| YouTube Channel

सुधर्म्मा (sudharmmA)

 
शब्दकल्पद्रुमः
Sanskrit
सुधर्म्मा,
स्त्री,
(शोभनो धर्म्मोऽस्यामिति ।अनिच् ततः “डाबुभाभ्यामन्यतरस्याम् ।” ।१ १३ इति पक्षे डाप् ।) देवसभा इत्य-मरः ५१
(यथा, रघुः १७ २७ ।“स राजककुदव्यग्रपाणिभिः पार्श्ववर्त्तिभिः ।ययावुदीरितालोकः सुधर्म्मानवमां सभाम्
”“सुधर्म्माया देवसभाया अनवमां अन्यूनाम् ।”इति तट्टीकायां मल्लिनाथः
)
सुधर्म्मा, [न्]
पुं,
(सुष्ठु धर्म्मो यत्र “धर्मादनिच्केवलात् ।” १२४ इति अनिच् ।)देवसभा कुटुम्बी इत्युणादिकोषः १८७
(देवसभार्थे स्त्रीलिङ्गोऽपि भवति
*
सु + धृ +“मिथुने मनिः ।” उणा० १५१ इति मनिःक्षत्त्रियः इत्युज्ज्वलदत्तः
सद्धर्म्मविशिष्टे, त्रियथा, हरिवंशे ११५ ७५ ।“सुधर्म्मणे सुधर्म्मां तां कृष्णायाक्लिष्टकारिणे ।देवो देवसभां दत्त्वा वायुरन्तरधीयत
”)
वाचस्पत्यम्
Sanskrit
सुधर्म्मा स्त्री सुष्ठु धर्मो यस्याः अनिच्समा० वा डाप् देवस-भायाम् अमरः गौरा० ङीष् सुधर्मीत्यप्यत्र अमरटीका