| YouTube Channel

सूतिकावासः (sUtikAvAsaH)

 
शब्दकल्पद्रुमः
Sanskrit
सूतिकावासः,
पुं,
(सूतिकाया आवासः ।) प्रसव-गृहम् यथा, --“सूतिकावासनिलया जन्मदा नाम देवताः ।तासां यागनिमित्तन्तु शुद्धिर्ज्जन्मनि कीर्त्तिता ।षष्ठेऽह्नि रात्रियागन्तु जन्मदानान्तु कारयेत्
”इति शुद्धितत्त्वम्