| YouTube Channel

सुमनसः (sumanasaH)

 
Wordnet
Sanskrit
Synonyms:
पुष्पम्, कुसुमम्, सुमनसः, सूनम्, प्रसवः, सुमनः
noun
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
"उद्याने पुष्पाणि सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
सुमनसः,
स्त्री,
भूम्नि, पुष्पम् इत्यमरः १७
सुप्रीतं मन आभिरिति सुमनसः नित्यबहुवच-नान्तत्वात् बहुवचननिर्देशः भूम्नि स्त्रियःसुमनसः इति रत्नकोषः
बहवश्च समा-सिकता अप् सुमनसोऽप्सरस इति भूम्नि वाम-नोऽपि भूम्नि भूरिप्रयोगः एकत्वञ्च दृश्यते ।सुमनाः पुष्पमालत्योः स्त्रियां ना धीरदेवयो-रिति मेदिनी वेश्या श्मशानसुमना इव वर्ज्ज-नीया इति शूद्रकप्रयोगश्च सुमनसः क्लीवत्व-मपि पुष्पं सुमनः कुसुममिति नाममालादिदर्श-र्नात् अप्रत्याख्येये दधिसुमनसीति क्लीवत्वंछान्दसमित्येके इति भरतः
(यथा, महा-भारते १३ ९८ २० -- २२ ।“मनो ह्लादयते यम्मात् श्रियञ्चापि ददाति ।तस्मात् समनसः प्रोक्ता नरैः सुकृतकर्म्मभिः
देवताभ्यः सुमनसो यो ददाति नरः शुचिः ।तस्य तुष्यन्ति वै देवास्तुष्टाः पुष्टिं ददत्यपि
यं यमुद्दिश्य दीयेरन् देवं सुमनसः प्रभो ।मङ्गलार्थं तेनास्य प्रीतो भवति दैत्यप !
”)