| YouTube Channel

सुशीलः (suzIlaH)

 
शब्दकल्पद्रुमः
Sanskrit
सुशीलः,
पुं,
(सु शोभनं शीलमस्य ।) चोलराजः ।यथा, --“यो विष्णुदासः तु पुण्यशीलोयश्चोलभूपः सुशीलनामा ।आवामुभौ तत्समरूपभाजौद्वाःस्थौ कृतौ तेन रमाप्रियेण
”इति पाद्मे उत्तरखण्डे ५४ अध्यायः
शोभनशीलविशिष्टे, त्रि
(यथा, भागवते ।६ १७ ।“सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः ।सुशीलाः साधवो यत्र नारायणपरायणाः
”शोभनं शीलमिति सच्चिरित्रे, क्ली यथा, महाभारते २९७ ४३ ।“त्वया सुशीलव्रतपुण्ययुक्तयासमद्धृतं साध्वि पुनः कुलीनया
”)