| YouTube Channel

सुवर्ण्ण (suvarNNa)

 
वाचस्पत्यम्
Sanskrit
सुवर्ण्ण
न०
सुष्ठु वर्णोऽस्य स्वनामख्यते धातुभेदे अमरः२ हरिचन्दने मेदि० स्वर्णगैरिके रत्नमा० धने हेमच० ।५ नागकेसरे राजनि० “कर्षं सुवर्णस्य सुवर्णसंज्ञम्”इत्युक्ते कर्षमिते काञ्चने
पु०
लीला० यज्ञभेदे धुस्तूरे९ कणगुग्गुलौ
पु०
राजनि० सुष्ठु वर्णो रूपसक्षरंवास्य १० सुरूपे ११ सुन्दराक्षरयुक्ते
त्रि०
“नसुवर्णमयी तनुः परं ननु वागपि तावकी तथा” नैष० ।१२ कर्षपरिमाणे वैद्यक० ।अग्निरेतस्शब्दे ५९ पृ० कनकशब्दे १६४४ पृ०सुवर्णधातूवपत्तिगुणादिकं दृश्यंम् ।तव्य शोधनसारणप्रकारादिकं भावप्र० उक्तं यथा“तत्र पारणाय योग्य सुवर्णमाह “दाहे रक्तं सितंछेदेनिषके कुङ्कुमप्रभम् तारशुल्वोत्थितं स्निग्धं कोमलंगुरु हेम सत्” (सत् उत्तमम्) “छेदे तु कठिनं रूक्षं वि-वर्णं समलं दलम् दाहे छेदेऽसितं श्वेतं कषे त्याज्यंस्फुटं लघु दलं (दोयत) इति लोके स्फुटं यद् घना-हतं स्फुटति शोधनविधिः “पत्तलीकृतपत्राणि हेम्नोवह्नौ प्रतापयेत् निषिञ्चेत् तप्ततप्तानि तैले तक्रे चकाञ्जिके गोमूत्रे कुलत्थानां कषाये तु त्रिधा त्रिधा ।एवं हेम्नः परेषःञ्च धातनां शोधनं भवेत्” अथाशुद्धस्य दोधः“वलं सवीर्यं हरते नराणां रोगव्रज पोषयतीह काये ।असौख्यकार्येव सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्य्यात् ।स्वर्णस्य मारणविधिः “स्वर्णम्य द्विगुणं सूतमम्लेन सहमर्दयेत् तद्गोलकसमं गन्धं निदध्यादधरोत्तरम्” ।स्वर्णस्य अतितनूकृतपत्रस्य गन्धम् गन्धकचूर्णम् ।“गोलकञ्च ततो रुद्ध्वा शरावदृढसपुटे त्रिंशद्वनो-पलैर्दद्यात् पुटान्येव चतुर्दंश निरुत्थं जायते भस्मगन्धो देयः पुनः पुनः” रुद्ध्वा सवस्त्रकुट्टितचिक्वण-मृत्तिकया वनोपलः (गोघठाः इति लोके) निरुत्थं यत्पुनर्न जीवति अथान्यप्रकारः “काञ्चने गलिते गन्धंषोडशांशेन निःक्षिपेत् चूर्णयित्वा तथाम्लेत घृष्ट्वा-कृत्वा तु गोलकम् गोलकेन समं गन्धं दत्त्वा चैवा-धरोत्तरम् शरावसंपुटे धृत्वा पुटेत्त्रिंशद् वनोपलैः ।एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते” अत्रापि पूर्व-वद्गन्धः अन्यच्च “काञ्चनाररसैर्घृष्टा समसूतकगन्धयोः ।कज्जलीं हेमपत्राणि लेपयेत् समया तया” समया हेमपत्रसमया “काञ्चनारत्वचः कल्कैर्मूषायुग्नं प्रकल्पयेत् ।धृत्वा तत्सम्पुटे गोलं मृन्मूषासम्पुटे तत् निधायसन्धिरोधञ्च कृत्वा संशोव्य गोलकम् वह्निं खरतरंकुर्य्यादेवं दत्त्वा पुटत्रयम् निरुत्थं जायते भस्मसर्वकर्मसुयोजयेत् काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम्” ।लाङ्गली (करिहारी) “ज्वालामुखी तथा हन्यात् तथाहन्ति मनःशिला शिलासिन्दूरयोश्चूर्णं समयोरर्क-दुग्धकैः सप्तघा भावनान् दद्याच्छोषयेच्च पुनः पुनः ।ततस्तु गलिते हेम्नि कल्कोऽयं दीयते समः पुनर्द्ध-मेदतितरां यथा कल्को विलीयते एवं वेलात्रयंदद्यात् कलकं हेममृतिर्भवेत्” एवं मारितस्य सुवर्णस्यगुणाः “सुवर्णं शीतलं वृष्यं वल्यं गुरु रसायनम् ।स्वादु तिक्तं तुवरं पाके स्वादु पिच्छिलम् पवित्रंवृंहणं नेत्र्यं मेधास्मृतिमतिप्रदम् हृद्यमायुष्करकान्तिवाग्विशुद्धिस्थिरत्वकृत् विषद्वयक्षयोन्मादत्रिदोष-ज्वरशोषजित्” वृष्यं वृषाय कामुकाय हितम् ।“असम्यङ्मारितं स्वर्णं वलं वीर्यञ्च नाशवेत् करोतिरोगान्मृत्युञ्च तद्धन्याद् यत्नतस्ततः”तद्भेदादिकं राजनि० उक्तं यथा“दाहेऽतिरक्तमथ यच्च सितं छिदायां काश्मीरकान्ति चविभाति निकाषपट्टे स्निग्धञ्च गौरवमुपैति यत्तु-लायां जानीत देवकनकं मृदु रक्तपीतम् तत्रैकं रस-वेधजं तदपरं जातं स्वयंभूमिजं किञ्चान्यद्बहुलोह-सङ्करभवं चेति त्रिधा काञ्चनम् तत्राद्यं किल पीतरक्त-मपर रक्तं ततोऽन्यत् यथा गौराभं तदिति क्रमेणगदितं स्यात् पूर्वपूर्वोत्तमम्” तत्र रसवेधजस्य करण-प्रकारः “आनीय पारदं देवि! स्थापयेत् प्रस्तरोपरि ।तस्योपरि जपेन्मन्त्रं सर्वबन्धमयात्मकम् साष्टसहस्रंदेवेशि! प्रजपेत् साधकाग्रणीः स्वयम्भूपुष्पसंयुक्तेवस्त्रे चारुणसन्निभे संस्थाप्य पारदं देवि! मृत्पात्रयुगले शिवे! पुष्पयुक्तेन सूत्रेण बध्नीयात् बहु-यत्नतः मृत्तिकया रजेनैव धान्यस्य परमेश्वरि! ।लेपयेद्बहुयत्नेन रौद्रे शुष्काणि कारयेत् पुनश्च लेपये-द्धीमान् ततो वह्नौ विनिःक्षिपेत् अष्टमीनवमीरात्रौक्षिपेन्नैव सुरेश्वरि! अथ वा परमेशानि! मृत्पात्रेस्थापयेद्रसम् वल्लीरसेन तद्द्रव्यं शोधयेद् बहुयत्नतः ।घृतनारीरसेनैव तथैव शोधनं चरेत् एवं कृते तुगुटिका यदि स्यात् दृढबन्धना धुस्तूरञ्च समानीयमध्ये शून्यञ्च कारयेत् कृष्णाख्यतुलसीयोगे तथाघृतकुमारिका एवं कृते वह्नियोगे भस्मसात् जायतेध्रुवम् भस्मयागे भवेत् स्वर्णं धनदायाः प्रसादतः ।विवर्णं जायते द्रव्यं यदि पूजां चाचरेत्” मातृकाभेदतत्त्रे प० बहुलोहसङ्करभवस्य करचविधिः गारुडे१८८ अ० “सुवर्णकरणं शृणु” इत्युपक्रमे “पीतं धुस्तूर-पुष्पञ्च सीसकञ्च पलोन्मितम् पाठालाङ्गलशाखा मूल-मावर्त्तनाङ्भवेत्” सुवर्णं चाम्बौ दह्यमानं क्षोयतेयथोक्तं याज्ञ० “अग्नौ सुवर्णमक्षीणम्” कर्षमित-ब्राह्मणस्वामिककाञ्चनरूपसुवर्णहरणं महापात त् ।महापातलनिरूपणे पायश्चित्तविवेकः