| YouTube Channel

सूतिकागृहं (sUtikAgRhaM)

 
शब्दकल्पद्रुमः
Sanskrit
सूतिकागृहं,
क्ली,
(सूतिकाया गृहम् ।) प्रसवा-लयः तत्पर्य्यायः अरिष्टम् इत्यमरः ।१
सूतकागृहम् इति तट्टीका
सूतीगृहम् सूतिगृहम् इति जटाधरः
तस्याकृतिर्यथा, --“अष्टहस्तायतं चारु चतुर्हस्तविशालकम् ।प्राचीद्वारमुदग्द्वारं विदध्यात् सूतिकागृहम्
”इति भावप्रकाशः
तत्र पिशाचानां वासो यथा, --“सर्व्वत्रगानप्रतिघान् सूतिकागृहसेविनः ।पृष्ठतः पाणिपादांश्च पृष्ठग्रीवान् सुरंहसः
एवविधान् पिशाचांश्च दृष्ट्वा ब्रह्मानुकम्पया ।अन्तर्धानं वरं प्रादात् कामशायित्वमेव
”इति वह्निपुराणे प्रजापतिसर्गनामाध्यायः
प्रसवात् पूर्व्वं तत्संस्कारमाह साङ्ख्यायनगृह्यम्काकादन्या मेचकधातक्या बृहत्याः कोषतक्याकालक्लीतकस्य मूलानि पेषयित्वा उपलेपयेद्देशंयस्मिन् प्रजायते रक्षसामपहत्यै इति काका-दनी काकजङ्क्षा मेचकधातकीकाकमोचिकाकोषातकी घोषकम् कालक्लीतकः यष्टिमधु-केति कल्पतरुः
अतएव हरिवंशे ।“एष मानुष्यको यत्नो मानुषैरेव साध्यते ।श्रूयतां येन दैवं हि मद्विधैः प्रतिहन्यते
मन्त्रग्रामैः सूविहितैरौषधैश्चैव योजितैः ।यत्नेन चानुकूलेन दैवमप्यनुलोम्यते
”इत्यनुचरान् प्रति कंसवाक्यम् इति ज्योति-स्तत्त्वम्