| YouTube Channel

सुश्रीका (suzrIkA)

 
Monier Williams Cologne
English
सु—श्रीका
f.
the incense-tree,
L.
शब्दकल्पद्रुमः
Sanskrit
सुश्रीका,
स्त्री,
(शोभना श्रीः शोभा यस्याः ।कप् ।) सल्लकी इति राजनिर्घण्टः
सुन्दर-श्रीयुक्ते, त्रि
(यथा, हरिवंशे १८३ ११३ ।“द्वारोपशोभितां कृत्वा सर्व्वां द्वारवतीं पुरीम् ।संमृष्टरथ्यां सुश्रीकां बहुरत्नोपशोभिताम्
”)सुश्रुतः,
पुं,
विश्वामित्रमुनिपुत्त्रः तु चिकित्सा-शास्त्रकर्त्ता यथा, --“तथा धन्वन्तरिवंशे जातः क्षीराब्धिमन्थने ।देवादौनां जीवनाय आयुर्व्वेदमुवाच ।विश्वामित्रसुतायेव सुश्रुताय महात्मने
”इति गारुडे १५० अध्यायः
अथ सुश्रुतप्रादुर्भावः ।“अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽवदन् ।अयं धन्वन्तरिः काश्यां काशिराजोऽयमुच्यते
विश्वामित्रो मुनिस्तेषु पुत्त्रं सुश्रुतमुक्तवान् ।वत्स वाराणसीं गच्छ त्वं विश्वेश्वरवल्लभाम्
तत्र नाम्ना दिवोदामः काशिराजोऽस्ति बाहुजःस हि धन्वन्तरिः साक्षादायुर्व्वेदविदां वरः
आयुर्व्वेदं ततोऽधीत्य लोकोपकृतिहेतवे ।सर्व्वप्राणि दया तीर्थमुपकारो महामखः
पितुर्व्वचनमाकर्ण्य सुश्रुतः काशिकां गतः ।तेन सार्द्धं समध्येतुं मुनिसूनुशतं ययौ
अथ धन्वन्तरिं सर्व्ववानप्रस्थाश्रमे स्थितम् ।भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम्
काशिराजं दिवोदासं तेऽपश्यन् विनयान्विताः ।स्वागतं इति स्माह दिवोदासो यशोधनः
कुशलं परिपप्रच्छ तथागमनकारणम् ।ततस्ते सश्रुतद्वारा कथयामासुरुत्तरम्
भगवन् मानवान् दृष्ट्वा व्याधिभिः परिपीडितान् ।क्रन्दतो म्रियमाणांश्च जातास्माकं हृदि व्यथा
आमयानां शमोपायं विज्ञातुं वयमागताः ।आयुर्व्वेदं भवानस्मानध्यापयतु यत्नतः
अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत् ।व्याख्यातं तेन ते यत्नात् जगृहुर्मुनयो मुदा
काशिराजं जयाशीर्भिरभिनद्य मुदान्विताः ।सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम्
प्रथमं सुश्रुतस्तेषु स्वं तन्त्रं कृतवान् स्फुटम् ।सुश्रुतस्य सखायोऽपि पृथक् तन्त्राणि तेनिरे
सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः ।तस्मात्तत् सुश्रुतंनाम्ना विख्यातं क्षितिमण्डले
”इति भावप्रकाशः
(क्ली, गोष्ठीश्राद्धे तृप्तिप्रश्नः यथा, मनुः ।३ २५४ ।“पित्र्ये स्वदितमित्येव वाच्यं गोष्ठेतु सुश्रुतम् ।सम्पन्नमित्यभ्यु दये दैवे रुचितमित्यपि
”)