| YouTube Channel

सुतहिवुकयोग (sutahivukayoga)

 
शब्दकल्पद्रुमः
Sanskrit
सुतहिवुकयोगः,
पुं,
विवाहोक्तयोगविशेषः ।यथा, ज्योतिःसारसंग्रहे ।“सुतहिवुकवियद्विलग्नधर्म्मे-ष्वमरगुरुर्यदि दानवार्च्चितो वा ।यदशुभमुपयाति तच्छुभं स्यात्शुभमतिवृद्धिमुपैति तत्प्रभावात्
”अपि ज्योतिस्तत्त्वे ।“लग्ने तत्पञ्चमे तूर्य्ये नवमे दशमे तथा ।गुरुर्भृ गुर्व्वा दोषघ्नो विवाहे वर्द्धते शुभम्
”अयमेव सुतहिवुकयोगः
वाचस्पत्यम्
Sanskrit
सुतहिवुकयोग
पु०
“सुतहिवुकवियद्विलग्नधर्मेष्वमरगुरु-र्यदि दानवार्चितो वा यदशुभमुपयाति तच्छुभं स्यात्”ज्यो० उक्ते वैवाहिकलग्नात् सुत हिवुका दिस्थितेग्रहभेदरूपे योगे