| YouTube Channel

सुमेरुः (sumeruH)

 
Apte Hindi
Hindi
सुमेरुः
पुं*
सु-मेरुः -
‘सुमेरु’ नाम का पवित्र पर्वत
सुमेरुः
पुं*
सु-मेरुः -
शिव का नाम
Wordnet
Sanskrit
Synonyms:
सुमेरुः
noun
मात्राछन्दोविशेषः।
"सुमेरोः प्रत्येकस्मिन् चरणे सप्तदश मात्राः सन्ति।"
Synonyms:
सुमेरुः, मेरुः, हेमाद्रिः, रत्नसानुः, सुरालयः, अमराद्रिः, भूस्वर्गः
noun
धर्मग्रन्थेषु वर्णितः सः पर्वतः यः पर्वतानां राजा अस्ति इति मन्यते।
"सुमेरुः सुवर्णस्य अस्ति इति मन्यते।"
Synonyms:
सुमेरुः
noun
एकः विद्याधरः
"सुमेरोः उल्लेखः कथासरित्सागरे वर्तते"
Synonyms:
सुमेरुः
noun
एकः पर्वतः
"सुमेरोः उल्लेखः बौद्धसाहित्ये वर्तते"
शब्दकल्पद्रुमः
Sanskrit
सुमेरुः,
पुं,
(सुष्ठुमिनोति क्षिपति ज्योतींषि इतिसु + मि + “मिपीभ्यां रुः ।” उणा० १०१ ।रुः ।) पर्व्वतविशेषः तत्पर्य्यायः मेरुः २हेमाद्रिः रत्नसानुः सुरालयः इत्य-मरः ५२
अमराद्रिः भूस्वर्गः ।इति जटाधरः
तद्विवरणं यथा, --“एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्यनाभ्यामवस्थितः सर्व्वतः सौवर्णः कुलगिरि-राजो मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतःकुवलयकमलस्य मूर्द्धनि द्वात्रिंशत्सहस्रयोजन-विततो मूले षोडशसहस्रं तावतान्तर्भूम्यांप्रविष्टः
“मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुत-योजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भ-गिरय उपकॢप्ताः
११
चतुर्षु एतेषु चूतजम्बूकदम्बन्यग्राधाः चत्वारःपादपप्रवराः पर्व्वतकेतव इवाधिसहस्रयोजनो-न्नाहास्तावद्विटपविततयः शतयोजनपरि-णाहाः
१२
ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजलाःयदुपस्पर्शिन उपदेवगणा योगैश्वर्य्याणि स्वाभा-विकानि भारतर्षभ धारयन्ति
१३
देवोद्यानानि भवन्ति चत्वारि नन्दनंचैत्ररथं वैभ्राजकं सर्व्वतोभद्रमिति
१४
“मेरोर्मूर्द्धनि भगवत आत्मयोनेर्मध्यत उप-कॢप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रांशातकौम्भीं वदन्ति
२८
तामनुपरितो लोकपालानामष्टानां यथादिशंसथारूपं तुरीयमानेन पुरोऽष्टावुपकॢप्ताः ।” २९
इति श्रीभागवते स्कन्धे १६ अध्यायः
“अस्मिन्नैन्द्रीं पुरीं पूर्व्वस्यां मेरोर्देवधानींनाम दक्षिणतो याम्यां संयमनीं नाम पश्चा-द्वारुणीं निम्नोचनीं नाम उत्तरतः सौम्यांविभावरीं नाम ।” इति तत्रैव २१
*
अपि त्र ।“परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्व्वतः ।चातुर्व्वर्णः सौवर्णश्चतुरस्रः समुच्छ्रितः
नानावर्णः पार्श्वे तु पूर्व्वान्ते श्वेत उच्यते ।पीतन्तु दक्षिणं तत्र भृङ्गपत्रनिभं परम्
उत्तरं तस्य रक्तं वै इति वर्णसमन्वितः ।मेरुस्तु शुशुभे दिव्यो राजवत् समधिष्ठितः
आदित्यतरुणाभासो विधूम इव पावकः ।योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः
प्रविष्टः षोडशाधस्तादष्टाविंशतिविंशतिः ।विस्तारात्त्रिगुणस्तस्य परिणाहः समन्ततः
पर्व्वतो महादिव्यो दिव्यौषधिसमन्वितः ।भुवनैरावृतः सर्व्वैर्जातरूपपरिष्कृतैः
तत्र देवगणाः सर्व्वे गन्धर्व्वोरगराक्षसाः ।शैलराजे प्रमोदन्ते सर्व्वतोऽप्सरसस्तथा
तु मेरुः परिवृतो भुवनैर्भूतभावनैः ।यस्येमे चतुरो देशा नानापार्श्वेषु संस्थिताः
भद्राश्वो भारतश्चैव केतुमालश्च पश्चिमे ।उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः
विष्कम्भपर्व्वतास्तद्वन्मन्दरो गन्धमादनः ।विपुलश्च सुपार्श्वश्च सर्व्वरत्नविभूषितः
”इति मात्स्ये ९५ अध्यायः
*
किञ्च ।“मध्ये पृथिव्यामद्रीन्द्रो भास्वान् मेरुर्हिरण्मयःयोजननां सहस्राणि चतुरशीतिः समुच्छ्रितः
प्रविष्टः षोडशाधस्ताद्धरण्यां धरणीधरः ।तावत्प्रमाणा पृथिवी पर्व्वतश्च समन्ततः
तस्य शृङ्गत्रयं मूर्द्ध्नि स्वर्गो यत्र प्रतिष्ठितः ।नानाद्रुमलताकीर्णं नानारत्नीपशोभितम्
मध्यगं पश्चिमं पूर्व्वं मेरोः शृङ्गाणि त्रीणि वै ।प्रयुतोच्छ्रितमात्राणि द्वे शृङ्गे तस्य मध्यतः
मध्यस्थं स्फाटिकं शृङ्गं वैदूर्य्यकरकामयम् ।इन्द्रनीलमयं पूर्व्वं माणिक्यं पश्चिमं स्मृतम्
योजनानां सहस्राणि नियुतानि चतुर्दश ।उच्छ्रितं मध्यगं शृङ्गं स्वर्गो यत्र प्रतिष्ठितः
प्रयुतान्तरितं शृङ्गं मूर्द्ध्रि च्छत्राकृति स्थितम् ।पूर्व्वमध्यमशृङ्गाणां सकलं मध्यमस्य
त्रिपृष्टो नाकपृष्ठो वा अप्सरःशान्तिनिर्वृती ।आनन्दोऽथ प्रमोदश्च स्वर्गाः शृङ्गे मध्यमे
श्वेतश्च पौष्टिकश्चैव उपशोभनमन्मथौ ।आह्लादः स्वर्गराजश्च स्वर्गाः शृङ्गे तु पश्चिमे
निर्म्ममो निरहङ्कारः सौभाग्यश्चातिनिर्म्मलः ।स्वर्माश्चैते द्विजश्रेष्ठ पूर्व्वशृङ्गे समर्थिताः
एकविंशत्यमी स्वर्गा निविष्टा मेरुमूर्द्धनि
*
अहिंसादानकर्त्ता यज्ञानां तपसां तथा ।तेषु तेषु वसन्ति स्म जनाः क्रोधविवर्ज्जिताः ।जलप्रवेशी चानन्दं प्रमोदं वह्निसाहसः
भृगुप्रपाते सौम्यस्तु रणे चैवास्य निर्म्मलः
अनशने तु संवासे मृतो गच्छेत्त्रिपिष्टपम् ।क्रतुयाजी नाकपृष्ठमग्निहोत्री निर्वृतिम्
तडागकूपकर्त्ता लभते पौष्टिकं द्विज ।सौवर्णदायी सौभाग्यं लभेत् स्वर्गं महातपाः
शीतकाले महावह्निं प्रज्वालयति यो नरः ।सर्व्वसत्त्वहितार्थाय स्वर्गं चाप्सरसं लभेत्
हिरण्यगोप्रदानेन निरहङ्कारमाप्नु यात् ।भूमिदानेन शुद्धेन लभते शान्तिकं पदम्
रौप्यदानेन शुद्धेन स्वर्गं गच्छति निर्म्मलम् ।अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम्
द्विजेभ्यस्तर्पणं कृत्वा दत्त्वा वस्त्राणि भक्तितः ।श्वेतन्तु लभते स्वर्गं यत्र गत्वा शोचति
कपिलागोप्रदानेन परार्द्ध ञ्चानुभूयते ।गोवृषस्य प्रदानेन स्वर्गं मन्मथमश्नुते
पुमान् सरित्स्नायी तिलधेनुप्रदस्तथा ।छत्रोपानहदाता स्वर्गं तत्फलशोभनम्
देवायतनकर्त्तारो शुश्रू षणपरस्तथा ।तीर्थयात्रापरश्चैव स्वर्गराजे महीयते
एकान्नभोजी यो मर्त्यो नक्तभोजी नित्यशःउपवासी त्रिरात्राद्यैः शान्तस्वर्गं शुभं लभेत्
सरित्स्नायी जितक्रोधो ब्रह्मचारी दृढव्रतः ।निर्म्मलं स्वर्गमाप्नोति तथा भूतहिते रतः ।विद्यादानेन मेधावी निरहङ्कारमाप्नु यात्
येन येन हि भावेन यद्यद्दानं प्रयच्छति ।तत्तत् स्वर्गमवाप्नोति यद्यदिच्छति मानवः
यस्तु सर्व्वाणि दानानि ब्राह्मणेभ्यः प्रयच्छति ।संप्राप्य निवर्त्तेत दिवं शान्तमनामयम्
शृङ्गन्तु पश्चिमं यच्च ब्रह्मा तत्र स्थितः स्वयम् ।पूर्व्वशृङ्गे स्वयं विष्णुर्मध्ये चैव शिवः स्थितः
”इति नारसिंहे ३० १४ -- ४५
अन्यत् कौर्म्मे ४२ ४३ अध्याययोः वाराहे-रुद्रगीतासु द्रष्टव्यम्