| YouTube Channel

सूतकं (sUtakaM)

 
Apte 1890
English
सूतकं 1 Birth, production
Ms. 4. 112.
2 Impurity caused by child-birth (or miscarriage) in a family
(also called जननाशौचं q. v.).
कः,
कं Quick-silver.
शब्दकल्पद्रुमः
Sanskrit
सूतकं,
क्ली,
(सू + भावे क्तः ततः स्वार्थे कन् ।जन्म इति मेदिनी
(सूतकं जन्म कारण-त्वेनास्त्यस्येति अच् ।) जननाशौचम् यथा, “मृतेन सूतकं गच्छेन्नेतरत् सूतकेन तु ।” इति ।वृद्धमनुरपि ।“शावस्योपरि शावे तु सूतकोपरि सूतके ।शेषाहोभिर्व्विशुद्धिः स्यादुदक्यां सूतिकां विना
”मरणाशौचम् यथा, --“सर्व्वं गोत्रमसंस्पृश्यं तत्र स्यात् सूतके सति ।मध्येऽपि सूतके दद्यात् पिण्डान् प्रेतस्य तृप्तये
”इति शुद्धितत्त्वम्
प्रतिबन्धकम् यथा, --“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे ।आरब्धे सूतकं स्यादनारब्धे नु सूतकर्म्
”इति तिथ्यादितत्त्वम्
(उपरागः ग्रहणम् यथा, मनुः ११० ।“प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् ।त्र्यहं कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके
”“राजा चन्द्रमास्तस्य सूतकं राहुं प्रत्यमृत-स्रवणं चशब्दात् सूर्य्यस्य अथवा जनपदे-श्वरस्य राज्ञः सूतकं पुत्त्रजन्मोत्मवः राहोःसूतकं चन्द्रसूर्य्ययोरुपरागः ग्रहणमिति प्रसि-द्धम्
इति तत्र मेधातिथिः
)