| YouTube Channel

सुरेश्वरः (surezvaraH)

 
Apte Hindi
Hindi
सुरेश्वरः
पुं*
सुर-ईश्वरः -
इन्द्र का नाम
शब्दकल्पद्रुमः
Sanskrit
सुरेश्वरः,
पुं,
(सुराणामीश्वरः ।) रुद्रः इतिजटाधरः
(यथा, मात्स्ये २९ -- ३० ।“अजैकपादहिव्रध्नो विरूपाक्षोऽथ रैवतः ।हरश्च बहुरूपश्च त्र्यम्बकञ्च सुरेश्वरः
सावित्रश्च जयन्तश्च पिनाकी चापराजितः ।एते रुद्राः समाख्याता एकादश गणेश्वराः
”इन्द्रः यथा, रघुः ६४ ।“नरेन्द्रसूनुः प्रतिसंहरन्निषुंप्रियंवदः प्रत्यवदत् सुरेश्वरम्
”देवश्रेष्ठे, त्रि यथा, भागवते १५ ।“ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः ।वैण्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतःपादयोररविन्दञ्च तं वै मेने हरेः कलाम्
”सुरेश्वराचार्य्यः यथा, पञ्चदशी १९० ।“अन्योन्याध्यासमत्रापि जीवकूटस्थयोरिव ।ईश्वरब्रह्मणोः सिद्धं कृत्वा ब्रूते सुरेश्वरः
”)