| YouTube Channel

सुरभिः (surabhiH)

 
Apte Hindi
Hindi
सुरभिः
पुं*
- सु + रभ् + इन्
"सुगंध, खुशबू, सुवास"
सुरभिः
पुं*
- सु + रभ् + इन्
जायफ़ल
सुरभिः
पुं*
- सु + रभ् + इन्
साल वृक्ष की राल या कोई भी राल
सुरभिः
पुं*
- सु + रभ् + इन्
चम्पक वृक्ष
सुरभिः
पुं*
- सु + रभ् + इन्
शमी वृक्ष
सुरभिः
पुं*
- सु + रभ् + इन्
कदंब का पेड़
सुरभिः
पुं*
- सु + रभ् + इन्
एक प्रकार की सुगंधित घास
सुरभिः
पुं*
- सु + रभ् + इन्
वसन्त ऋतु
सुरभिः
स्त्री*
- सु + रभ् + इन्
लोबान का वृक्ष
सुरभिः
स्त्री*
- सु + रभ् + इन्
तुलसी
सुरभिः
स्त्री*
- सु + रभ् + इन्
मोतिया
सुरभिः
स्त्री*
- सु + रभ् + इन्
"एक प्रकार की सुगम्ध, या सुगंधित पौधा"
सुरभिः
स्त्री*
- सु + रभ् + इन्
मदिरा
सुरभिः
स्त्री*
- सु + रभ् + इन्
पृथ्वी
सुरभिः
स्त्री*
- सु + रभ् + इन्
गाय
सुरभिः
स्त्री*
- सु + रभ् + इन्
समृद्धि देने में प्रसिद्ध गाय
सुरभिः
स्त्री*
- सु + रभ् + इन्
मातृकाओं में से एक
सुरभिः
नपुं*
- सु + रभ् + इन्
"मधुरगंध, सुवास, खुशबू"
सुरभिः
नपुं*
- सु + रभ् + इन्
"गंधक, सोना"
Wordnet
Sanskrit
Synonyms:
रुद्रजटा, रौद्री, जटा, रुद्रा, सौम्या, सुगन्धा, सुवहा, घना, ईश्वरी, रुद्रलता, सुपत्रा, सुगन्धपत्रा, सुरभिः, पत्रवल्ली, जटावल्ली, रुद्राणी, नेत्रपुष्करा, महाजटा, जटारुद्रा
noun
क्षुपविशेषः।
"रुद्रजटायाः पर्णानि मयूरशिखायाः पर्णानि इव भवन्ति।"
Synonyms:
शमी, सक्तुफला, शिवा, शक्तुफला, शक्तुफली, शान्ता, तुङ्गा, कचरिपुफला, केशमथनी, ईशानी, लक्ष्मीः, तपनतनया, इष्टा, शुभकरी, हविर्गन्धा, मेध्या, दुरितदमनी, शक्तुफलिका, समुद्रा, मङ्गल्या, सुरभिः, पापशमनी, भद्रा, शङ्करी, केशहन्त्री, शिवाफला, सुपत्रा, सुखदा, जीवः
noun
वृक्षविशेषः।
"शम्याः काष्ठस्य उपयोगः पूजाकार्येषु भवति।"
Synonyms:
बकूलः, अगस्त्यः, वकवृक्षः, केसरः, केशरः, सिंहकेसरः, वरलब्धः, सीधुगन्धः, मुकूलः, मुकुलः, स्त्रीमुखमधुः, दोहलः, मधुपुष्पः, सुरभिः, भ्रमरानन्दः, स्थिरकुसुमः, शारदिकः, करकः, सीसंज्ञः, विशारदः, गूढपुष्यकः, धन्वी, मदनः, मद्यामोदः, चिरपुष्पः, करहाटकः, करहाटः, स्त्रीमुखमधुदोहदः, स्त्रीमुखमधुदोहलः, स्त्रीमुखपः, शीतगन्धा, धन्वः, सीधुगन्धः, करकः, केसरः, चिरपुष्पः, मुकुरः, दन्तधावनः
noun
वृक्षविशेषः, पुष्पष्पवृक्षविशेषः आयुर्वेदे अस्य गुणाः शीतलत्वहृद्यत्वविषदोषनाशित्वम्।
"बकूलस्य फलम् दन्तस्थैर्यकरम् अस्ति।"
Synonyms:
वसन्तः, पुष्पसमयः, सुरभिः, मधुः, माधवः, फल्गः, ऋतुराजः, पिकानन्दः, कान्तः, कामसखः
noun
ऋतुविशेषः यस्य कालः माघमासस्य द्वितीयपक्षात् आरभ्य चैत्रमासस्य प्रथमपक्षपर्यन्तम् अस्ति।
"वसन्तो ऋतुराजः इति कवयः।"
Synonyms:
तुलसी, सुभगा, तीव्रा, पावनी, विष्णुवल्लभा, सुरेज्या, सुरसा, कायस्था, सुरदुन्दुभिः, सुरभिः, बहुपत्री, मञ्जरी, हरिप्रिया, अपेतराक्षसी, श्यामा, गौरी, त्रिदशमञ्जरी, भूतघ्नी, भूतपत्री, वैष्णवी, पुण्या, माधवी, अमृता, पत्रपुष्पा, वृन्दा, मरुवकः, समीरणः, प्रस्थपुष्पः, फणिझकः, पर्णासः, जम्भीरः, कठिञ्जरः, कुठेरकः, अर्ज्जकः, कुलसौरभम्, लक्ष्मी
noun
वृक्षविशेषः यः पवित्रः अस्ति तथा यस्य पर्णानि गन्धयुक्तानि सन्ति।
"तुलस्याः पर्णानि ओषधिरूपेण उपयुज्यन्ते।"
Synonyms:
गौः, माहेषी, सौरभेयी, उस्रा, माता, शृङ्गिणी, अर्जुनी, अघ्न्या, रोहिणी, माहेन्द्री, इज्या, धेनुः, अघ्ना, दोग्ध्री, भद्रा, भूगिमही, अनडुही, कल्याणी, पानवी, गौरी, सुरभिः, मबा, निलिनाचिः, सुरभी, अनड्वाही, अधमा, बहुला, मही, सरस्वती, उस्रिया, अही, अदितिः, इला, जगती, शर्करी
noun
ग्राम्यपशुविशेषः, यः सास्नालाङ्गुलककुदखुरविषाणी तथा तस्याः दुग्धं मनुष्याय पुष्टीकारकम् इति मन्यन्ते।
"हिन्दुधर्मीयाणां कृते गौः अवध्या अस्ति।"
Synonyms:
चम्पकः, चाम्पेयः, हेमपुष्पकः, स्वर्णपुष्पः, शीतलछदः, सुभगः, भृङ्गमोही, शीतलः, भ्रमरातिथिः, सुरभिः, दीपपुष्पः, स्थिरगन्धः, अतिगन्धकः, स्थिरपुष्पः, हेमपुष्पः, पीतपुष्पः, हेमाह्वः, सुकुमारः, वनदीपः, कषायः
noun
वृक्षविशेषः सः वृक्षः यस्य पुष्पाणि पीतवर्णीयानि सुगन्धितानि सन्ति।
"तस्य प्राङ्गणे चम्पकः कुन्दम् इत्यादीनि सन्ति।"
Synonyms:
कदम्बः, नीपः, प्रियकः, हलिप्रियः, कादम्बः, षट्पदेष्टः, प्रावृषेण्यः, हरिप्रियः, जीर्णपर्णः, वृत्तपुष्पः, सुरभिः, ललनाप्रियः, कादम्बर्यः, सीधुपुष्पः, महाढ्यः, कर्णपूरकः, वज्रः
noun
वृक्षविशेषः। यस्य रक्तवर्णीयानि पुष्पाणि वृत्तानि सन्ति अस्य गुणाः तिक्तत्वम् कटुत्वम् कषायत्वम् वातपित्तकफार्तिनाशित्वम् शीतलत्वम् शुक्रवर्धनञ्च।
"कतिपयकुसुमोद्गमः कद्मबः।
Synonyms:
सुगन्धः, सुगन्धिः, सुवासः, आमोदः, परिमलः, सुरभिः, सौरभ्यम्, सौरभम्, गन्धः, वासः, मोदः
noun
सुगन्धितं द्रव्यम्।
"पुष्पात् सुगन्धः निर्मीयते।"
Synonyms:
सुगन्धः, सुगन्धम्, सुरभिः, घ्राणतर्पणः
noun
शोभनो गन्धः।
"चन्दनतरोः सुगन्धम् दूरात् अपि घ्रातुं शक्यते।"
Synonyms:
सुरभिः
noun
वनस्पतिनामविशेषः
"सुरभिः इति नैकेषां वनस्पतिनां नाम अस्ति"
वैजयन्तीकोषः
Sanskrit
Word: सुरभिः
Root: सुरभि
Gender: पुं
Number: all
अर्थः यूपाधानाग्निः
Meaning(s):
Fire at the fixing of the sacrificial post
Shloka(s):
1|2|26|1 आधानादिष्वहस्तानः सुरभिर्यूपकर्मणि। (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
1|2|26|1 सुरभिः (सुरभि) (पुं) Fire at the fixing of the sacrificial post यूपाधानाग्निः
Related word(s):
परा_अपरासंबन्धः अहस्तानः
जातिः इन्धनजम्
Tamil
Tamil
ஸுரபி4: : நல்ல மணம், சம்பக மரம், கடம்ப மரம், பொன், வசந்த காலம், ஜாதிக்காய், பசு, காமதேனு, துளசி, பூமி, மதுபானம், கந்தகம்.
शब्दकल्पद्रुमः
Sanskrit
सुरभिः,
पुं,
(सु + रभ + इन् ।) सुगन्धिः इत्य-मरः ११
चम्पकः वसन्तर्त्तुः ।जातीफलवृक्षः इति मेदिनी
शमीवृक्षः ।कदम्बवृक्षः कणगुग्गुलुः गन्धतृणम् ।वकुलवृक्षः रालः इति राजनिर्घण्टः
चैत्रमासः धीरः इति धरणिः
गन्धफलः ।इति शब्दरत्नावली
सुरभिः,
स्त्री,
(सुर + रभ + इन् ।) शल्लकी ।मातृभेदः मुरा गीः इति मेदिनी
पुस्त-कान्तरे मुरास्थाने सुरा इति पाठः रुद्रजष्टा ।वनमालिका तुलसी पाची इति राज-निर्घण्टः
पृथिवी इति धरणिः
गोमाता ।(यथा, रघुः ८१ ।“सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः ।आराधय सपत्नीकः प्रीता कामदुघा हि सा
”तस्या उत्पत्त्यादिर्यथा, --नारद उवाच ।“सा का वा सुरभी देवी गोलोकादागता यातज्जन्मचरितं ब्रह्मन् श्रोतुमिच्छामि तत्त्वतः
श्रीनारायण उवाच ।गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः ।गवां प्रधाना सुरभी गोलोके सा समुद्भवा
सर्व्वादिसृष्टिकथनं कथयामि निशामय ।बभूव येन तज्जन्म पुरा वृन्दावने वने
एकदा राधिकानाथो राधया सह कौतुकात् ।गोपाङ्गनापरिवृतः पुण्यं वृन्दावनं ययौ
सहसा तत्र रहसि विजहार कौतुकात् ।बभूव क्षीरपानेच्छा तदा स्वेच्छामयस्य
ससृजे सुरभिं देवो लीलया वामपार्श्वतः ।वत्सयुक्तां दुग्धवतीं वत्सो नाम्ना मनोरथः
दृष्ट्वा सवत्सां मुदामा रत्नभाण्डे दुदोह ।क्षीरं सधातिरिक्तञ्च जन्ममृत्युजरापहम्
तदुष्णञ्च पयः स्वादु पपौ गोपीपतिः स्वयम् ।सरो बभूव पयस्रा भाण्डविस्रं शनेन
दैर्घे विस्तृते चैव परितः शतयोजनम् ।गोलोके सुप्रसिद्धश्च क्षीरसरोवरः
गोपिकानाञ्च राधायाः क्रीडावापी बभूव सा ।रत्नेन खचिता तूर्णं भूता वापीश्वरेच्छया
बभूवुः कामधेनूनां सहसा लक्षकोटयः ।तावन्तो हि वत्माश्च सुरभीलोमकूपतः ।तासां पुत्त्राः प्रपौत्त्राश्च सम्बभूवुरसंख्यकाः ।कथिता गवां सृष्टिस्तया पूजितं जगत्
पूजाञ्चकार भगवान् सुरभ्याश्च पुरा मुने ।ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा
दीपान्वितापरदिने श्रीकृष्णस्याज्ञया हरेः ।बभूव सुरभीपूजा धर्म्मवक्त्रादिति श्रुतम्
ध्यानं स्तोत्रं मूलमन्त्रं यद्यत् पूजाविधिक्रमम् ।वेदोक्तञ्च महाभाग निबोध कथयामि ते
ओँ सुरभ्यै नम इति मन्त्रस्तस्याः षडक्षरः ।सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः
ध्यानं यजुर्व्वेदोक्तं तत् पूज्यञ्च सर्व्वसम्मतम् ।ऋद्धिदं वृद्धिदञ्चैव मुक्तिदं सर्व्वकामदम्
लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् ।गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम्
पवित्ररूप्रां पूज्याञ्च भक्तानां सर्व्वकामदाम् ।यथा पूतं सर्व्वविश्वं तां देवीं सुरभीं भजे
घटे वा धेनुशिरसि बद्धस्तम्भे गवामपि ।शालग्रमे जले वाग्नौ सुरभीं पूजयेद्द्विजः ।दीपान्वितापरदिने पूर्व्वाह्ले भक्तिसंयुतः ।यः पूजयेच्च सुरभिं पूज्यो भवेद्भुवि
एकदा त्रिषु लोकेषु वाराहे विष्णुमायया ।क्षीरं जहार सहसा चिन्तिताश्च सुरादयः
ते गत्वा ब्रह्मलोकञ्च ब्रह्माणं तुष्टुवुस्तदा ।तदाज्ञया सुरसीं तुष्टाव पाकशासनः
महेन्द्र उवाच ।नमो देव्यै महादेव्यै सुरभ्यै नमो नमः ।गवां वीजस्वरूपायै नमस्ते जगदम्बिके
नमो राधाप्रियायै पद्मेशायै नमो नमः ।नमः कृष्णप्रियायै गवां मात्रे नमो नमः
कल्पवृक्षस्वरूपायै सर्व्वेषां सन्ततं परम् ।श्रीदामधनदायै वृद्धिदायै नमो नमः ।यशोदायै कीर्त्तिदायै धर्म्मदायै नमो नमः
स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः ।आविर्ब्बमूव तत्रैव ब्रह्मलोके सनातनी
महेन्द्राय वरं दत्त्वा वाञ्छितञ्चातिदुर्लभम् ।जगाम सा गोलोकं ययुर्देवादयो गृहम्
बभूव विश्वं सहसा दुग्धपूर्णञ्च नारद ।दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।स गोमान् धनवांश्चैव कीर्त्तिमान् पुण्यवान्भवेत्
स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः ।इह लोके सुखं भुक्ता यात्यन्ते कृष्णमन्दिरम्
सुचिरं निवसेत्तत्र करोति कृष्णसेवनम् ।न पुनर्भव्रनं तस्य ब्रह्मपुत्त्र भवे भवेत्
”इति श्रीब्रह्मवैवर्त्ते प्रकृतिखण्डे सुरभ्युपाख्यानंनाम ४७ अध्यायः
सुरभिः, त्रि, (सु + रभ + इन् ।) सुगन्धिः ।(यथा, मनुः २०९ ।“उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सितान् ।गन्धमाल्यैः सुरभिभिरर्च्चयेद्देवपूर्व्वकम्
”)कान्तम् इति मेदिनी
(यथा, रघुः ।“निवर्त्त्य राजा दयितां दयालु-स्तां सौरभेयीं सुरभिर्यशोभिः ।पयोधरीभूतचतुःसमुद्रांजुगोप गोरूपधरामिवोर्व्वीम्
”)धीरः विख्यातः इति धरणिः