| YouTube Channel

सुपात्रं (supAtraM)

 
शब्दकल्पद्रुमः
Sanskrit
सुपात्रं,
क्ली,
(सुष्ठु पात्रम् ।) योग्यव्यक्तिः ।(यथा, भागवते १४ ४१ ।“पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः ।तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम्
”)तत्र दानविधिर्यथा, --“तस्मात्मर्व्वात्मना पात्रे दद्यात्कनकदक्षिणाम्इति ।सर्व्वेषामेव पात्राणां परं पात्रं महेश्वरः ।पतन्तं त्रायते यस्मादतीव नरकार्णवादिति
पात्र्याण्याध्यात्मिका मुख्या विशुद्धाश्चाग्नि-होत्रिणः ।देवताश्च तथा मुख्या गोदानं ह्येतदुत्तममिति
सर्व्वत्र गुणवद्दानं श्वपाकादिष्वपि स्मृ तम् ।देशे काले विधानेन पात्रे दत्तं विशेषतः
”पात्रे विद्यातपस्यादिगुणयुक्ते इति प्राय-श्चित्ततत्त्वम्
अपि ।“तस्मात् सर्व्वात्मना पात्रे दद्यात् कनकमुत्तमम् ।अपात्रे पातयेद्दत्तं सुवर्णं नरकार्णवे
”इति शुद्धितत्त्वम्
*
शोभनभाजनम् शोभनञ्च तत्पात्रञ्चेति कर्म्म-धारयसमासनिष्पन्नम् उत्तमपात्रयुक्ते, त्रि