| YouTube Channel

सुनिषण्णकं (suniSaNNakaM)

 
शब्दकल्पद्रुमः
Sanskrit
सुनिषण्णकं,
क्ली,
पुं,
(सुनिषण्णमेव स्वार्थे कन् ।)शाकविशेषः सुषुणी इतिभाषा तत्पर्य्यायः ।वितुन्नम् इत्यमरः १४९
सुनि-षणम् चुचूः इति त्रिकाण्डशेषः
(यथा, “शितिवारः शितिवरः स्वस्तिकः सुनिषण्णकः ।श्रीवारकः सूचिपत्रः पर्णकः कुक्कुटः शिखी
चाङ्गेरीसदृशं पत्रं चतुर्द्दल इतीरितः ।शाको जलान्विते देशे चतुःपत्रीति चोच्यते
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)अस्य गुणाः यथा, --“अविदाही त्रिदोषघ्नः संग्राही सुनिषण्णकः ।”इति राजवल्लभः
अन्यत् सितावरशब्दे द्रष्टव्यम्