| YouTube Channel

सुपार्श्वः (supArzvaH)

 
Apte Hindi
Hindi
सुपार्श्वः
पुं*
सु-पार्श्वः -
"पाकड़ का पेड़, प्लक्ष"
Wordnet
Sanskrit
Synonyms:
सुपार्श्वः
noun
सम्पातेः पुत्रः यस्य वर्णनं पुराणेषु अस्ति।
"सुपार्श्वः जटायोः भ्रातृजः आसीत्।"
Synonyms:
सुपार्श्वः
noun
सुमालिनः दशसु पुत्रेषु एकः।
"सुपार्श्वस्य वर्णनं रामायणे अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
सुपार्श्वः,
पुं,
(सुष्ठु पार्श्वोऽस्य ।) चतुर्व्विंशति-वृत्तार्हदन्तर्गतवृत्तार्हद्विशेषः इति हेमचन्द्रः
प्लक्षवृक्षः इति राजनिर्घण्टः
पक्षिविशेषः ।स तु सम्पातिपुत्त्रः यथा, --“निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः ।”इत्युपक्रम्य ।“क्व सीता केन वा दृष्टा को वा हरतिमैथिलीम् ।तदाख्यातु भवान् सर्व्वं गतिर्भव वनौकसाम्
सहरीन् प्रतिसंमुक्तान् सीताश्रुतिसमाहितान्पुनराश्वासयन् प्रीत इदं वचनमब्रवीत्
अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते ।चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः
तं मामेवं गतः पुत्त्रः सुपार्श्वो नाम नामतः ।आहारेण यथाकालं विभर्त्ति पततां वरः
”इति बाल्मीकीये रामायणे किष्किन्धाकाण्डे५९ सर्गः
(पीठस्थानविशेषः यथा, देवी-भागवते ३० ६६ ।“नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी
”इलावृतवर्षस्य पर्व्वतविशेषः यथा, विष्णु-पुराणे १७“विपुलः पश्चिमे पार्श्वेसुपार्श्वश्चोत्तरे स्मृतः
)