| YouTube Channel

सुनामद्वादशी (sunAmadvAdazI)

 
Spoken Sanskrit
English
सुनामद्वादशी sunAmadvAdazI
f.
particular religious observance performed on the 12th day of the 12th month
Monier Williams Cologne
English
सु—ना°म-द्वादशी
f.
a partic. religious observance performed on the 12th day of the 12th month,
VahniP.
Wordnet
Sanskrit
Synonyms:
सुनामद्वादशी
noun
एकः व्रतविशेषः।
"सुनामद्वादश्याः अनुष्ठानं मासस्य शुक्लपक्षस्य द्वादशतमे दिने क्रियते।"
शब्दकल्पद्रुमः
Sanskrit
सुनामद्वादशी,
स्त्री,
(सुनामा द्वादशी यद्वा, सुनामप्रिया द्वादशी ।) द्वादशमासीयद्वादश-कर्त्तव्यव्रतविशेषः यथा, --अम्बरीष उवाच ।“कथं सुनामभिर्देवो द्वादश्यां मुनिसत्तम् ।पूज्यते केशवो मर्त्त्यैर्भुक्तिकामफलार्थिभिः
वशिष्ठ उवाच ।शृणुष्वैकमना भूयः सुनामद्वादशीं शुभाम् ।सर्व्वपापहरां स्वर्ग्यां भुक्तिमुक्तिप्रदायिकाम्
मनसापि चिकीर्षन्ति ये द्वादशीं नरोत्तमाः ।तेऽपि घोरं पश्यन्ति पुनः संसारसागरम्
आद्यं सर्व्वव्रतानान्तु वैष्णवानां नृपोत्तम ।नरैः स्त्रीभिश्च कर्त्तव्यं विष्णोस्तुष्टिकरं परम्
*मार्गशीर्षे शुभे मासि शुक्लपक्षे यतव्रतः ।प्रथमं चैव गृह्णोयात् द्वादशीं विधिवन्नरः
मनोवाक्कायचेष्टाभिः विशुद्धो जितेन्द्रियः ।दशम्यां नियतः स्नात्वा प्रणिंपत्य जनार्द्दनम्
हविष्यान्नकृताहारः शुचिर्भूत्वा भवेद्व्रती ।उपलिप्ते शुचौ देशे भक्षयेत् दन्तधावनम्
उपोष्यैकादशीं सम्यक् पूजयित्वा जनार्द्दनम् ।सुनामद्वादशीं देव अहं भोक्ष्ये परेऽहनि
एवं सङ्कल्प्य नियमं प्रणम्य गरुडध्वजम् ।दशम्यामेकभक्ताशी संयतः संवसेन्निशाम्
एकादश्यां ततः कुर्य्यादेकचित्तः समाहितः ।पूर्व्वं प्रपूजयेत् सूर्य्यं ततोदेवं प्रपूजयेत्
नमस्ते देवदेवेश नमस्ते भक्तवत्सल ।भास्कराय नमस्तुभ्यं रवये कार्य्यभानवे
नमः सूर्य्याय देवाय नमस्ते सप्तसप्तये ।एकस्मै हि नमस्तुभ्यमेकचक्ररथाय
ज्योतिषां पतये नित्यं सव्वतेजोहराय ।दिवाकर नमस्तेऽस्तु प्रभाकर नमोऽस्तु ते
एवं संपूज्य विधिवत् पुष्पधूपानुलेपनैः ।दीपैर्व्वस्त्रैः सुनैवेद्यैस्ततो विष्णुगृहं व्रजेत्
ततोऽनु स्नापयेद्देवं दधिक्षीरघृतादिभिः ।सर्व्वौषधिजलैः पुण्यैस्तथा चन्दनवारिभिः
कुङ्कमोशीरकपूरैश्चन्दनेन विलेपयेत् ।अच्युतं चार्च्चयेद्भक्त्या मालतीकुसुमैर्भृशम्
गुग्गुलुं घृतसंयुक्तं धूपं दद्यादहर्निशम् ।पायसापूपसंयावकरम्भाज्यकदम्बकैः
नैवेद्यं हरये दद्यात् फलमोदकंयान्वितैः ।गीतवाद्यैर्हरेर्ह्येष प्रणमेच्च मुहुर्मुहुः
एवं पूजां हरेः कृत्वा द्विजं ज्ञानप्रदायकम् ।पूजयेदन्तरं नास्ति विप्रकेशवयोरपि
ततोऽव्रणं समालभ्य चन्दनेन नवं घटम् ।स्रग्विणं तोयसम्पूर्णं न्यसेद्देवस्य सन्निधौ
सहेममौक्तिकाक्षन्तु वज्ररत्नसुवर्णकम् ।न्यस्य गर्भे सवस्त्रन्तु पूजयेत्तत्र केशवम्
यस्य रोम्नि स्थिता मेघाः सर्व्वसन्धिषु पन्नगाः
सागराः कुक्षिदेशस्थाः सोऽत्रायातु जगत्पति ।वनस्पतिरसो दिव्यः सर्व्वगन्धेषु चोत्तमः ।घृतेन सहसोन्मिश्रो धूपोऽयं प्रतिगृह्यताम्
केशवः केशिहा केशिकंसारिष्टनिसूदनः ।सर्व्वकामप्रदो देवः मे पापं व्यपोहतु
एवमभ्यर्च्च्य देवेशं प्रणिपत्य क्षमापयेत् ।द्वादश्यां तत्र तोयेन स्नापयेत्तेन मानवः
सर्व्वपापविनिर्मुक्तो वैष्णवीं लभते तनुम् ।कृताभिषेकः पुण्यात्मा सम्यगभ्यर्च्च्य केशवम्
नवनीतकृतां धेनुं व्राह्मणायोपपादयेत् ।कशवः प्रीयतां देवः केशिहन्ता महाच्युतः ।स मे भवेत्तु सुप्रीतः इष्टान् कामान् प्रयच्छतु ।एवं प्रदक्षिणं कृत्वा शृणु तस्यापि यत् फलम्
त्रिंशदब्दकृत पापं हित्वा त्रिविधं नरः ।षष्टिं वर्षसहस्राणि स्वर्गे मोदति देववत्
यदा कालादिहायाति सधर्म्मो धनवान् भवेत्अभावादथ धेनूनां तत् पात्रं कल्पयेत्ततः
तत्फलं हि विनिर्द्दिष्टं यथाशक्त्या तु दक्षिणा ।भक्त्या फलं समाप्नोति भक्तिरेवात्र कारणम्
*पौषस्यैव तु मासस्य योऽप्येवं क्षपयेन्नरः ।समाहितमना भूप रसधेनुप्रदायकः
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।अयनं वर्त्मनी तस्मात् नारायण इति स्मृतः
नारायणः प्रीयतां मे देवो नरप्रियः सदा ।इष्टकामप्रदो नित्यं मे पापं व्यपोहतु
ततः प्रदक्षिणं कृत्वा ब्राह्मणान् भोजयेत्ततः ।एवं हि पौषमासस्य तस्य पुण्यफलं शृणु
षष्ट्या वाब्दैः कृतं पापं स्वल्पं वा यदि वा बहुहत्वा स्वर्गं समाप्नोति वर्षाणामयुतायुतम्
*
माघस्यैव तु मासस्य द्वादशीं शुक्लपक्षतः ।यः क्षिपेद्धि शुचिर्भूत्वा एकचित्तः समाहितः
स्नापने पूजने नित्यं ब्राह्मणानाञ्च तर्पणे ।प्रदाने नृपशार्द्दूल इमं मन्त्रमुदीरयेत्
मा लक्ष्मीश्च पुरात्रेयी भगिनी शशिनोऽनुजा ।भर्त्ता त्वमपि तस्याश्च सर्व्वकामद माधव
प्रीयतां माधवो देवो मधुकैटभसूदनः ।वासुदेवो जगन्नाथो मम पापं व्यपोहतु
एवं यः कुरुते सद्यस्तस्य पुण्यफलं शृणु ।यावज्जन्मकृतं पापं हत्वा सर्व्वमशेषतः
दिव्यवर्षसहस्राणि स्वर्गे वसति षोडश ।गुडधेनुप्रदो माघे इहायातः सदा सुखी
भवेद्राजन् निरातङ्कः पुत्रैश्वर्य्यसमन्वितः ।तत्र विष्णुपरो भूत्वा क्रमान्मोक्षमवाप्नु यात्
*
फाल्गुनामलपक्षस्य द्वादश्यां नियतः शुचिः ।पूजयित्वा विधानेन देवदेवं स्वशक्तितः
मन्त्रेणानेन राजेन्द्र गोविन्दः प्रोयतामिति ।गवा भक्तोऽसि गोस्वामो गोवासो गोकृतालयःसर्व्वकामप्रदो नित्यं मे पापं व्यपोहतु ।स्तुत्ववं शर्कराधेनुं भक्त्या दद्यात् द्विजातये
ततः प्रदक्षिणं कृत्वा शृणु पुण्यं यथातथम् ।वलोवर्द्दसहस्राणां दशानां धूर्विवाहिनाम्
तंस्तत् फंलमाप्नोति द्वादश्या यद्भवेन्नृप ।दिव्यवषसहस्राणि स्वर्गे तिष्ठति स्वर्गिवत्
*
चैत्रस्य द्वादशीं शुक्लां समुपोष्य नृपोत्तम ।स्नात्वा प्रपूजयेद्विष्णुं जगतोऽन्तरचारिणम्
पूर्व्वाक्तविधिवत् स्नात्वा गोमूत्रैर्गौमयेन ।स्नापयित्वामृतेनैव पञ्चानां गन्धसंयुतैः
अद्भिः पश्चात् प्रपूज्यैवं गन्धधूपविलेपनैः ।पुष्पैर्व्वासोभिरेवं हि मन्त्रेणानेन बुद्धिमान्
प्रवेशने यथाशीलो जगतां रक्षणाय ।दुर्वृत्तानां विनिर्जेतुमसि विष्णुरतो हरे
विष्णुर्भवतु मे प्रीतो विष्णुर्देवः सनातनः ।सर्व्वपापविनाशाय विणुर्मे प्रीयतामिति
मधुधेनुमभावाच्च शक्तितः पात्रमेव ।दत्त्वा यत् फलमाप्नोति तदिहैकमनाः शृणु
पूर्व्वजम्मनि यत् पापमिह जन्मनि साम्प्रतम् ।वर्त्तते सकलं हत्वा स्वर्गलोके महीयते
*
वैशाखस्य तु मासस्य पूजयेन्मधुसूदनम् ।पूर्व्वीक्तविधिना राजन् सौवर्णं मधुसूदनम्
जलकुम्भे तु संस्थाप्य मन्त्रेणानेन पूजयेत् ।एकार्णवे जले धातुर्हृता वेदाः पुरा हरे
मधुना ते हतः सोऽपि तेनासि मधुसूदनः ।स मे भवतु सुप्रीतो देवदेवः सनातनः
सर्व्वपापविनाशाय प्रीयतां मधुसूदनः ।घृतधेनुमथो दत्त्वा व्राह्मणान् भोजयेत्ततः
ततः प्रदक्षिणं कुर्य्यात् दत्त्वा देयान् यथोपगान्एवन्तु क्षपमाणस्य तस्य पुण्यफलं शृणु
कपिलानां सहस्रस्य सम्यग्दत्तस्य पुष्करे ।तत्फलं समवाप्नोति भक्तियुक्तोऽप्यसंशयः ।यावदिन्द्रो वसेत् स्वर्गे तावदेव तिष्ठति
*
ज्यैष्ठस्यैव तु मासस्य श्रुक्लपक्षे तु द्धादशीम् ।पूजयेद्विधिवद्भक्त्या समुपोष्य त्रिविंक्रमम्
जलधेनुमथो दद्याद्विप्राय नियतः शुचिः ।यज्ञभागभुजो दैत्यान् सन्निहत्य क्रमैस्त्रिभिः
त्रैलोक्यमाहृतं तस्मात् तेनासि त्वं त्रिविक्रमःत्रिविक्रमं त्रिलोकेशं प्रीणयामि त्रिविक्रमम्
ततः प्रदक्षिणं कृत्वा ब्राह्मणेभ्यश्च दक्षिणाम् ।वत्त्वा तु भोजयेत्तांस्तु शृणु तस्यापि यत् फलम्वाजपेयस्य यज्ञस्य सम्यगिष्टस्य पार्थिव ।तत्फलं लभते मर्त्त्यः परत्रेह सुखी भवेत्
*
वामनस्तु तथाषाढे समुपोष्य प्रयत्नतः ।द्वादशीनियताहारो वामनं तत्र पूजयेत्
हिताय सर्व्वदेवानां आदित्यः कामदो यथा ।तथा त्वं भव मे देव वामनो वलिबन्धनः
तिलधेनुं ततो दद्यात् वामनः प्रीयतामिति ।तदभावात्तथा पात्रं यथाशक्त्या दक्षिणाम्
पूर्व्वजन्मकृतं पापमिहजन्मकृतञ्च यत् ।तत् सर्व्वं विनिहत्याशु परत्र शुभां गतिम्
*
श्रावणस्य तु मासस्य द्वादश्यां शुक्लपक्षतः ।यः क्षिपेन्नियतो भूत्वा समुपोष्य जनार्द्दनम्
समर्च्चयेत् यथाशक्त्या पूर्व्वोक्तविधिना ततः ।धेनुं सर्व्वगुणोपेतां ब्राह्मणाय निवेदयेत्
मन्त्रेणानेन राजेन्द्र पौराणविहितेन ।समादाय ततो लक्ष्मीं लोकेभ्यः क्षीरसागरे ।स्वपिषि श्रावणे मासि श्रीधरोऽसि जगत्पते !
श्रावणे श्रीधरो देवः श्रीवत्सः श्रोनिकेतनः ।प्रीयतां हि श्रियः कान्तो गतिमिष्टां ददातु मेगवां दशसहस्रेण पात्रदत्तेन यत् फलम् ।सकलं लभते मर्त्यो भक्तियुक्तो संशयः ।स्वर्गेषु विपुलान् भोगान् भुनक्ति सुरराडिव
*
तेनैव विधिना राजन् मासे भाद्रपदे ततः ।समुपोष्य ततो भक्त्या हृषीकेशं प्रपूजयेत्
मुक्ताधेनुमथो दद्यात् यथाविभवविस्तरात् ।हृशीकाणीन्द्रियाण्याहुस्तेषामीशो जगत्पतिः
करोति कर्त्तृभूतोऽसौ हृषीकेशो भतानतः ।देवदेवं हृषीकेशं भूतेषु प्रभवाव्ययम्
प्रीणयामि सुसंप्रीतो मम पापं व्यपोहतु ।एवं प्रदक्षिणं कृत्वा विष्णुलोके महीयते
*
द्वादश्यां समुपोष्यैव पद्मनाभं तथाश्विने !पूजयेद्विधिवद्भक्त्या गन्धधूपविलेपनैः ।गन्धधेनुं ततो दद्यात् कर्पूरागुरुचन्दनैः ।कुङ्कुमेन हि राजेन्द्र वित्तशाठ्यं विवर्ज्जयेत्
एकार्णवगते तोये स्वपतो यस्य वेधसः ।निवासाय भवन्नाभ्यां पद्मनाभोऽसि इत्युत
प्रीयतां पद्मनाभो मे दुस्कृतं चोपशाम्यतु ।इत्युक्त्वा तं समभ्यर्च्च्य दद्यात् धेनुं द्विजायते
इत्येवं क्षपमाणस्य तस्य पुण्यमतः शृणु ।सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।दग्ध्वा तत् सकलं भूप विष्णुलोकं गच्छति
*
कार्त्तिकस्य तु मासस्य एकादश्यामुपोषितः ।प्रसुप्तं बोधयेद्रात्रौ श्रद्धाभक्तिसमन्वितः
नृत्यैर्गीतैस्तथा वाद्यैरृग्यजुःसाममङ्गलैः ।बीणापणवशब्दैश्च पुराणश्रवणेन
वासुदेवकथाभिश्च स्तोत्रैरन्यैश्च वाहवैः ।सुभाषितैरिन्द्रजालैर्भूमिशोभाभिरेव
पुष्पैर्धूपैश्च नैवेद्यैर्दीपवृक्षंश्च शोभनैः ।होमैर्भक्ष्यैरपूपैश्च फलैः शाकैश्च पायसैः ।इक्षोर्विकारैर्मधुना द्राक्षाखोडैः सदाडिमैः ।कुठेरकस्य मञ्जर्य्या सर्ज्जिकालवणेन
हृद्याभ्यां श्वेतरक्ताभ्यां चन्दनाभ्याञ्च सर्व्वदा ।कुङ्कु मालक्तकाभ्याञ्च रक्तसूत्रैः सकङ्कणैः
तथा नानाविधैः पुष्पैर्द्रव्यैर्वीचिक्रियाघनैः ।तस्याम् रात्र्यां व्यतीतायां द्वादश्यामरुणोदये ।स्नात्वा नदीजलैः पुण्यैः प्रतिमां स्नापयेत्ततः
उत्थितां त्वपरै रम्यां ताम्रां रौप्यां सुवर्णजाम् ।वैष्णवी प्रतिमा यत्र चित्रे सुप्ता क्कचित् भवेत् ।तत्र स्नानादिपूजा वेद्यां कार्य्या विष्णवे
आदौ घृतेन तैलेन मधुना तदनन्तरम् ।दध्ना क्षीरेण ततः पञ्चगव्येन शास्त्रवित्
उद्वर्त्तनं माषचूर्णं मसूरामलकानि ।रौध्रं कालीयकञ्चैव नागरं वर्णकं तथा
सर्षपाश्च प्रियङ्गुश्च मातुलुङ्गरसैस्तथा ।सर्व्वौषध्यः सर्व्वगन्धाः सर्व्वबीजानि काञ्चनम्
माङ्गल्यानि यथालाभं रत्नानि कुशोदकम् ।हस्तिदन्तोद्धृता मृच्च वृषशृङ्गोद्धृता तथा
नदीतोराद्गवां स्थानात् वल्मीकात् सङ्गमात्ह्रदात् ।द्वन्द्वस्थानाच्च सरसस्तथा पर्व्वतमस्तकात्
एताभिः स्नाप्य देवेश दद्यात् गोरोचनां शुभाम्ततस्तु कलसा देया यथाप्राप्तं स्वलङ्कृताः
जातीपल्लवसंयुक्ताः सफलाश्च सकाञ्चनाः ।पुण्याहवेदशब्देन वीणावेणुरवेण
शब्देन मधुरेणैव सूतमागघवन्दिनाम् ।एवं संस्थाप्य गोविन्दं स्वनुलिप्तं स्वलङ्कृतम्
सुवासं पूजयेत्तन्तु सुमनोभिश्च कुङ्कुमैः ।दीपैर्धूपैर्मनोज्ञैश्च पायसेन तु भूरिणा
नानारत्नप्रदानैश्च होमैः पुण्यैः सदक्षिणैः ।वासोभिर्भूषणैर्हृद्यैर्गीभिरश्वैर्गजैरपि
ब्राह्मणाः पूजनीयाश्च विष्णोराद्याः सुमूर्त्तयः ।विष्णो रात्रौ प्रसुप्तस्य दामोदरगतं यतः
ब्रह्माण्डस्य तेनासि दामोदर इति स्मृतः ।दामोदर इमां धेनुं गृह्णातु स्वयमेव हि
द्विजरूपेण ते विष्णो प्रकृत्येषा सनातनी ।इत्येवं पृथिवीदानात् फलं प्राप्नोति मानवः
सुवर्णस्य महाधेनुं दत्त्वा नृपवरोत्तमः ।हत्वा पापान्यशेषाणि शतजन्मान्तराणि वै
वैष्णवं लोकमाप्नोति यावदिन्द्राश्चतुर्द्दश ।सम्यगत्र व्रते चीर्णे सप्तजन्मानुगं फलम्
ददाति भगवान् विष्णुः कामान् मोक्षं नरेश्वर ।ब्राह्मणान् भोजयेद्भक्त्या भक्षैरुच्चावचैरपि
ततः प्रदक्षिणं कृत्वा यथाशक्त्या दक्षिणाम् ।कलसान् द्वादशैवैवं ब्राह्मणेभ्यः प्रदापयेत्
वस्त्रेणावेष्टितग्रीवान् हेमगर्भोपशोभितान् ।दधिक्षीरयुतांश्चै सगुडान् नृप भूरिशः ।शक्तिर्यथा तथा दद्यात् भक्तिरेवात्र कारणम्
प्रसङ्गेनापि यो राजन् सुनामद्वादशीं नरः ।करोति पुण्यभागी यथा दैत्योद्भवो बलिः
एवं यः कुरुते राजन् सुनामद्वादशीं नरः ।राजसूयस्य यज्ञस्य फलं समधिकं भवेत्
सर्व्वदानेषु यत् पुण्यं यच्च पुण्यं तपोवने ।सर्व्वतीर्थेषु यत् पुण्यं तत् पुण्यं समुदाहृतम्
गावो द्वादश दातव्या वस्त्रयुग्मानि काञ्चनम् ।अलाभे चैव गामेकां पात्रं वा स्वर्णसंयुतम्
मासे मासेऽथवाप्येवं चञ्चलं जीवितं यतः ।बहुविघ्ना हि धर्म्मस्य कर्त्तुश्छिद्रं जायते
एतज्ज्ञात्वा सुमेधावी तत्र ग्लपयेन्मनः ।न तस्य वित्तलाभोऽस्ति भक्तिग्राह्यो हि केशवः
अनेन विधिना यस्तु द्वादशीं प्रतिवत्सरम् ।कृत्वा नरः परं याति विष्णुलोकमनामयम्
सुनामद्वादशी चैव व्रतानामुत्तमा नृप ।आद्या नरैस्तु कर्त्तव्या तोषयद्भिर्जनार्द्दनम्
यश्चैनां कीत्तयेत् पुण्यां शृणुयात् द्वादशीं नरः
तावुभौ गच्छतः स्वर्गं कर्त्ता विष्णुपुरं व्रजेत्
”इति वह्रिपुराणे सुनामद्वादशीनामाध्यायः
वाचस्पत्यम्
Sanskrit
सुनामद्वादशी स्त्री व्रतभेदे व्रतशब्दे ५०६६ पृ० दृश्यम्