| YouTube Channel

सुवर्णबणिक् (suvarNabaNik)

 
शब्दकल्पद्रुमः
Sanskrit
सुवर्णबणिक्,
पुं,
(सुवर्णस्य बणिक् क्रयविक्रयादि-कर्त्ता ।) जातिविशेषः सोनार वेणिया इतिभाषा तु अम्बष्ठाद्वैश्यायां जातः मध्यम-वर्णसङ्करः इति केचित्
तस्य पातित्यकारणंयथा, ब्रह्मववर्त्ते ब्रह्मखण्डे १० ९५ ।“कश्चिद्बणिग्विशेषश्च संसर्गात् स्वर्णकारिणः ।स्वर्णचौर्य्यादिदोषेण पतितो ब्रह्मशापतः
”अपि ।“गान्धिकः शाङ्खिकश्चैव कांस्यको मणिकारकः ।सुवर्णजीविकश्चैव पञ्चंते बणिजः स्मृताः
अम्बष्ठाद्रजपुत्त्र्यान्तु जायते गान्धिको बणिक् ।गन्धचन्दनधूपादिक्रयविक्रयकारकः
गान्धिक्यां रजपुत्त्राच्च संजातः शाङ्खिको बणिक् ।शङ्खं दत्त्वा मुनेः प्रत्न्यै शङ्खजीवी प्रकीत्तितः
शाङ्खिक्यां गान्धिकाज्जातस्ताम्रकांस्योप-जीविकः ।शाङ्खिकात् कांस्यकन्यायां मणिकारः प्रजायते ।कांस्यकाराच्च माणिक्यां सुवर्णजीविकोऽभवत्
”इति पराशरपद्धतौ भार्गवरामकृतवर्णसङ्कर-जातिमाला