| YouTube Channel

सुवर्णगैरिकं (suvarNagairikaM)

 
शब्दकल्पद्रुमः
Sanskrit
सुवर्णगैरिकं,
क्ली,
(सुवर्णं सुन्दरवर्णं गैरिकम् ।)गैरिकभेदः वर्णकमाटि इति वङ्गभाषा ।पीत गेरु इति हिन्दी भाषा तत्पर्य्यायः ।स्वर्णधातुः सुरक्तकः सन्ध्याभ्रम् वभ्रु-धातुः शिलाधातुः अस्य गुणाः ।गैरिकं मधुरं शीतं कषायं व्रणरोपणम् ।विस्फोटार्शोऽग्निदाहघ्नं वरं स्वर्णादिगं शुभम्
”इति राजनिर्घण्टः
(तथाच ।“गैरिकं रक्तधातुश्च गैरेयं गिरिजन्तथा ।सुवर्णगैरिकं, त्वन्यत्ततो रक्त्रतरं हि तत्
गैरिकद्वितयं स्निग्धं मधुरन्तुवरं हिमम् ।चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)