| YouTube Channel

सुरथः (surathaH)

 
शब्दकल्पद्रुमः
Sanskrit
सुरथः,
पुं,
चन्द्रवंशीयचैत्रराजपुत्त्रः यथा, --श्रीनारायण उवाच ।“अत्रिश्च ब्रह्मणः पुत्त्रस्तस्य पुत्त्रो निशाकरः ।स कृत्वा राजसूयं द्विजराजो बभूव
गुरुपत्न्याञ्च तारायां तद्बु भूव बुधः सुतः ।बुधपुत्त्रश्च चैत्त्रश्च तत्पुत्त्रः सुरथश्च सः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५८ --
सच स्वारोचिषमन्वन्तरे कोलापुर्य्यधिपतिः ।तेनादौ पृथिव्यां दुर्गापूजा कृता तत्प्रसादेनच असौ सावर्णिर्नाम मनुर्जातः यथा, --“कालान्तरे पूजिता सा सुरथेन महात्मना ।राज्ञा मेधसशिष्येण मृण्मय्याञ्च सरित्तटे
मेषादिभिश्च महिषैः कृष्णसारैश्च गण्डकैः ।छागैर्मोनैश्च कुष्माण्डैः पक्षिभिर्बलिभिर्म्भुने
वेदोक्तानि दत्त्वैव उपचाराणि षोडश ।धृत्वा कवचं ध्यात्वा संपूज्य विधानतः
राजा कृत्वा परीहारं वरं प्राप यथेप्सितम् ।मुक्तिं संप्राप वैश्यश्च संपूज्य सरित्तटे
तुष्टाव राजा वैश्यश्च साश्रुनेत्रः पुटाञ्जलिः ।विससर्ज मृण्मयीं तां गभीरे निर्म्मले जले
तृण्मयीं मृण्मयीं दृष्ट्वा जलधौतां नराधिपः ।रुरोद तत्र वैश्यश्च ततः स्थानान्तरं ययौ
त्यक्त्वा देहञ्च वैश्यश्च पुष्करे दुष्करं तपः ।कृत्वा जगाम गोलोकं दुर्गादेवीवरेण
राजा ययौ स्वराज्यञ्च पूज्यो निष्कण्टकं बलीभोगञ्च बुभुजे भूपः षष्टिवर्षसहस्रकम्
भार्य्यां स्वराज्यं संन्यस्य पुत्त्रे कालयोगतः ।मनुर्बभूव सावर्णिस्तप्त्वा पुष्करे तपः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः
*
विस्तारस्तु दुर्गाशब्दे द्रष्टव्यः