| YouTube Channel

सुनिषण्णं (suniSaNNaM)

 
शब्दकल्पद्रुमः
Sanskrit
सुनिषण्णं,
क्ली,
(सुष्ठु निषण्णं निद्रा यस्मात् ।)सुनिषण्णकशाकम् इति त्रिकाण्डशेषः
(यथा, सुश्रुते ४५ ।“पटोलशेलूसुनिषण्णयूथिकावटातिमुक्ताङ्कु रमिन्द्रवारजम् ।हितञ्च शाकं घृतसंस्कृतं सदातथैव धात्रीफलदाडिमान्वितम्
”क्वचित् पुंलिङ्गेऽपि दृश्यते यथा, --सुनिषण्णो हिमो ग्राहो मोहदोषत्रयापहः ।अविदाही लघुः स्वादुः कषायो रूक्षदीपनः ।वृष्यो रुच्यो ज्वरश्वासमेहकुष्ठभ्रमप्रणुत्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)