| YouTube Channel

सुप्तः (suptaH)

 
वैजयन्तीकोषः
Sanskrit
Word: सुप्तः
Root: सुप्त
Gender: पुं
Number: all
अर्थः सुप्तः इति पक्षिविशेषः
Meaning(s):
Wagtail with black breast
Shloka(s):
2|3|24|1 मिथुनी चञ्चलश्चाथ सुप्तोऽस्मिन् कृष्णवक्षसि। (अन्तरिक्षकाण्डः/खगाध्यायः)
Synonym(s):
2|3|24|1 सुप्तः (सुप्त) (पुं) Wagtail with black breast सुप्तः इति पक्षिविशेषः
Related word(s):
परा_अपरासंबन्धः खञ्जनः
जातिः पक्षी
शब्दकल्पद्रुमः
Sanskrit
सुप्तः, त्रि, (स्वप् + क्तः ।) निद्रितः तत्पर्य्यायः ।निद्राणः शयितः इति हेमचन्द्रः
तस्यबोधने विधिनिषेधौ यथा, --“क्षुधितस्तृषितः कामी विद्यार्थी कृषिकारकः ।भाण्डारी प्रवासी सप्त सुप्तान् प्रबोधयेत्
मक्षिका भ्रमरी सर्पो राजा वै बालकस्तथा ।परश्वापि मूर्खश्च सप्त सुप्तान्न बोधयेत्
”(स्वकार्य्याक्षमः यथा, --“त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा तुद्यतेआतन्यते सरागा पर्व्वरुक्त्वग्गतेऽनिले
”इति माधवकरसंगृहीतरुग्विनिश्चये वात-व्याध्यधिकारे
)