| YouTube Channel

सुवर्णं (suvarNaM)

 
शब्दकल्पद्रुमः
Sanskrit
सुवर्णं,
क्ली,
(शोभना वर्णो यस्य ।) धातुविशेषः ।सोना इति भाषा तत्पर्य्यायः स्वर्णम् कन-कम् हिरण्यम् हेम हाटकम् तषनी-यम् शातकुम्भम् गाङ्गेयम् भर्म्म १०कर्व्वरम् ११ चामीकरम् १२ जातरूपस् १३महारजतम् १४ काञ्चनम् १५ रुक्मम् १६कार्त्तस्वरम् १७ जाम्बूनदम् १८ अष्टापदम् १९ ।इत्यमरः ९४
शातकौम्भम् २०भर्म्मम् २१ कर्व्वूरम् २२ कर्च्चुरम् २३ रुग्मम् २४ ।इति तट्टीका
भद्रम् २५ भूरि २६ पिञ्जरम्२७ द्रविणम् २८ गैरिकम् २९ चाम्पेयम् ३०भरुः ३१ चन्द्रः ३२ कलधौतम् ३३ इति जटा-धरः
अभ्रकम् ३४ अग्निबीजम् ३५ लोहवरम्३६ उद्धसारूकम् ३७ स्पर्शमणिप्रभवम् ३८मुख्यधातु ३९ इति शब्दरत्नावली
उज्ज्वलम्४० कल्याणम् ४१ मनोहरम् ४२ अग्निवीर्य्यम्४३ अग्नि ४४ भास्करम् ४५ पिञ्जानम् ४६अपिञ्जरम् ४७ तेजः ४८ दीप्तम् ४९ अग्निभम्५० दीप्तकम् ५१ मङ्गल्यम् ५२ सौमञ्जकम् ५३भृङ्गारम् ५४ जाम्बवम् ५५ आग्नेयम् ५६निष्कम् ५७ अग्निशिखम् ५८ अस्य गुणाः ।स्निग्धत्वम् कषायत्वम् तिक्तत्वम् मधुरत्वम् ।दोषत्रयध्वंसनत्वम् शीतत्वम् स्वादुत्वम् ।रसायनत्वम् रुचिकारित्वम् चक्षुष्यत्वम् ।आयुष्यदत्वम् प्रज्ञावीर्य्यबलस्मृतिकरत्वञ्च ।तद्धारणस्य गुणाः कान्तिदुरितक्षयश्रीकारि-त्वम्
*
तत्परीक्षादि यथा, --“दाहेऽतिरक्तमथ यच्च सितं छिदायांकाश्मीरकान्ति विभाति निकाषपट्टैः ।स्निग्धञ्च गौरवमुपैति यत्तुलायांजानीत देवकनकं मृदु रक्तपीतम्
तत्रैकं रसवेधजं तदपरं जातं स्वयं भूमिजंकिञ्चान्यद्वहु लोहसङ्करभवं चेति त्रिधाकाञ्चनम् ।तत्राद्यं कलपीतरक्तमपरं रक्तं ततोऽन्यद्यथागौराभ्रं तदिति क्रमेण गदितं स्यात् पूर्व्व-पूर्व्वोत्तमम्
”इति राजनिर्घण्टः
*
अपिच सुवर्णस्योत्पत्तिनामलक्षणगुणाः ।“पुरा निजाश्रमस्थानां सप्तर्षीणां जिता-त्मनाम् ।पत्नीर्विलोक्य लावण्यलक्ष्मीसम्पन्नयौवनाः
कन्दपेदर्पविध्वस्तचेतसो जातयेदसः ।पतितं तद्धरापृष्ठे रेतस्तु हेमतामगात्
कृत्रिमं चापि भवति तद्रसेन्द्रस्य वेधतः ।स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम्
तपनीयं कलधौतं गाङ्गेयं भर्म्म काञ्चनम् ।चामीकरं शातकुम्भं तथा कार्त्तस्वरञ्च तत्
जाम्बूनदं जातरूपं महारजतमित्यपि ।दाहे रक्तं सितं छेदे निषेके कुङ्कुमप्रभम्
तारशुल्वोऽभिहतं स्निग्धं कोमलं गुरु हमसत्
”सत् उत्तमम् ।“तच्छ्नेतं कठिनं रूक्षं विवर्णं समलं दलम् ।दाहे छेदेऽसितं श्वेतं कषे त्याज्यं लघुस्फुटम्
”दलं दोषत इति लोके स्फुटं यद्घनाहतंस्फुटति
“सुवर्णं शीतलं वृष्यं बल्यं गुरु रमायनम् ।स्वादु तिक्तञ्च तुवरं पाके स्वादु पिच्छिलम्
पवित्रं बृंहणं नेत्र्यं मेधास्म तिमतिप्रदम् ।हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत् ।विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित्
बलं सवीर्य्यं हरते नराणांरोगव्रजं पोषयतीह काये ।असौख्यकार्य्येव सदा सुवर्ण-मशुद्धमेतन्मरणञ्च कुर्य्यात्
असम्यङ्मारितं स्वर्णं बलं वीर्य्यञ्च नाशयेत् ।करोति रोगान्मृत्युञ्च तद्धन्याद्यत्नतस्ततः
”इति भावप्रकाशः
*
अथ सुवर्णकरणम् ।“मध्वाज्यं गुडताम्रञ्च करेणामाक्षिकं रसम् ।धमनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु
पीतं धुस्तूरपुष्पञ्च सीसकञ्च पलं मतम्पाठा लाङ्गलशाखा मूलमावर्त्तनाद्भवेत्
”इति गारुडे १८८ अध्यायः
*
अपि ।श्रीशङ्कर उवाच ।“आनीय पारदं देवि स्थापयेत् प्रस्तरोपरि ।तस्योपरि जपेन्मन्त्रं सर्व्वबन्धमयात्मकम्
साष्टसहस्रं देवेशि प्रजपेत् साधकाग्रणीः ।स्वयम्भुपुष्पसंयुक्ते वस्त्रे चारुणसन्निभे
संस्थाप्य पारदं देवि मृत्पात्रे युगले शिवे ।पुष्पयुक्ते सूत्रेण बध्नीयात् बहुयत्नतः
मृत्तिकया रजेनैव धान्यस्य परमेश्वरि ।लेपयेद्वहुयत्नेन रौद्रे शुष्काणि कारयेत्
पुनश्च लेपयेद्धीमान् ततो वह्नौ विनिःक्षिपेत्
अष्टमीनवमीरात्रौ क्षिपेन्नैव सुरेश्वरि
अथवा परमेशानि मृत्पात्रे स्थापयेद्रसम् ।वल्लीरसेन तद्द व्यं शोधयेद्वहुयत्नतः
घृतनारीरसेनैव तथैव शोधनं चरेत् ।एवं कृते तु गुटिकां यदि स्यात् दृढबन्धनम्
धुस्तूरञ्च समानीय मध्ये शून्यञ्च कारयेत् ।कृष्णाख्यातुलसीयोगे तथा घृतकुमारिका
एवं कृते वह्नियोगे भस्मसात् जायते किल ।भस्मयोगे भवेत् स्वर्णं धनदायाः प्रसादतः ।विवर्णं जायते द्रव्यं यदि पूजां चाचरेत्
”इति मातृकाभेदतन्त्रे पटलः
*
अस्य धार्य्यत्वं सर्व्वदेवतात्मकत्वञ्च यथा, रामायणेमहाभारते परशुरामं प्रति वशिष्ठवाक्यम् ।“सर्व्वरत्नानि निर्मथ्य तेजाराशि समुत्थितम् ।सुवर्णमेभ्यो विप्रे न्द्र रत्नं परमनुत्तमम्
एतस्म्यत कारणाद्देवगन्धर्व्वोरगराक्षसाः ।मनुष्याश्च पिशाचाश्च प्रयता धारयन्ति तत्
”तथा ।“तस्मात् सर्व्वपवित्रेभ्यः पवित्रं परमं स्मृतम्
”तथा ।“अग्निर्व्वै सकला देवाः सुवर्णञ्च तदात्मकम् ।तस्मात् सुवर्णं ददता दत्ताः स्युः सर्व्वदेवताः
”तस्मात्तत् पदादौ धार्य्यं देवतात्मकत्वात् ।इति शुद्धितत्त्वम्
*
तद्दानफलं यथा, --अम्बरीष उवाच ।“न सुवर्णं विना दानं तिलैर्व्वा मुनिसत्तम ।कस्मात् पवित्रमित्युक्तं भवानेतत् व्रवीतु मे
वशिष्ठ उवाच ।अत्र ते कथायिष्यामि इतिहासं पुरातनम् ।जामदग्न्यस्य रामस्य मुनिभिः सह पार्थिव
त्रिःसप्तकृत्वः पृथिवीं मुनीन् पप्रच्छ पार्थिव ।कृत्वा तु कृपयाविष्टो निःक्षत्त्रां भार्गवः पुरा
राम उवाच ।क्रोधादिदं कृतं कर्म्म मया मुनिवरोत्तमाः ।कथं कस्माद्विमुच्येऽहं पापात् क्षत्त्रवधादतः
इत्युक्ता धर्म्मतत्त्वज्ञाः पापानां पावनं परम् ।दानञ्चेह सुवर्णस्य ते तमूचुर्म्महर्षयः
एतत् पवित्रमतुलं सम्भूतमिह शुश्रुम ।शम्भोर्वीर्य्यात् परं तेजो ह्यपत्यं जातवेदसः
सहजं कार्त्तिकेयस्य रुद्रशुक्रसमुद्भवम् ।पवित्रं यत् सुरैः सर्व्वैर्धार्य्यन्ते मुकुटादिभिःअग्निस्तु देवताः सर्व्वाः प्रीयन्ते सर्व्वदेवताः ।तस्मात् सुवर्णं ददतां सुवर्णञ्च तदात्मकम्
दश पूर्व्वापरांश्चैव प्रोवाचेदं बृहस्पतिः ।सुवर्णं ये प्रयच्छन्ति नरकात्तारयन्ति ते
सर्व्वान कामान् प्रयान्त्येते पितामहसुतोऽव्र-वीत ।मरीचिर्भगवान् पूर्व्वं ये प्रयच्छन्ति काञ्चनम्
यः सुवर्णं नरो नित्यं ब्राह्मणेम्यः प्रयच्छति ।स चिरं विरजा विद्वान् देववद्दिवि मोदते
सर्व्वेषामेव दानानामेकजन्मानुगं फलम् ।हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम्
विद्यमानं सुवर्णं तु यो लोभान्न प्रयच्छति ।स सदा जनपापैस्तु वेष्टितो नरकं व्रजेत्
कृत्वापि सुमहत् पापं जातरूपं ददाति यः ।स सद्यस्तेन पापेन मुच्यते नात्र संशयः
एवं ज्ञात्वा तु श्रुत्यर्थं सुवर्णं देहि भार्गव ।तुलामारुह्य कायस्य समानमात्मनस्तथा
इत्युक्तो मुनिभिर्दिव्यै रामो धर्म्मभृतांवरः ।प्रादात् सुवर्णं विप्रेभ्यः ततः पापादमुच्यत
तस्मात्त्वमपि राजेन्द्र द्विजेभ्यो देहि काञ्चनम्विष्वक्सेनं समुद्दिश्य यदीच्छेः शाश्वतीं गतिम्
”इति वह्निपुराणे तुलापुरुषदाननामाध्यायः
*
अपि ।“सुवर्णदानं गोदानं भूमिदानं तथिव ।नाशयन्त्याशु पापानि महापातकजान्यपि
”इति प्रायश्चित्ततत्त्वम्
*
उत्सृष्टस्वर्णस्य गृहे चिरस्थापननिषेधो यथा, “न चिरं स्थापयेद्गेहे हेम संप्रोक्षितं बुधः ।तिष्ठत् भयावहं यस्मात् शोकव्याधिकरं नृणाम्
शीघ्रं परस्वीकरणात् श्रेयः प्राप्नोति पुष्कलम्
”संप्रोक्षितं पात्रमुद्दिश्य त्यक्तम् अतएव विष्णु-पुराणे ।“तस्मात् सर्व्वात्मना पात्रे दद्यात् कनकमुत्तमम्अपात्रे पातयेद्दत्तं सुवर्णं नरकार्णवे
प्रमादतस्तु तन्नष्टं तावन्मात्रं नियोजयेत् ।अन्यथा स्तेययुक्तः स्यात् हेम्न्यदत्ते विनाशिनि”तद्धेम त्राह्मणायोत्सृष्टं ब्राह्मणसादकृतं यदिचौरादिना अपह्रियते तदा तावदेव पुनरुत्-सृज्य देयमिति दानसागरः
*
तत्तु अग्नि-दैवतम् यथा, --“आग्नेयं कनकं प्रोक्तं सर्व्वलौहानि वाप्यथा”इति शुद्धितत्त्वम्
(अथास्य मारणविधिः ।“गलितस्य सुवर्णस्य षोडशांशेन सीसकम् ।योजयित्वा समुद्धृत्य निम्बुनीरेण मर्द्दयेत्
गोलं कृत्वा गन्धचूर्णं समं दद्यात्तदुपरि ।शरावसंपुटे कृत्वा पुटेत्त्रिंशद्वनोपलैः ।एवं मुनिपुटैर्हेम नोत्थानं लभते पुनः
”अस्य गुणाः ।“कषायं तिक्तमधुरं सुवर्णं गुरु लेखनम् ।हृद्यं रसायनं बल्यं चक्षुष्यं कान्तिदं शुचि
आयुर्म्मेधावयःस्थैर्य्यवाग्विशुद्धिस्मृतिप्रदम् ।क्षयोन्मादगराणाञ्च कुष्ठानां नाशनं परम्
”इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा-धिकारे
*
) हरिचन्दनम् इति मेदिनी
स्वर्णगैरिकम् इति रत्नमाला
धनम् इतिहेमचन्द्रः
नागकेशरम् इति राजनिर्घण्टः