| YouTube Channel

सुरद्विट् (suradviT)

 
Wordnet
Sanskrit
Synonyms:
असुरः, दैत्यः, दैतेयः, दनुजः, इन्द्रारिः, दानवः, शुक्रशिष्यः, दितिसुतः, पूर्वदेवः, सुरद्विट्, देवरिपुः, देवारिः, कौणपः, क्रव्यात्, क्रव्यादः, अस्रपः, आशरः, रात्रिञ्चरः, रात्रिचरः, कव्वूरः, निकषात्मजः, यातुधानः, पुण्यजनः, नैर्ऋतः, यातुः, रक्षः, सन्ध्याबलः, क्षपाटः, रजनीचरः, कीलापाः, नृचक्षाः, नक्तञ्चरः, पलाशी, पलाशः, भूतः, नीलाम्बरः, कल्माषः, कटप्रूः, अगिरः, कीलालपः, नरधिष्मणः, खचरः
noun
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा देवानां ऋषीणां शत्रवः आसन्।
"पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।"
शब्दकल्पद्रुमः
Sanskrit
सुरद्विट्, [ष्]
पुं,
सुरान् द्वेष्टीति द्विष् +क्विप् ।) असुरः इत्यमरः १२
(यथा, रघुः १० १५ ।“प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् ।अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम्
”राहुः यथा, तत्रैव ३९ ।“उपस्थिता शोणितपारणा मेसुरद्विषश्चान्द्रमसी सुधेव
”तथाच बृहत्संहितायाम् ९७ ।“पड्भिः सितस्य मासैरब्दन शनेः सुरद्विषो-ऽब्दार्द्धात्
”)देवद्वेषकः
(यथा, भागवते २४ ।“ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् ।बुद्धो नामाञ्जनसुतः कीकटेषु भविष्यति
”)