| YouTube Channel

सुराष्ट्रः (surASTraH)

 
शब्दकल्पद्रुमः
Sanskrit
सुराष्ट्रः,
पुं,
(शोभनं राष्ट्रं यस्य ।) देशवि-शेषः सुरत् इति ख्यातः तु भारतवर्षस्यप्रतोच्यां दिशि वर्त्तते इति सौराष्ट्रिकशब्द-टीकायां भरतः
(यथा महाभारते ८८ १९ ।“सुराष्ट्रे ष्वपि वक्ष्यामि पुण्यान्यायतनानि
”श्रीरामचन्द्रस्य परिवारविशेषः तु श्रीराम-यन्त्रे पद्मदलमध्यतः पूज्यः यथा, अगस्त्य-संहितायाम् ।“धूम्रं जयन्तं विजयं सुराष्ट्रं राष्ट्रवर्द्धनम् ।अकोपं धूम्रपालाख्यं सुमन्त्रं दलमध्यतः
”इति तिथ्यादितत्त्वम्