| YouTube Channel

सूतिकारोग (sUtikAroga)

 
शब्दसागरः
English
सूतिकारोग
m.
(-गः) Puerperal sickness.
Monier Williams Cologne
English
सूतिका—रोग
m.
=
-गद,
MW.
Apte Hindi
Hindi
सूतिकारोगः
पुं*
सूतिकारोगः -
प्रसव के पश्चात होने वाला रोग
L R Vaidya
English
sUtikA-roga {% m. %} puerperal sickness.
शब्दकल्पद्रुमः
Sanskrit
सूतिकारोगः,
पुं,
(सूतिकाया रोगः ।) नव-प्रसूताया व्याधिभेदः तन्निदानादि यथा, --“मिथ्योपचारात् संक्नेशात् विशमाजीर्णभोज-नात् ।सूतिकायास्तु ये रोगा जायन्ते दारुणाश्च ते
”मिथ्योपचारात् अनुचिताचरणात् प्रवातादि-सेवनात् संक्लेशात् संक्लिश्यन्ते दोषा अनेनइति संक्लेशः दोषजनकमन्नं तस्मात् दारुणाःकष्टसाध्याः के ते व्याधय इत्याकाङ्क्षायामाह ।“अङ्गमर्द्दो ज्वरः कासः पिपासा गुरुमात्रता ।शोथः शूलातिसारौ सूतिकारोगलक्षणम्
”एतेऽङ्गमर्द्दादयः प्रायेण सूतिकाया भवन्तःसूतिकारोगत्वेन लक्ष्यन्ते
*
ज्वरादीनांरोगविशेषाणां निदानविशेषमाह ।“ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः ।तन्द्रारुचिप्रसेकाद्या वातश्लेष्मसमुद्भवाः
कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाश्रिताःते सर्व्वे सूतिका नाम्ना रोगास्ते चाप्युपद्रवाः
”सूतिकाभवत्वेन सूतिकानाम्ना ते रोगाः ।आश्रयाश्रितयोरभेदोपचारात् ते चाप्युपद्रवाइति एव ज्वरादय उक्तानां रोगाणामन्य-तमं प्रधानीकृत्योपद्रवाश्च
*
अथ सूतिकारोगचिकित्सा ।“सूतिकारोगशान्त्यर्थं कुर्य्यात् वातहरींक्रियाम् ।दशमूलकृतं क्वाथं कोष्णं दद्यात् घृतान्वितम्
अमृतानागरसहचरभद्रोत्कटपञ्चमूलकं जल-दम् ।शृतशीतं मधुयुक्तं शमयत्यचिरेण सूतिकातङ्कम्
देवदारु वचा कुष्ठं पिप्पली विश्वभेषजम् ।भूनिम्बकट्फलं मुस्तं तिक्ताधान्यं हरीतकी
गजकृष्णा सदुःस्पर्शा गोक्षुरं धन्वयासकः ।बृहत्यतिविषा च्छिन्ना कर्क्कटः कृष्णजीरकः
समभागान्वितैरेतैः सिन्धुरामठसंयुतैः ।क्वाथमष्टावशेषन्तु प्रसूतां पाययेत् स्त्रियम्
शूलकासज्वरश्वासमूर्च्छाकम्पशिरोऽर्त्तिभिः ।युक्तं प्रलापतृड्दाहतन्द्रातीसारवान्तिभिः
निहन्ति सूतिकारोगं वातपित्तकफोद्भवम् ।कषायो देवदार्व्वादिः सूतायाः परमौषधम्
”इति देवदार्व्वादिक्वाथः
*
“जीरकः स्थूलजीरश्च शतपुष्पाद्वयन्तथा ।यवानी चाजमोदा धान्यकं मेथिकापि
शुण्ठी कृष्णा कणामूलं चित्रकं हपुषापि ।वदरीफलचूर्णञ्च कुष्ठं कम्पिल्लकं तथा
एतानि पलमात्राणि गुडं शतपलं मतम् ।क्षीरं प्रस्थद्वयं दद्यात् सर्पिषः कुडवन्तथा
पञ्चजीरकपाकोऽयं प्रसूतानां प्रशान्तये ।युज्यते सूतिकारोगे योनिरोगे ज्वरे क्षये ।कासे श्वासे पाण्डुरोगे कार्श्ये वातामयेषु
”इति पञ्चजीरकपाकः
*
“आज्यस्याञ्जलियुग्ममत्र पयसःप्रस्थद्वयंखण्डतपञ्चाशत्पलमत्र चूर्णितमथ प्रक्षिप्यते नागरम् ।प्रस्थार्द्धं गुडवद्विपाच्य विधिना मुष्टित्रयं धान्य-कात्मिश्याः पञ्चपलं पलं कृमिरिपोः साजाजि-जीरादपि
व्योषाम्भोददलोरगेन्द्र-सुमनस्तत्द्राविडीनां पलपक्वं नागरखण्डसंज्ञकमिदं सौभाग्यदं योषि-ताम् ।तृट्श्वासज्वरदाहशोषशमनं सश्वासकासापहंप्लीहव्याधिविनाशनं कृमिहरं मन्दाग्निसन्दी-पनम्
”दलं पत्रकम् उरगेन्द्रसुमुखनागकेशरम् ।द्राविडी सूक्ष्मैला सौभाग्यशुण्ठीपाकः इतिभावप्रकाशः
वाचस्पत्यम्
Sanskrit
सूतिकारोग
पु०
त० भावप्र० उक्ते रोगभेदेतन्निदानादि यथा “मिथ्योपचारात् संक्लेशात् विषमा-जीर्णभोजनात् मूतिकायास्तु ये रोगा जायन्ते दारु-णाश्च ते” मिथ्योपचारात् अनुचिताचरणात् प्रवा-तादिसेवनात् संक्लेशात् संक्लिश्यन्ते दोषा अनेन इतिसंक्लेशः दोषजनकमन्नं तस्मात् दारुणाः कष्टसाध्याः ।के ते व्याधय इत्याकाङ्क्षायामाह “अङ्गमर्दो ज्वरः कासःपिपासा गुरुगात्रता शोथः शूलातिसारौ मूतिका-रोगलक्षणम् एतेऽङ्गमर्दादयः प्रायेण मूतिकायाभवन्तः मूतिकारोगत्वेन लक्ष्यन्ते ज्वरादीनां रोग-विशेषाणां निदानविशेषमाह “ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः तन्द्रारुचिप्रसेकाद्या वातश्लेष्म-समुद्भवाः कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबला-श्रिताः ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्रवाः”मूतिकाभवत्वेन मूतिकानाम्ना ते रोगाः आश्रयाश्रित-योरमेदोपचारात् ते चाप्युपद्रवा इति एव ज्वरादयःउक्तानां रोगाणामन्यतमं प्रधानीकृत्योपद्रवाश्च”