| YouTube Channel

सुमन्त्रः (sumantraH)

 
शब्दकल्पद्रुमः
Sanskrit
सुमन्त्रः,
पुं,
कल्किदेवस्य ज्येष्ठभ्राता यथा, --“कल्केर्ज्येष्ठास्त्रयः शूराः कविप्राज्ञसुमन्त्रकाःतातमातृप्रियकरा गुरुविप्रप्रतिष्ठताः
”इति कल्किपुराणे अध्यायः
अपि ।“विशाखयूपभूपालः प्रायात् साधुजनप्रियः ।कल्किं द्रष्ठुं हरेरंशमाविर्भूतञ्च सम्भले
कविं प्राज्ञं सुमन्त्रञ्च पुरस्कृत्य महाप्रभम् ।गार्ग्य भार्ग्यविशालैश्च ज्ञातिभिः परिवारितम्
”इति तत्रैव अध्यायः
दशरथराजस्य सारथिः मन्त्री यथा, --“तद्गच्छ त्वरितं सूत राजपुत्त्रं यशस्विनम् ।राममानय भद्रं ते नात्र कार्य्या विचारणा
अश्रुत्वा राजवचनं कथं गच्छामि भामिनि ।तच्छ्रु त्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमत्रवीत्सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्
”इति वाल्मीकीये रामायणे अयोध्याकाण्डे १४सर्गः