| YouTube Channel

सुमनाः (sumanAH)

 
Wordnet
Sanskrit
Synonyms:
गोधूम, बहुदुग्धः, अपूपः, म्लेच्छभोजनः, यवनः, निस्तुषक्षीरः, रसालः, सुमनाः
noun
व्रीहिभेदः, गोधूलि-वर्णीयः धान्य-विशेषः, अस्य गुणाः-स्निग्धत्वम्, मधुरत्वम्, वात-पित्त-दाह-नाशित्वम्
"यवगोधूमजम् सर्व पयसश्चैव विक्रिया [मनु 5.25]"
Synonyms:
मालती, सुमना, जातिः, सुमनाः, जाती
noun
एका विशिष्टा पुष्पलता।
"मम पुष्पवाटिकायां मालती वर्धते।"
Synonyms:
गोधूम, बहुदुग्धः, अपूपः, म्लेच्छभोजनः, यवनः, निस्तुषक्षीरः, रसालः, सुमनाः
noun
व्रीहिभेदः, गोधूलि-वर्णीयः धान्य-विशेषः, अस्य गुणाः स्निग्धत्वम्, मधुरत्वम्, वात-पित्त-दाह-नाशित्वम्।
"कृषीवलः गोधूमं भूमौ वपति।"
Synonyms:
देवः, देवता, सुरः, अमरः, निर्जरः, त्रिदशः, सुपर्वा, सुमनाः, त्रिदिवेशः, दिवौकाः, आदितायः, दिविषत्, लेखः, अदितिनन्दनः, ऋभुः, अमर्त्यः, अमृतान्धाः, बर्हिर्मुखा, क्रतुभुक्, गीर्वाणः, वृन्दारकः, दनुजारिः, आदित्यः, विबुधः, सुचिरायुः, अस्वप्नः, अनिमिषः, दैत्यारिः, दानवारिः, शौभः, निलिम्पः, स्वाबाभुक्, दनुजद्विट्, द्युषत्, दौषत्, स्वर्गी, स्थिरः, कविः
noun
हिन्दुधर्मानुसारी यः सर्वभूतेभ्यः पूजनीयाः।
"अस्मिन् देवालये नैकाः देवताः सन्ति।"
Synonyms:
निम्बः, अरिष्टः, सर्वतोभद्रः, हिङ्गुनिर्यासः, मालकः, पिचुमर्दः, अर्कपादपः, कैटर्यः, वरत्वचः, छर्दिघ्नः, प्रभद्रः, पारिभद्रकः, काकफलः, कीरेष्टः, नेता, सुमनाः, विशीर्णपर्णः, यवनेष्टः, पीतसारकः, शीतः, पिचुमन्दः, तिक्तकः, कीकटः, शूकमालकः
noun
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
"निम्बः अतीव उपयोगी वृक्षः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
सुमनाः, [स्]
पुं,
(शोभनं मनो यस्य ।) देवता ।इत्यमरः
सुष्ठुमन्यते सुमना-अस् शोभनं मनोऽस्य इति वा इति भरतः
पण्डितः इति मेदिनी
पूतिकरञ्जः इतिशब्दमाला
निम्बः महाकरञ्जः गोधूमः ।इति राजनिर्घण्टः
(शोभनचित्ते, त्रि यथा, महाभारते २६ २१ ।“ततस्ते ब्राह्मणाः सर्व्वेवकं दाल्भ्यमपूजयन्
युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन्
”)
सुमनाः, [स्]
स्त्री,
(सुष्ठु, मनो यस्याः ।) पुष्पम् ।मालती इति मेदिनी
जाती शतपत्री ।इति राजनिर्घण्टः
“सुष्ठु मन्यते जनैर्मनोज्ञ-त्वात् शोभनं मनोऽस्यामिति वा सुमनाः सान्तास्त्रीलिङ्गा ।‘स्त्रियां सुमनसो भूम्नि पुष्पे जातौ भेदतः ।विदुष्यति यदा दृष्टस्तदा भेदेन शिव्यते
’इति व्याडिः ।‘सुमनाः पुष्पमालत्योः स्त्रियां नाधीरदेवयोः ।’इति सान्तेषु मेदिनी आवन्तापि सुमनास्ति ।‘सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा ।’इति सुश्रुतः ।” इत्यमरटीकायां भरतः