| YouTube Channel

सूक्ष्मं (sUkSmaM)

 
शब्दकल्पद्रुमः
Sanskrit
सूक्ष्मं,
क्ली,
(सूच्यते इति सूच पैशुन्ये +“सूचेः स्मन् ।” उणा० १७६ इतिस्मन् ।) कैतवम् अध्यात्मम् इति मेदिनी
(यथा, भागवते १४ ।“तस्यार्थसूक्ष्माभिनिविष्टदृष्टे-रन्तर्गतोऽर्थो रजसा तनीयान्
”)अलङ्कारविशेषः यथा, --“सूक्ष्मं पराशयाभिज्ञे त्वरसाकूतचेष्टितम् ।मयि पश्यति सा केशैः सीमन्तमणिमावृणोत्
इति चन्द्रालोकः