| YouTube Channel

सूतिकागार (sUtikAgAra)

 
Monier Williams Cologne
English
सूतिका°गार (°काग्°),
n.
a lying-in chamber,
L.
L R Vaidya
English
sUtikA-agAra {% n. %} a room appropriated to a woman at child-birth.
शब्दकल्पद्रुमः
Sanskrit
सूतिकागारं,
क्ली,
(सूतिकाया आगारम् ।)प्रसवगृहम् इति जटाधरः
(यथा, हरि-वंशे १६३ ४७ ।“आहृत्य शम्बरेण त्वमिहानीतोऽसि मानद ।सप्तरात्रे त्वसम्पूर्णे सूतिकागारमध्यतः
”)
वाचस्पत्यम्
Sanskrit
सूतिकागार
न०
सूतिकाया निवासयोग्यमगारम् मू-तिकागृहे अरिष्टे सूतिकागृहादयोऽप्यत्र ।तत्करणप्रवेशमुहूर्त्तादिकं पीयू० उक्तं यथा“उक्तञ्च श्रीपतिना “पुनर्वसौ सूतिकागृहस्य निर्मितिःशुभा विरञ्चिविष्णु भान्तरे प्रवेशनं हितं भवेत्” इति ।विरञ्चिरभिजिन्नक्षत्रम् अन्तरे मध्ये विरञ्चिविष्णुतारयोरि-त्येव सप्तम्या अधिकरणत्वे वोधिते अन्तरपदोक्तिः स्पष्टार्था ।तदेतत्ब्राह्मणव्यतिरिक्तवर्णत्रयविषयम् यदाह लल्लः“पुनर्वसौ नृपादीनां कर्त्तव्यं सूतिकागृहम् श्रवणा-भिजितोर्मध्ये प्रवेशं तत्र कारयेत्” इति आवश्यकत्वेतु श्रवणाभिजितोर्मुहूर्त्तस्तदुदयो ग्राह्यः वा इत्यर्थः ।ब्राह्मणस्य तु प्रागुक्तनक्षत्रेष्वेव सूतिकागृहनिर्माणप्रवेशौतत्र सूतिकागृहं नैरृत्यां कार्य्यम् यदाह वृद्धवसिष्ठः“ऐन्द्र्यां तु विक्रमस्थानमाग्नेय्यां पचनालयः वारुण्यांभोजनगृहं नैरृत्यां सूतिकागृहम् याम्यायां शयन-स्थानं वायव्यां पशुमन्दिरम् कौवेर्य्यां तु धनस्थानम्ऐशान्यां देवतालयः” इति स्मृतिभास्करे गर्गः “वारे-ऽनुकूले राशौ तु दिने दोषविवर्जिते सानुकूलदिशिप्रोक्तं सूतिकाभवनं वुधैः” इति कालानियभ उक्तोरत्नकोशे “आसन्नप्रसवे मासि कुर्य्याच्चैव विशेषतः ।तद्वत् प्रसवकाले स्यादिति शास्त्रेषु निश्चयः” इति ।वराहेणात्रानेकनक्षत्राणामभिधानं कृतं यथा “हस्ता-दित्यशशाङ्कतिष्यपवनप्राज्येशमित्रोत्तराचित्राश्विश्रवणेषुवृश्चिकघटौ हित्वा विरिक्ते तिथौ शुक्राचार्य्यशनैश्चरज्ञ शशिनां वारेऽनुकूले विधौ सद्रर्वेश्मनि सूतिकागृहविधिः क्षेमङ्करः कीर्त्यते” इति वेश्मनि चतुर्थस्थानेसद्भिः शुभग्रहैः सूतिकागृहप्रवेशे कालविशेषमाहज्योतिर्वशिष्ठः “अथातः सम्प्रवक्ष्यामि सूतिकागार-वेशनम् मासे तु नवमे प्राप्ते पूर्वपक्षे शुभे दिने ।प्रसूतिसम्भवे काले सद्य एव प्रवेशयेत्” इति पूर्वपक्षेशुक्लपक्षे नक्षत्रादीन्याह गर्गः “रोहिण्यैन्दवपौष्णेषुस्वातीवारुणयोरपि पुष्ये पुनर्वसौ हस्तधनिष्ठा त्र्यु-त्तरासु च” इति “मैत्रत्वाष्ट्रे तथाश्विन्यां सूतिकागार-वेशनम् सर्वे शुभग्रहाः केन्द्रे पापाश्च त्रिषडायगाः ।शुभाशे शुभसंदृष्टौ सूतिकागारवेशनमिति” ।तदाकारमाह भावप्र० “अष्टहस्तायतं चारु चतुर्हस्तविशा-लकम् प्राचीद्वारमुदग्द्वारं विदध्यात् सूतिकागृहम्”