| YouTube Channel

सूचिकाभरणः (sUcikAbharaNaH)

 
शब्दकल्पद्रुमः
Sanskrit
सूचिकाभरणः,
पुं,
औषधविशेषः यथा, --“विषं पलमितं सूतः शाणकश्चूर्णयेद्द्वयम् ।तच्चूर्णं संपुटे कृत्वा काचलिप्तशरावयोः
मुद्रां कृत्वाथ संशोष्य ततश्चुल्ल्यां निवेशयेत् ।वह्निं शनैः शनैः कुर्य्यात् प्रहरद्वयसङ्ख्यया
ततः उद्घाट्य तन्मुद्रामुपरिस्थशरावकात् ।सलग्नी यो भवेद्धूमस्तं गृह्णीयाच्छनैः शनैः
वायुस्पर्शी यथा स्यात्ततः कूप्यां निवेशयेत् ।यावत् सूच्या मुखे लग्नं कूप्या निर्याति भेषजम्तावन्मात्रो रसो देयो मूर्च्छिते सतिपातिनि
क्षुरेण पक्षते मूर्द्ध्नि तत्राङ्गुल्या घर्षयेत्
रक्तभेषजसम्पर्कात् मूर्च्छितोऽपि हि जीवति ।तथैव सर्पदष्टोऽपि मृतावस्थोऽपि जीवति ।यदा तापो भवेत्तस्य मधुरं तत्र दीयते
”इति सूचिकाभरणो रसः
इति भैषज्यरत्नावली
*
अपि ।“विषं पलं रस शाणं तच्चूर्णं काचलेपिते ।मृत्संपटे संरुध्य चल्ल्यां संस्थाप्य पाच-येत्
शनैर्य्यामद्वयं पक्त्वा तं समुद्वास्य शीतलम् ।ऊर्द्धपात्रगतं धूमं गृहीत्वा स्पृष्टमारुतम्
यावत् सूच्या मुखे लग्नं कूप्या आयाति भेषजम्क्षुरेण प्रक्षते शीर्षे तत्राङ्गुल्या घर्षयेत्
त्रिदोषे मूर्च्छितो जीवो रक्तभेषजसङ्गमात् ।सर्पदष्टो मृतावस्थः सोऽपि जीवति तत्क्षणात्दद्याच्च मधुरं तोयं सूचिकाभरणे रसे
”इति सूचिकाभरणरसः सन्निपाते
इति रसप्रदीपः
*
(अपि ।“रसगन्धकनागञ्च विषं स्थावरजङ्गमम् ।मात्स्यवाराहमायूरच्छागपित्तैर्विभावयेत्
सूचिकाभरणो नाम भैरवेण प्रकीत्तितः ।सूचिकाग्रेण दातव्यः सन्निपातनिवर्हणः
”इति सूचिकाभरणो रसः
इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे
)