| YouTube Channel

सुदर्शनचूर्ण (sudarzanacUrNa)

 
Monier Williams Cologne
English
सु—दर्शन—चूर्ण
n.
‘beautiful powder’, a medicinal compound used in fevers,
ŚārṅgS.
शब्दकल्पद्रुमः
Sanskrit
सुदर्शनचूर्णं,
क्ली,
(सुदर्शनं सुदृश्यं चूर्णं यस्य ।)ज्वररोगस्य औषधविशेषः यथा, --“त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी ।त्रिकटु ग्रन्थिकं मूर्व्वा गुडुची धन्वयासकः
कटुका पर्पटो मुस्तं त्रायमाणा वालु-कम् ।निम्बं पुष्करमूलञ्च मधुयष्टी वत्सकः
यवानीन्द्रयवो भार्गो शिग्रुबीजं सुराष्ट्रजा ।वचा त्वक् पद्मकोशीरचन्दनातिविषाबलाः
शालिपर्णी पृश्निपर्णी विडङ्गं तगरं तथा ।चित्रकं देवकाष्ठञ्च चव्यं पत्रं पटोलजम्
जीवकर्षभकौ चैव लवङ्गं वंशलोचना ।पुण्डरीकञ्च काकोलिपत्रकं जातिपत्रकम्
तालीशपत्रमेतानि समभागानि चूर्णयेत् ।अर्द्धांशं सर्व्वचूर्णस्य किरातं प्रक्षिपेत् सुधीः
एतत् सुदर्शनं नाम चूर्णं दोषत्रयापहम् ।ज्वरांश्च निखिलान् हन्यान्नात्र कार्य्या विचा-रणा
पृथग्द्वन्द्वागन्तुजांश्च धातुस्थान् विषमज्वरान् ।सन्निपातोद्भवांश्चापि मानसानपि नाशयेत्
शीतादीनपि दाहादीन् मोहं तन्द्रां भ्रमंतृषाम् ।कासं श्वासञ्च पाण्डु ञ्च हृद्रोगं कामलापि
त्रिकपृष्ठकटीजानुपार्श्वशूलञ्च नाशयेत् ।शीत्यम्बुना पिवेदेतत् सर्व्वज्वरनिवृत्तये
मुदर्शनं यथा चक्रं दानवानां विनाशनम् ।तद्वज्जराणां सर्व्वेषां चूर्णमेतत् प्रणाशनम्
*पुष्करमूलाभावे कुष्ठमपि दद्यात् भार्ग्य भावेकण्टकारीमूलम् सौराष्ट्र्यभावे स्फुटिकांदद्यात् तगरालाभे कुष्ठं देयम् जीवकर्ष-भयोरभावे विदारीकन्दस्य भागद्वयं दद्यात् ।पुण्डरीकं श्वेतकमलम् काकोल्यभावे अश्व-गन्धामूलं दद्यात् तालीशपत्रकाभावे स्वर्ण-ताली प्रदीयते इति अथवा कण्टकारीजटादेया इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
सुदर्शनचूर्ण
न०
चूर्णरूपौषधभेदे“त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी त्रिकटुग्रन्थिकं मूर्वा गुडूची धन्वयासकः कटुका पर्पटो मुस्तंत्रायमाणा बालुकम् निम्बं पुष्करमूलञ्च मधुयष्टीच वत्सकः यवानीन्द्रयवो भार्गी शिग्रुवीजं सुरा-ष्ट्रजा वचा त्वक् पद्मकोशीरचन्दनातिविषा बला ।शालिपर्णी पृश्निपर्णी विडङ्गं तगरं तथा चित्रकंदेवकाष्ठञ्चं चव्यं पत्त्रं पटोलजम् जीवकर्षभकौ चैवलवङ्गं वंशलोचना पुण्डरीकञ्च काकोली पत्रकं जातिपत्रकम् तालीशपत्रमेतानि समभागानि चूर्णयेत् ।अर्द्धांशं सर्वचूर्णस्य किरातं प्रक्षिपेत् सुधीः एतत्सुदर्शनं नाम चूर्णं दोपत्रयापहम् ज्वरांश्च नि-खिलान् हन्यान्नात्र कार्य्या विचारणा पृथग्द्वन्द्वा-गन्तुजांश्च धातुस्थान् विषमज्वरान् सन्निपातोद्भवां-श्चापि मानसानपि नाशयेत् शीतादीनपि दाहादीन्मोहं तन्द्रां भ्रमं तृषाम् कासं श्वासञ्च पाण्डुञ्च हृ-द्रोगं कामलां तथा त्रिकपृष्टकटीजानुपार्श्वशूलञ्चनाशयेत् शीताम्बुना पिबदेतत्सर्वज्वरनिवृत्तये सु-दर्शनं यथा चक्रं दानबानां विनाशर्नम् तद्वज्ज्वराणांमर्वेषां चूर्णमेतत् प्रणाशनम्” पुष्करमूलाभावे कुष्ठमपिदद्यान् भार्ग्यभावे कण्टकारीमूलम् सौराष्ट्र्यभावेस्मटिकां दद्यात् तगरालाभे कुष्ठं देयम् जीव-कर्षभयारभावे विदारीकन्दस्य भागद्वयं दद्यात् पुण्ड-रीकं श्वेतकमलम् काकोल्यभावे अश्वगन्धमूलं दद्यात् ।तालीशपत्रकाभावे स्वर्णताली प्रदीयते” भावप्र०