा, “सर्व्वविघ्नहरो देव एकदन्तो गजाननः ।षष्ठीगृहेऽर्च्चितः प्रीत्या शिशुं दीर्घायुषं कुरु
”ततः ।“आयाहि वरदे देवि महाषष्ठीति विश्रुता ।शक्तिरूपेण मे पुत्रं रक्ष जागरवासरे
”इति षष्ठ्या आवाहनम् ततः षष्ठीं पूजयेत् ।“गौर्य्याः पुत्त्रो यथा स्कन्दः सदा संरक्षितस्त्वयातथा ममाप्ययं बालो रक्ष्यतां षष्ठि ते नमः
”इति त्रिः पूजयेदिति भोजराजः ।“गणेशश्चैव नन्दा पूतना मुखमण्डिका ।विवानिका शकुनिका शुष्कनन्दा जम्भिका
आचार्य्यका रेवती पिलिपिञ्जा ततः परम् ।स्कन्दा द्वादशैतेऽर्च्च्याः रक्षार्थं मातृका-ग्रहाः
”कृत्यचिन्तामणौ स्तुतिः ।“जय देवि जगन्मातर्जगदानन्दकारिणि ।प्रसीद मम कल्याणि नमोऽस्तु षष्ठि देवि ते
”वरप्रार्थनम् ।“रूपं देहि यशो देहि भाग्यं भगवति देहि मे ।पुत्त्रान्देहि धनं देहि सर्व्वान् कामांश्च देहि मे
धात्री त्वं कार्त्तिकेयस्य महाषष्ठीति विश्रुता ।त्वत्प्रसादादविघ्नेन चिरं जीवतु बालकः
देवतानामृषीणाञ्च सर्व्वेषां हितकारिणि ।समर्पितं रक्ष पुत्त्रं महाषष्ठि नमोऽस्तु ते
इत्यनेन बालं व्यजनस्थं कृत्वा समर्पयेत्
”मन्थानदण्डं पूजयेत् ।“मन्थानमन्दरोऽसि त्वं मथितः सागरस्त्वया ।तथा ममापि पुत्त्रस्य मन्थ विघ्नं नमोऽस्तुते
”ततः षट्कृत्तिकाः पूजयेत् ताश्च ।“शिवा सम्भूतिनाम्नी कीर्त्तिः सन्ततिरेव ।अनसूया क्षमा चैव षडेताः कृत्तिकाः स्मृताः
”मार्कण्डयपुराणम् ।“अग्न्यम्बुपशुशून्ये निर्यूपे सूतिकागृहे ।अदीपशस्त्रमूषले भूतिसर्षपवर्ज्जिते ।अनुप्रविश्य या जातमपहृत्यात्मसम्भवम् ।क्षणप्रसविनी बालं तत्रैवोत्सृज्यते द्विज
मा जातहारिणी नाम सुघोरा पिशिताशना ।तस्मात् संरक्षणं कार्य्यं यत्नतः सूतिकागृहे
”यूपो बद्धच्छागस्तम्भः पशुः छागः छाग-जागरणं कार्य्यमित्येकवाक्यत्वात्
*
पाद्मे ।“पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति ।गृहं तस्य रक्षांसि धर्षयन्ति कदाचन
”इति ज्योतिस्तत्त्वम्
अन्यत् षष्ठीशब्दे द्रष्टव्यम्
वाचस्पत्यम्
Sanskrit
सूतिकाषष्ठी स्त्री सूतिकागृहे पूज्या षष्ठी शाक० सूतिका-गारे प्रसवावधि षष्ठे दिवसे पूज्यायां षष्ठीदेव्याम् य-थाह “विष्णधर्मोत्तरे “सूतिकावासनिलया जन्मदा नामदेवताः तासां यागनिमित्तार्थं शुद्धिर्जन्मनि कीर्त्तता ।षष्ठेऽह्नि रात्रियागन्तु जन्मदानाञ्च कारयेत् रक्षणीयासदा षष्ठी निशां तत्र विशेषतः राम! जागरणं कार्य्यंस्नन्मदानां तथा वलिः” रामेति सम्भोधनम् तत्रा-शाचान्तरदोषोऽपि नास्ति “अशौचे तु समुत्पन्नेपुत्रजन्म यदा भवेत् कर्त्तुस्तात्कालिकी शुद्धिः पूर्वा-शौच द्विशुध्यति” इति प्रजापतिवचनात् पुत्रजन्मेतिश्रवणात् पितुरेवाशौचाभावः तु मातुः कर्त्तुरितिपुंलिङ्गनिर्देशाच्च कारयेदिति अन्यगोत्रजाभिप्रायेण ।तत्रादौ विनायकादिसहितषोडशमातृकापूजनम् तथाच कृत्यचिन्तामणौ “छागजागरणं कार्य्यं खड्गोधार्य्यः समीपतः आवाह्य पूजयेद्देवीं गणेशं मातृकागिरिम्” देवीं षष्ठीम् गिरिं मन्थानदण्डम् भोज-राजः “गणेशश्चैव नन्दा पूतना सुखमण्डिका विवा-निका शकुनिका शुष्कनन्दा जम्भिका आचार्य्यकारेवती पिलिपिञ्जा ततः परम् स्कन्दा द्वादशैते-ऽर्च्याः रक्षार्थं मातृका ग्रहाः” ज्यो० त०