| YouTube Channel

सुरः-सुरसौ-सुरसः (suraH-surasau-surasaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रस शब्दे”@} 2 ‘शब्दे शपि रसेत्, स्नेहास्वादयो रसयेद्रसेः।’ 3 इति देवः।
रासकः-सिका, रासकः-सिका, रिरसिषकः-षिका, रारसकः-सिका
रसिता-त्री, रासयिता-त्री, रिरसिषिता-त्री, रारसिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककशतिवत् 4 बोध्यानि।
क्विपि सुरः-सुरसौ-सुरसः
5 रसमानः- 6 7 रसः, वेदरासी, 8 रारस्यमानः
9 रस्नम्, अस्य धातोः इमानि रूपाण्यधिकानीति विशेषः।
10
प्रासङ्गिक्यः
01
=>
(१३८४)
02
=>
(१-भ्वादिः-७१३। अक। सेट्। पर।)
03
=>
(श्लोः १९३)
04
=>
(१७८)
05
=>
[[१। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति ताच्छील्ये चानश्प्रत्यये रूपमेवम्।]]
06
=>
[[आ। ‘परिरम्भरुचिं ततिर्जलानामभिनद्धा रसम नसारसेन।।’ शि। व। ६-७५।]]
07
=>
[[२। पचाद्यचि (३-१-१३४) रूपमेवम्।]]
08
=>
[[B। ‘उच्चै रारस्यमानां तां कृपणां रामलक्ष्मणौ।’ भ। का। ५-९६।]]
09
=>
[[३। ‘तृषिशुषुरसिभ्यः कित्’ (द। उ। ५-४४) इति नप्रत्यये रूपम्। कित्त्वाद् वृद्धिः। रसतीति रस्नम् = द्रव्यजातिः।]]
10
=>
[पृष्ठम्११०९+ २७]
1 {@“रस आस्वादनस्नेहनयोः”@} 2 अदन्तः।
‘शब्दे शपि रसेत्, स्नेहास्वादयो रसयेद्रसेः।’ 3 इति देवः।
रसकः सिका, रिरसयिषकः-षिका
रसयिता-त्री, रिरसयिषिता-त्री
4 रसयन्-न्ती, रिरसयिषन्-न्ती
रसयिष्यन्-न्ती-ती, रिरसयिषिष्यन्- न्ती-ती
रसयमानः, रिरसयिषमाणः, रसयिष्यमाणः, रिरसयिषिष्यमाणः, सुरः-सुरसौ-सुरसः
रिरसयिट्-यिषौ-यिषः, रसितम्-तः, रिरसयिषि- तम्-तः-तवान्
5 रसः, विरसः, सुरसः, सुरसी, रिरसयिषुः
रसयि- तव्यम्, रिरसयिषितव्यम्
रसनीयम्, रिरसयिषणीयम्
रस्यम्, रिरसयिष्यम्, ईषद्रसः-दूरसः-सुरसः
रस्यमानः, रिरसयिष्यमाणः, रसः, रिरसयिषः, रसयितुम्, रिरसयिषितुम्
रसना, रिरसयिषा, रसनम्, रिरसयिषणम्, रसयित्वा, रिरसयिषित्वा
6 प्ररसय्य, प्ररिरसयिष्य, रसम् २, रसयित्वा २, रिरसयिषम् २, रिरसयिषित्वा
इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३८५)
02
=>
(१०-चुरादिः-१९३१। सक। सेट्। उभ।)
03
=>
(श्लो। १९३)
04
=>
[[आ। ‘देवौघे हृतदुःखने रसयति व्याकर्षदेनं क्षितौ।।’ धा। का। ३। ६२।]]
05
=>
[[१। रस्यन्ते आस्वाद्यन्तेऽनेन इति ‘एरच्’ (३-३-५६) इति अचि रूपम्। घञ् वा इति केचित्।]]
06
=>
[[२। ‘ल्यपि लघुपूर्वात्’ (६-४-१६) इति णेरयादेशः।]]