| YouTube Channel

सुरसः (surasaH)

 
Apte Hindi
Hindi
सुरसः
पुं*
सु-रसः -
सिंधुवार पौधा
Wordnet
Sanskrit
Synonyms:
सिन्धुवारः, इन्द्रसुरसः, इन्द्राणी, इन्द्राणिका, चन्द्रसुरसः, निर्गुण्टी, निर्गुण्डी, निसिन्धुः, ननीलसिन्धुकः, श्वेतपुष्पः, श्वेतरावकः, सिन्धुरावः, सिन्धुवारकः, सिन्धुवारितः, सिन्धुकः, सुरसः, स्थिरसाधनकः, अर्थसिद्धकः
noun
एकः वृक्षः।
"सिन्धुवारस्य पत्राणि बीजाः औषध्यां प्रयुज्यन्ते।"
Synonyms:
निर्गुण्डी, शेफालिका, शेफाली, नीलिका, मलिका, सुवहा, रजनीहासा, निशिपुष्पिका, सिन्धुकः, सिन्द्रकः, सिन्द्ररावः, इन्द्रसुषिरः, इन्द्राणिका, सिन्धुवारः, इन्द्रसुरसः, निर्गुण्ठी, इन्द्राणी, पौलोमी, शक्राणी, कासनाशिनी, विसुन्धकः, सिन्धकम्, सुरसः, सिन्धुवारितः, सुरसा, सिन्धुवारकः
noun
षड् आरभ्य द्वाविंशतिः पादोन्नतः नित्यहरितक्षुपः यस्मिन् भवति तुवर्याः इव पञ्चपत्राणि एवं शाखायां लघूनि रोमाणि च।
"निर्गुण्ड्याः पत्रमूलानि तु औषधेषु उपयुज्यन्ते।"
Synonyms:
शीतसहा, सिन्धुवारकः, निर्गुण्डी, कपिका, स्थिरसाधनकः, सिन्धुकः, नीलसिन्धुकः, इन्द्रसुरसः, सिन्धुवारिका, श्वेतपुष्पः, निर्गुण्टी, चन्द्रसुरसः, सुरसः, सिन्धुरावः, नीलाशी, सिन्धुवारितः, श्वेतरावकः, निसिन्धुः, सिन्धुवारः, शेपालः, निर्गुण्डिः, सिन्दुवारः, निसिन्धुकः, नीलकः, अर्थसिद्धकः, इन्द्राणिका, इन्द्राणी, श्वेतसुरसा
noun
कुन्दजातीया श्वेतपुष्पविशिष्टा लता।
"शीतसहा वर्षाकाले विकसति।"
शब्दकल्पद्रुमः
Sanskrit
सुरसः,
पुं,
(शोभनो रसो यस्य ।) सिन्धुवारः ।इति शब्दरत्नावली
(अस्य पर्य्यायो यथा, --“इन्द्राणी चेन्द्रः सुरसो निगुण्डी श्वेतवारकः
”इति वैद्यकरत्नमालायाम्
)मोचरसः इति राजनिर्घण्टः
(पीतशालः ।अस्य पर्य्यायो यथा, --“सुरसो बीजकश्चैव पीतशालोऽभिधीयते
”इति गारुडे २०८ अध्यायः
तुलसीविशेषः अस्य गुणा यथा, --“हिक्काकासविषश्वासपार्श्वशूलविनाशनः ।पित्तकृत्कफवातघ्नः सुरसः पूतिगन्धनुत्
”इति चरके सूत्रस्थाने २७ अध्यायः
“कफानिलविषश्वासकासदौर्गन्ध्यनाशनः ।पित्तकृत् पार्श्वशूलघ्नः सुरसः समुदाहृतः
”इति सुश्रुते सूत्रस्थाने ४६ अध्यायः
)
सुरसः, त्रि, (शोभनो रसो यस्य ।) स्वादुः इतिमेदिनी
सुन्दररसयुक्तश्च (यथा, बृहत्-संहितायाम् ५४ १०३ ।“तस्यां प्रभूतं सुरसञ्च तोयंकृष्णाथवा यत्र रक्तमृत् वा
”)
कृदन्तरूपमाला
Sanskrit
1 {@“रस आस्वादनस्नेहनयोः”@} 2 अदन्तः।
‘शब्दे शपि रसेत्, स्नेहास्वादयो रसयेद्रसेः।’ 3 इति देवः।
रसकः सिका, रिरसयिषकः-षिका
रसयिता-त्री, रिरसयिषिता-त्री
4 रसयन्-न्ती, रिरसयिषन्-न्ती
रसयिष्यन्-न्ती-ती, रिरसयिषिष्यन्- न्ती-ती
रसयमानः, रिरसयिषमाणः, रसयिष्यमाणः, रिरसयिषिष्यमाणः, सुरः-सुरसौ-सुरसः
रिरसयिट्-यिषौ-यिषः, रसितम्-तः, रिरसयिषि- तम्-तः-तवान्
5 रसः, विरसः, सुरसः, सुरसी, रिरसयिषुः
रसयि- तव्यम्, रिरसयिषितव्यम्
रसनीयम्, रिरसयिषणीयम्
रस्यम्, रिरसयिष्यम्, ईषद्रसः-दूरसः-सुरसः
रस्यमानः, रिरसयिष्यमाणः, रसः, रिरसयिषः, रसयितुम्, रिरसयिषितुम्
रसना, रिरसयिषा, रसनम्, रिरसयिषणम्, रसयित्वा, रिरसयिषित्वा
6 प्ररसय्य, प्ररिरसयिष्य, रसम् २, रसयित्वा २, रिरसयिषम् २, रिरसयिषित्वा
इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३८५)
02
=>
(१०-चुरादिः-१९३१। सक। सेट्। उभ।)
03
=>
(श्लो। १९३)
04
=>
[[आ। ‘देवौघे हृतदुःखने रसयति व्याकर्षदेनं क्षितौ।।’ धा। का। ३। ६२।]]
05
=>
[[१। रस्यन्ते आस्वाद्यन्तेऽनेन इति ‘एरच्’ (३-३-५६) इति अचि रूपम्। घञ् वा इति केचित्।]]
06
=>
[[२। ‘ल्यपि लघुपूर्वात्’ (६-४-१६) इति णेरयादेशः।]]